शरीरपर्वतस्थायां चलायां तत्प्रसादतः । सो ऽस्यां गहनकोशायां हृद्गुहायां गुहेश्वरः
मनष्षष्ठेन्द्रियाचारसत्तातीतामलात्मनः । तस्य संव्यवहारार्थं सञ्ज्ञा चिद् इति कल्पिता
स एष चिन्मयस् सूक्ष्मस् सर्वव्यापी निरञ्जनः । इमं भासुरम् आभासं करोति न करोति च
सा चिद् अत्यन्तविमला जगदर्थां जगत्क्रियाम् । इमां रञ्जयति प्राज्ञ रसेनेव मधुर् लताम्
चारवो ये चमत्काराश् चितश् चिति यथास्थितम् । चमत्कुर्वन्ति किल ते एते केचिन् नभोऽभिधाः
केचिज् जीवाभिधानाश् च केचिच् चित्ताभिधानकाः । केचित् कालाभिधानाश् च केचिद् देशाभिधानकाः
केचित् क्रियाभिधानाश् च केचिद् द्रव्याभिधानकाः । केचिद् भावविकारादिजाड्यचित्त्वाभिधानकाः
प्राकाश्याद्यभिधाः केचित् केचिच् चैव तमोऽभिधाः । अर्केन्द्वाद्यभिधाः केचित् केचिद् यक्षाभिधानकाः
निरिच्छस्वस्वभावेन वसन्तेन यथाङ्कुरः । जन्यते तद्वद् एवेयं जगल्लक्ष्मीश् चिदात्मना
चिद् इमासु समग्रासु सर्वदैवैकिकैव हि । त्रैलोक्याम्बुधिसंस्थासु शरीरजलजालिका
शरीरपङ्कजभ्रान्तमनोभ्रमरसम्भृतम् । आस्वादयति सङ्कल्पमधु मत्ता चिदीश्वरी
ससुरासुरगन्धर्वं सशैलार्णवकं जगत् । चिति स्थिरं प्रवहति जलावर्ते तृणं यथा
चञ्चच्चित्तमयाचारचारचञ्चुरचक्रिकम् । संसारचक्रं चिच्चक्रे भ्राम्यति भ्रमभाजनम्
चिच् चतुर्भुजरूपेण जघानासुरमण्डलम् । कालो जलदखण्डेन सायुधेन यथातपम्
चित् त्रिनेत्रतया ब्रह्मन् वृषशीतांशुचिह्नया । गौरीकमलिनीवक्त्रपद्मषण्डालितां गता
विष्णोः पद्मालिताम् एत्य चिद् ध्यानाधीनमानसीम् । त्रयीनलिन्यास् सरसीं धत्ते पैतामहीं स्थितिम्
चितो ब्रह्मन् विचित्राणि शरीराणीह भूरिशः । पत्त्राणीव तरोर् हेम्नि केयूरादिक्रियेव वा
चित् समस्तसुरानीकपरिवन्दितपादया । त्रैलोक्यचूडामणितां धत्ते वासवलीलया
चित् सुरासुरताम् एत्य त्रैलोक्योदरडम्बरे । पतत्य् उदेति संयाति स्वात्मनैवाब्धिवारिवत्
चिच्चन्द्रिका चतुर्दिक्कम् एवाभासं वितन्वती । विकासयति निश्शेषभूतसत्ताकुमुद्वतीम्
चिद्दर्पणमहालक्ष्मीस् त्रिजगत् प्रतिबिम्बितम् । गृह्णात्य् अनुग्रहेणान्तस् स्वगर्भम् इव गर्भिणी
चिच् चतुर्दशभूतानां मण्डलानि महान्ति च । भूतीकरोति वारिश्रीस् समुद्रत्वम् इवाम्बुधेः
विचित्रालोककुसुमा घनसङ्कल्पपल्लवा । व्योमकेदारिकारूढा सत्तौघफलशालिनी
जीवजालरजःपुञ्जा वासनारसरञ्जिता । संवेदनत्वग्वलिता चित्रेहाकलिकाकुला
अतीतासङ्ख्यत्रिजगत्केसरोज्ज्वलरूपिणी । अनारतस्पन्दमहाविलासोल्लासहासिनी
सर्वर्तुपर्वपरुषा जडशैलादिगुम्फिता । विहगग्रन्थिवलिता मूलाग्रपरिवर्जिता
चिल्लतेयं विकसिता पेलवं सदसद्वपुः । विचित्रं दृश्यकुसुमं परामर्शासहं बहु
अनयेह हि सर्वत्र च्छायाच्छापि विजन्यते । मन्यते तन्यते वस्तु गीयते क्रियते ऽपि च
महाचितानया नित्यं भासन्ते भास्करादयः । देहास् स्वदन्ते च मिथस् त्वन्मच्चिज्जडविभ्रमैः
विततावर्तवर्तन्या चिद्वात्येयं प्रनृत्यति । जगज्जालरजोलेखा तत्सत्ता दृश्यदेहिनी