अकृत्रिमम् अनाद्यन्तम् अद्वितीयम् अखण्डितम् । अबहिस्साधनासाध्यं सुखं तस्माद् अवाप्यते
प्रबुद्धस् त्वं मुनिश्रेष्ठ तेनेदं तव वर्ण्यते । नासि देवार्चने योग्यः पुष्पधूपमये महान्
अव्युत्पन्नधियो ये हि बालाः पेलवचेतसः । कृत्रिमार्चामयं तेषां देवार्चनम् उदाहृतम्
गन्धाक्षतैश् च दीपैश् च पुष्पाद्यैः पूजयन्ति हि । मिथ्यैव कल्पितैर् देवम् आकारे कल्पितात्मकम्
स्वसङ्कल्पकृतैः कृत्वा क्रमैर् अर्चनम् आदृताः । बालास् सन्तापम् आयान्ति पुष्पधूपलवार्चनैः
स्वसङ्कल्पकृतैर् अर्थैः कृत्वा देवार्चनं मुधा । यतः कुतश्चिन् मिथ्यात्म फलम् अत्रार्पयन्ति ते
पुष्पधूपार्चनं ब्रह्मन् कल्पितं बालबुद्धिषु । यत् स्याद् भवादृशे ऽयोग्यम् अर्चनं तद् वदाम्य् अहम्
अस्मदादिस् तु नो कश्चिद् देवो मतिमतां वर । देवस् त्रिभुवनाधारः परमात्मैव नेतरः
शिवस् सर्वपदातीतस् सर्वसङ्कल्पनातिगः । सर्वसङ्कल्पवलितो न सर्वी न च सार्विकः
दिक्कालाद्यनवच्छिन्नस् सर्वारम्भप्रकारकृत् । चिन्मात्रमूर्तिर् अमलो देव इत्य् उच्यते मुने
संवित् सर्वकलातीता सर्वभावान्तरस्थिता । सर्वसत्ताप्रदा देवी सर्वसन्तापहारिणी
ब्रह्म ब्रह्मन् सदसतोर् मध्यं तद् देव उच्यते । परमात्मापराभिख्यं तत् सद् ॐ इत्य् उदाहृतम्
महासत्तास्वभावेन सर्वत्र समतां गतम् । महाचिद् इति च प्रोक्तं परमार्थ इति श्रुतम्
स्थितं सर्वत्र सर्वर्तु लतास्व् अन्तर् यथा रसः । सत्तासामान्यरूपेण महाचित्त्वात्मनापि च
यच् चित्तत्त्वम् अरुन्धत्या यच् चित्तत्त्वं तवानघ । यच् चित्तत्त्वं च पार्वत्या यच् चित्तत्त्वं गणेषु च
चित्तत्त्वं यन् ममेदं च चित्तत्त्वं यज् जगत्त्रये । तद् देव इति तत्त्वज्ञा विदुर् उत्तमबुद्धयः
पादपाण्यादिमान् अन्यो यो वा देवः प्रकल्प्यते । स चिन्मात्राद् ऋते ब्रह्मन् किंसारः किल कथ्यताम्
न स दूरे स्थितो ब्रह्मन् न दुष्प्रापस् स कस्यचित् । स संस्थितस् सदा देहे सर्वत्रैव च खे तथा
स करोति स चाश्नाति स बिभर्ति प्रयाति च । स निश्श्वसति संवेत्ता सो ऽङ्गान्य् अङ्गानि वेत्ति ते
सो ऽस्यां विचित्रचेष्टायां प्रकाशायां च तद्वशात् । तत्स्वरूपनिबद्धायां पुर्याम् अङ्गपुरीश्वरः
शरीरपर्वतस्थायां चलायां तत्प्रसादतः । सो ऽस्यां गहनकोशायां हृद्गुहायां गुहेश्वरः
मनष्षष्ठेन्द्रियाचारसत्तातीतामलात्मनः । तस्य संव्यवहारार्थं सञ्ज्ञा चिद् इति कल्पिता
स एष चिन्मयस् सूक्ष्मस् सर्वव्यापी निरञ्जनः । इमं भासुरम् आभासं करोति न करोति च
सा चिद् अत्यन्तविमला जगदर्थां जगत्क्रियाम् । इमां रञ्जयति प्राज्ञ रसेनेव मधुर् लताम्
चारवो ये चमत्काराश् चितश् चिति यथास्थितम् । चमत्कुर्वन्ति किल ते एते केचिन् नभोऽभिधाः
केचिज् जीवाभिधानाश् च केचिच् चित्ताभिधानकाः । केचित् कालाभिधानाश् च केचिद् देशाभिधानकाः
केचित् क्रियाभिधानाश् च केचिद् द्रव्याभिधानकाः । केचिद् भावविकारादिजाड्यचित्त्वाभिधानकाः
प्राकाश्याद्यभिधाः केचित् केचिच् चैव तमोऽभिधाः । अर्केन्द्वाद्यभिधाः केचित् केचिद् यक्षाभिधानकाः
निरिच्छस्वस्वभावेन वसन्तेन यथाङ्कुरः । जन्यते तद्वद् एवेयं जगल्लक्ष्मीश् चिदात्मना
चिद् इमासु समग्रासु सर्वदैवैकिकैव हि । त्रैलोक्याम्बुधिसंस्थासु शरीरजलजालिका