अज्ञातशिवतत्त्वानाम् आकाराद्यर्चनं कृतम् । योजनाध्वन्य् अशक्तस्य क्रोशाध्वा परिकल्प्यते
इयत्तादिपरिच्छिन्नं रुद्रादेः प्राप्यते फलम् । अकृत्रिमम् अनाद्यन्तं फलम् आनन्द आत्मनः
अकृत्रिमफलं त्यक्त्वा यः कृत्रिमफलं व्रजेत् । स त्यक्तमन्दारवनः कारञ्जं याति काननम्
बोधस् साम्यं शम इति पुष्पाण्य् अग्र्याणि तत्र वै । शिवं चिन्मात्रम् अकलम् आत्मानम् अमलं विदुः
शमबोधादिभिः पुष्पैर् देव आत्मा यद् अर्च्यते । तत् तद्देवार्चनं विद्धि नाकारार्चनम् अर्चनम्
आत्मसंवित्तिरूपं तु त्यक्त्वा देवार्चनं जनाः । कृत्रिमार्चासु ये सक्ताश् चिरं क्लेशं भजन्ति ते
ज्ञातज्ञेया हि ये सन्तो बालक्रीडोपमं न ते । आत्मध्यानाद् ऋते ब्रह्मन् कुर्वते देवपूजनम्
आत्मैव देवो भगवाञ् शिवः परमकारणम् । ज्ञानार्चनेनाविरतं पूजनीयस् स सर्वदा
त्वम् एतच् चेतनाकाशम् आत्मानं जीवम् अव्ययम् । स्वभावं विद्धि न त्व् अन्यत् पूज्यपूजात्मपूजनम्
चेतनाकाशमात्रात्म यथा जगद् इदं प्रभो । यथा च चेतनस्यैव जीवादित्वं तद् उच्यताम्
चिद्व्योमैव किलास्तीह पारावारविवर्जितम् । सर्वत्रासम्भवच्चेत्यं यत् कल्पान्तेषु शिष्यते
तद् यत् स्वयं प्रकचति तस्य स्वकचनस्य तु । स्वयं संविदितं नाम तेनेदं जगद् इत्य् अलम्
इत्य् एवं स्वप्नपुरवज् जगद् भाति चिदात्मकम् । एवं चिद्व्योममात्रात्म जगद् अच्छं न भित्तिमत्
अत्यन्तासम्भवच्चेत्यदृष्टि चिद्व्योममात्रकम् । चित्त्वात् कचति सर्गादौ यत् तज् जगद् इति स्मृतम्
तस्मात् स्वप्नपुराकारं यद् इदं भासते जगत् । तत्र चिद्व्योममात्रात्मन्य् अन्यता नाम का कुतः
चिन्मात्रम् एव गिरयश् चिन्मात्रं जगदम्बरम् । चिन्मात्रम् आत्मा जीवश् च चिन्मात्रं भूतसन्ततिः
चिद्व्योममात्राद् इतरत् सर्गादौ सर्गवेदने । भिन्नं स्वप्नपुरे चाङ्ग किं सम्भवति कथ्यताम्
आकाशं परमाकाशं ब्रह्माकाशं जगच् चितिः । इति पर्यायनामानि तरुपादपवृक्षवत्
एतच् च स्वप्नसङ्कल्पमायादिष्व् अनुभूयते । तदा किल चिदाकाशम् एव भाति जगत्तया
यथैतत् संविदाकाशं स्वप्ने भाति जगद्वपुः । तथेदं जाग्रदाख्ये ऽपि स्वप्ने भाति तद् एव नः
यथा स्वप्नपुरे चित्खं वर्जयित्वेतरत् क्वचित् । न किञ्चित् सम्भवत्य् अङ्ग जगत्य् एवम् इहादितः
यतो न सम्भवत्य् अन्यच् चेदं किञ्चित् ततो ऽखिलम् । चित्त्वं सचेत्यम् अप्य् एतद् अचेत्यं सज् जगत् स्थितम्
यथा चिद्व्योममात्रात्म स्वप्ने घटपटादिकम् । सर्गादाव् एव सर्गो ऽयं तथा चिद्व्योममात्रकम्
शुद्धसंवित्तिमात्रत्वाद् ऋते ऽन्यत् स्वप्नपत्तने । यथा न विद्यते किञ्चित् तथास्मिन् भुवनत्रये
याः काश्चन दृशो ये ये भावाभावाः किलागमाः । सदेशकालचित्तास् तत् सर्वं चिद्व्योममात्रकम्
स एष देवः कथितो यः परः परमार्थतः । यस् त्वं यो ऽहम् अशेषं वा जगद् एव च यो ऽखिलम्
सर्वस्य भूतजातस्य जगतो ऽन्यस्य ते मम । देहो हि चेतनाकाशं परमात्मैव नेतरत्
सङ्कल्पने स्वप्नपुरे शरीरं चिद्व्योमतो ऽन्यन् न यथास्ति किञ्चित् । तथेह सर्गे प्रथमैकसर्गान् मुने प्रभृत्य् अस्ति न रूपम् अन्यत्
एवं सर्वम् इदं विश्वं परमात्मैव केवलम् । ब्रह्मैव परमाकाश एष देवः परस् स्मृतः
तद् एतत्पूजनं श्रेयस् तस्मात् सर्वम् अवाप्यते । स देवस् सर्वगस् सर्वस् सर्वं तस्मिन् प्रतिष्ठितम्