भगवन् भूतभव्येश सर्वकारणकारण । भवत्प्रसादेनेदं मे धार्ष्ट्यम् अभ्यागतं स्फुटम्
पृच्छामि त्वा महादेव यद् अहं तत् त्वम् आशु मे । ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगम् अनामय
सर्वपापक्षयकरं सर्वकल्याणवर्धनम् । देवार्चनविधानं मे सत्यं ब्रूहि महेश्वर
शृणु ब्रह्मन् वरम् इदं देवार्चनम् अनुत्तमम् । वदामि मुच्यसे येन कृतेन सकृद् एव हि
कच्चित् वेत्सि महादेवो देवः कस् स्याद् इति द्विज । न देवः पुण्डरीकाक्षो न च देवस् त्रिलोचनः
न देवः कमलोद्भूतो न देवस् त्रिदशेश्वरः । न देवः पवनो नार्को नानलो न निशाकरः
न ब्राह्मणो नावनिपो नाहं न त्वं द्विजोत्तम । न देवो देहरूपो ऽस्ति न देवश् चित्ररूपधृत्
न देवः कलनारूपी नापि देवो भवेन् मतिः । अकृत्रिमम् अनाद्यन्तं वेदनं देव उच्यते
आकारादिपरिच्छिन्नम् इति वस्तुनि तत् कुतः । अकृत्रिमम् अनाद्यन्तं वेदनं चिच्छिवं विदुः
तद् एव देवशब्देन कथ्यते तत् प्रपूजयेत् । तद् एवास्ति यतस् सर्वं सत्तासत्तात्मरूपधृत्
अज्ञातशिवतत्त्वानाम् आकाराद्यर्चनं कृतम् । योजनाध्वन्य् अशक्तस्य क्रोशाध्वा परिकल्प्यते
इयत्तादिपरिच्छिन्नं रुद्रादेः प्राप्यते फलम् । अकृत्रिमम् अनाद्यन्तं फलम् आनन्द आत्मनः
अकृत्रिमफलं त्यक्त्वा यः कृत्रिमफलं व्रजेत् । स त्यक्तमन्दारवनः कारञ्जं याति काननम्
बोधस् साम्यं शम इति पुष्पाण्य् अग्र्याणि तत्र वै । शिवं चिन्मात्रम् अकलम् आत्मानम् अमलं विदुः
शमबोधादिभिः पुष्पैर् देव आत्मा यद् अर्च्यते । तत् तद्देवार्चनं विद्धि नाकारार्चनम् अर्चनम्
आत्मसंवित्तिरूपं तु त्यक्त्वा देवार्चनं जनाः । कृत्रिमार्चासु ये सक्ताश् चिरं क्लेशं भजन्ति ते
ज्ञातज्ञेया हि ये सन्तो बालक्रीडोपमं न ते । आत्मध्यानाद् ऋते ब्रह्मन् कुर्वते देवपूजनम्
आत्मैव देवो भगवाञ् शिवः परमकारणम् । ज्ञानार्चनेनाविरतं पूजनीयस् स सर्वदा
त्वम् एतच् चेतनाकाशम् आत्मानं जीवम् अव्ययम् । स्वभावं विद्धि न त्व् अन्यत् पूज्यपूजात्मपूजनम्
चेतनाकाशमात्रात्म यथा जगद् इदं प्रभो । यथा च चेतनस्यैव जीवादित्वं तद् उच्यताम्
चिद्व्योमैव किलास्तीह पारावारविवर्जितम् । सर्वत्रासम्भवच्चेत्यं यत् कल्पान्तेषु शिष्यते
तद् यत् स्वयं प्रकचति तस्य स्वकचनस्य तु । स्वयं संविदितं नाम तेनेदं जगद् इत्य् अलम्
इत्य् एवं स्वप्नपुरवज् जगद् भाति चिदात्मकम् । एवं चिद्व्योममात्रात्म जगद् अच्छं न भित्तिमत्
अत्यन्तासम्भवच्चेत्यदृष्टि चिद्व्योममात्रकम् । चित्त्वात् कचति सर्गादौ यत् तज् जगद् इति स्मृतम्
तस्मात् स्वप्नपुराकारं यद् इदं भासते जगत् । तत्र चिद्व्योममात्रात्मन्य् अन्यता नाम का कुतः
चिन्मात्रम् एव गिरयश् चिन्मात्रं जगदम्बरम् । चिन्मात्रम् आत्मा जीवश् च चिन्मात्रं भूतसन्ततिः
चिद्व्योममात्राद् इतरत् सर्गादौ सर्गवेदने । भिन्नं स्वप्नपुरे चाङ्ग किं सम्भवति कथ्यताम्
आकाशं परमाकाशं ब्रह्माकाशं जगच् चितिः । इति पर्यायनामानि तरुपादपवृक्षवत्
एतच् च स्वप्नसङ्कल्पमायादिष्व् अनुभूयते । तदा किल चिदाकाशम् एव भाति जगत्तया
यथैतत् संविदाकाशं स्वप्ने भाति जगद्वपुः । तथेदं जाग्रदाख्ये ऽपि स्वप्ने भाति तद् एव नः