ते देशास् ते जनपदास् ता दिशस् ते च पर्वताः । त्वदनुस्मरणैकान्तधियो यत्र नरास् स्थिताः
फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम् । तरोर् इवैष्यतो बीजं त्वदनुस्मरणं प्रभो
भूतं भव्यं भविष्यच् च सफलं येन नाम तत् । कालत्रितयकल्याणं त्वदनुस्मरणं प्रभो
परमं मनसो मित्रं सर्वापत्प्रसरापहम् । सर्वसम्पल्लतासेकस् त्वदनुस्मरणं प्रभो
महामहिम्नां महतां महितानां च कर्मणाम् । कारणं कारणानां वै त्वदनुस्मरणं प्रभो
विवेकपयसाम् अब्धिः पुण्यरत्नाकरः परः । अज्ञानतिमिरार्कौघस् त्वदनुस्मरणं प्रभो
ज्ञानामृतौघकलशो धृतिज्योत्स्नानिशाकरः । अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो
तृष्णालतायाः परशुर् धैर्याम्भोधरपर्वतः । दैन्यदुर्वनदावाग्निस् त्वदनुस्मरणं प्रभो
जयत्य् आभासिताशेषचित्तसंसारमण्डपः । अपूर्वः परमो दीपस् त्वदनुस्मरणं प्रभो
त्वदनुस्मरणोदारचिन्तामणिमता मया । सर्वासाम् आपदां मूर्ध्नि दत्तं भूतपते पदम्
सकलदुःखभयापहर प्रभो क्षणम् अपीह मयासि न चेतसा । वरद वीर महेश्वर विस्मृतस् सुखम् अतो निवसामि भवान् इव
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
इत्य् उक्तवन्तम् अत्रासौ गौरी भगवती गिरम् । माम् उवाच जगन्माता मातेव तनयं प्रियम्
भगवन् भवता ब्रूहि भूरिसौभाग्यभागिनी । पतिव्रतानां प्रथमा क्व कृतारुन्धती प्रिया
उत्तिष्ठानय ताम् अस्माद् आश्रमान् मच्छ्रमापहात् । तया सह कथाश् चित्राः करोम्य् एकवयस्यया
इत्य् उक्ते तत्र पार्वत्या मया सा गृहिणी स्वयम् । गत्वोद्देशं तम् एवाशु समानीता समाशया
अरुन्धत्या समं कृत्वा ललनाचारम् अक्षतम् । स्वकार्यैकपरा गौरी बभूव परिनिर्वृता
अहम् अस्मिन् क्षणे बुद्ध्या राम चिन्तितवान् इदम् । अव्यग्रो मत्प्रसन्नश् च लब्धो ऽयं भगवान् मया
कम् एनं परमेशानं सर्वज्ञानमहार्णवम् । परिपृच्छामि सन्देहम् इन्दुभूषितशेखरम्
इति सञ्चिन्त्य स गुरुर् इदं पृष्टो मयानघ । शृणु वक्ष्यामि ते सर्वं यद् उक्तं चन्द्रमौलिना
भगवन् भूतभव्येश सर्वकारणकारण । भवत्प्रसादेनेदं मे धार्ष्ट्यम् अभ्यागतं स्फुटम्
पृच्छामि त्वा महादेव यद् अहं तत् त्वम् आशु मे । ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगम् अनामय
सर्वपापक्षयकरं सर्वकल्याणवर्धनम् । देवार्चनविधानं मे सत्यं ब्रूहि महेश्वर
शृणु ब्रह्मन् वरम् इदं देवार्चनम् अनुत्तमम् । वदामि मुच्यसे येन कृतेन सकृद् एव हि
कच्चित् वेत्सि महादेवो देवः कस् स्याद् इति द्विज । न देवः पुण्डरीकाक्षो न च देवस् त्रिलोचनः
न देवः कमलोद्भूतो न देवस् त्रिदशेश्वरः । न देवः पवनो नार्को नानलो न निशाकरः
न ब्राह्मणो नावनिपो नाहं न त्वं द्विजोत्तम । न देवो देहरूपो ऽस्ति न देवश् चित्ररूपधृत्
न देवः कलनारूपी नापि देवो भवेन् मतिः । अकृत्रिमम् अनाद्यन्तं वेदनं देव उच्यते
आकारादिपरिच्छिन्नम् इति वस्तुनि तत् कुतः । अकृत्रिमम् अनाद्यन्तं वेदनं चिच्छिवं विदुः
तद् एव देवशब्देन कथ्यते तत् प्रपूजयेत् । तद् एवास्ति यतस् सर्वं सत्तासत्तात्मरूपधृत्