अहम् आलोक्य देवेन चन्द्रार्धकृतमौलिना । पुष्पसानूपविष्टेन प्रोक्तस् स्मितसिताक्षरम्
आनयार्घ्यं तथा पाद्यं ब्रह्मन् स्वागतम् अस्तु ते । आश्रमातिथयः प्राप्ता वयम् अद्य तवानघ
घनाभिरामशालिन्या सततं शमशान्तया । मुदितोदारया ब्रह्मंस् तपोलक्ष्म्या विराजसे
आगच्छोपविशास्मिंस् त्वम् अकृत्रिमदलासने । मृदौ सानुसमुद्भूते पुण्यसञ्चयपावने
इति प्रोक्तवते तस्मै निशेशार्धार्धधारिणे । अर्घं पुष्पं तथा पाद्यं समुपेत्यार्पितं मया
पादयोर् हस्तयोश् चैव तन्वां चास्य स्वयम्भुवः । मन्दारपुष्पावलयो विकीर्णा बहवः पुरः
ततो भगवती गौरी तादृश्यैव सपर्यया । सम्पूजिता सखीयुक्ता गणमण्डलिका तथा
गृहीतवन्तौ तौ तां मे सपर्याम् आदरात् प्रभू । भक्तिप्रणयिनो राम पार्वतीपरमेश्वरौ
पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा । तत्रोपविष्टं प्रोवाच माम् अथेन्दुकलाधरः
ब्रह्मन् प्रशमशालिन्यः प्राप्तविश्रान्तयः परे । कच्चित् कल्याणकारिण्यस् संविदस् ते स्थिताः पदे
कच्चित् कमलकल्हारकुमुदानयनक्षमाः । तवान्तेवासिनो ब्रह्मन् नीरुजस् त्वदनुव्रताः
बलिभागभुजां कच्चिद् भगवन् भवदाश्रमे । कुशलं मुग्धमुग्धानां मृगाणां मत्प्रियादृशाम्
कच्चिन् मन्दारकुसुमान्य् एते मन्दारपादपाः । तवास्मदादिपूजार्थं सम्प्रयच्छन्ति सून्नताः
कच्चिन् मन्दाकिनी पुण्यं तव स्नानोपयोगिकम् । एकया वाहलतया ददात्य् उत्पलपङ्कजम्
असमञ्जसचेष्टासु नित्यं चेष्टासु मे ऽनघ । अपि मद्गणलीलासु मुनिनाथ न खिद्यसे
तिष्ठन्तम् इह शैलेन्द्रे विपिनारण्यवासिनः । अपि नोद्वेजयन्ति त्वां धनेशानुचरा मुने
दुर्वृत्तघनयक्षौघे विप्र लोलनिशाचरे । वसतो ऽस्मिन् गिरेः कुक्षाव् अप्य् अनुद्वेगितास्ति ते
एवंवादिनि देवेशे सर्वलोकैककारणे । गिरानुनयशालिन्या मयोक्तं रघुनन्दन
त्र्यक्षानुस्मृतिकल्याणवताम् इह महेश्वर । न किञ्चिद् अपि दुष्प्रापं न च काश्चन भीतयः
त्वदनुस्मरणानन्दपरिपूर्णितचेतसः । न ते सन्ति जगत्कोशे प्रणतिं ये न बिभ्रति
ते देशास् ते जनपदास् ता दिशस् ते च पर्वताः । त्वदनुस्मरणैकान्तधियो यत्र नरास् स्थिताः
फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम् । तरोर् इवैष्यतो बीजं त्वदनुस्मरणं प्रभो
भूतं भव्यं भविष्यच् च सफलं येन नाम तत् । कालत्रितयकल्याणं त्वदनुस्मरणं प्रभो
परमं मनसो मित्रं सर्वापत्प्रसरापहम् । सर्वसम्पल्लतासेकस् त्वदनुस्मरणं प्रभो
महामहिम्नां महतां महितानां च कर्मणाम् । कारणं कारणानां वै त्वदनुस्मरणं प्रभो
विवेकपयसाम् अब्धिः पुण्यरत्नाकरः परः । अज्ञानतिमिरार्कौघस् त्वदनुस्मरणं प्रभो
ज्ञानामृतौघकलशो धृतिज्योत्स्नानिशाकरः । अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो
तृष्णालतायाः परशुर् धैर्याम्भोधरपर्वतः । दैन्यदुर्वनदावाग्निस् त्वदनुस्मरणं प्रभो
जयत्य् आभासिताशेषचित्तसंसारमण्डपः । अपूर्वः परमो दीपस् त्वदनुस्मरणं प्रभो
त्वदनुस्मरणोदारचिन्तामणिमता मया । सर्वासाम् आपदां मूर्ध्नि दत्तं भूतपते पदम्