तारकात्रितये व्योम्नो गृहमूर्धनि मध्यगे । मृगत्रये किरातात्ते सदा भ्रमम् इवागते
उत्फुल्लकुमुदामोदद्विगुणोद्दाममन्मथे । चक्रवाकगणे शैलसरसीष्व् अन्यतां गते
शिलाशिखोपविष्टासु शैलोत्कीर्णास्व् इवाभितः । पिबन्तीषु चकोरीषु शीतं शशिकरामृतम्
वहति मधुरमारुते वने ऽन्तश् शशिकरशीकरवर्षणैकशीते । दलचयचलनोत्थशब्दगीते कुमुदवधूप्रथमाभिसारिणीव
एतस्मिन् समये तत्र यामार्धे प्रथमे गते । समाधिं तनुतां नीत्वा स्थितो ऽहं बाह्यलग्नदृक्
अपश्यं कानने तेजो झगित्य् एव समुत्थितम् । मन्दराहननोद्धूतक्षुब्धक्षीरोदभासुरम्
शुभ्राभ्रशतसङ्काशं नृत्यदिन्दुगणोपमम् । चण्डानिलबलोद्धूतं हिमराशिम् इवाचलम्
युगान्ततापगलितं सुस्फाटिकम् इवाचलम् । नावनीतम् इवाम्भोदं केतकौघम् इवोत्थितम्
शङ्खशौक्ल्यम् इवोड्डीनं शुभ्राभ्रम् इव सम्भृतम् । क्षीरफेनम् इवोत्फालं मुक्तासारम् इवोद्धतम्
गङ्गातरङ्गभरवत् प्रविष्टं कन्दरान्तरम् । पिण्डहार्यं सुदधिवच् छार्वं हासम् इवाततम्
प्रकटीकृतदिक् तेजस् तद् आलोक्य मया स्मयात् । अन्तःप्रकाशशालिन्या बुद्धिदृष्ट्यावलोकितम्
यावत् पश्यामि तं सानुं लीलयैव यदृच्छया । विहरन् स्वगिरौ हृद्ये तावच् चन्द्रकलाधरः
पाश्चात्यगुल्मान्तरितगणजालोपमालितः । गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः
पश्चात्परिक्रान्तवृषस् सर्वरात्रिचरावृतः । कल्हारदामवलितो मन्दारकृतशेखरः
जटामौलीन्दुकलिको भोगीन्द्रकृतकुण्डलः । चलत्तुषारशैलाभस् सर्वसङ्कल्पितार्थदः
मनोदृष्टस् स भगवान् मनसैव ततो मया । दत्तमन्दारपुष्पेण प्रणतेनाभिवन्दितः
इति कृत्वा मया देहः पर्यङ्कशयनाद् अयम् । क्षणाद् उत्थापितस् तस्माद् भूतेनेव महाशवः
शिष्यान् उद्बोध्य तत्रस्थान् गृहीत्वार्घं सुसंयतः । अगमं लोकनाथस्य दृष्टिपूतम् अहं पुरः
तत्र पुष्पाञ्जलिं दत्त्वा दूराद् एव त्रिलोचनः । दत्तार्घेण मया देवस् स प्रणम्याभिवन्दितः
ततश् चन्द्रप्रभामृद्व्या ऋज्व्या शीतलया तया । दृशा सर्वार्तिहारिण्या सरण्या शाश्वते पदे
अहम् आलोक्य देवेन चन्द्रार्धकृतमौलिना । पुष्पसानूपविष्टेन प्रोक्तस् स्मितसिताक्षरम्
आनयार्घ्यं तथा पाद्यं ब्रह्मन् स्वागतम् अस्तु ते । आश्रमातिथयः प्राप्ता वयम् अद्य तवानघ
घनाभिरामशालिन्या सततं शमशान्तया । मुदितोदारया ब्रह्मंस् तपोलक्ष्म्या विराजसे
आगच्छोपविशास्मिंस् त्वम् अकृत्रिमदलासने । मृदौ सानुसमुद्भूते पुण्यसञ्चयपावने
इति प्रोक्तवते तस्मै निशेशार्धार्धधारिणे । अर्घं पुष्पं तथा पाद्यं समुपेत्यार्पितं मया
पादयोर् हस्तयोश् चैव तन्वां चास्य स्वयम्भुवः । मन्दारपुष्पावलयो विकीर्णा बहवः पुरः
ततो भगवती गौरी तादृश्यैव सपर्यया । सम्पूजिता सखीयुक्ता गणमण्डलिका तथा
गृहीतवन्तौ तौ तां मे सपर्याम् आदरात् प्रभू । भक्तिप्रणयिनो राम पार्वतीपरमेश्वरौ
पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा । तत्रोपविष्टं प्रोवाच माम् अथेन्दुकलाधरः
ब्रह्मन् प्रशमशालिन्यः प्राप्तविश्रान्तयः परे । कच्चित् कल्याणकारिण्यस् संविदस् ते स्थिताः पदे