सत्कल्पपादपभुजस् सुशिखाशृङ्गकन्धरः । रत्नविद्योतनयनो वनावलितनूरुहः
काचकन्दरकेशश्रीस् स्ववनावलनांशुकः । पवनोद्धूतकिञ्जल्कजालारुणतलाम्बरः
तत्रास्ते भगवान् देवो हरश् चन्द्रकलाधरः । शूलपाणिस् त्रिनयनो गणौघपरिवारितः
भवानीहृतदेहार्धस् सर्वलोकैककारणम् । कन्दर्पदर्पदलनः कलाकरकलाधरः
षण्मुखानुगतच्छायः प्रमत्तवृषवाहनः । मत्तेभकृत्तिवसनश् श्मशानरमणालयः
तं पूजयन् महादेवं तस्मिन्न् एव गिरौ पुरा । कदाचिद् अवसं गङ्गातटे ऽहं रचिताश्रमः
तपोऽर्थं तापसाचारे चिराय रचितस्थितिः । यथाक्रमसदाचारः पुण्यसानुसमाश्रयः
निवासार्थं कृतस्नानः कृतनीलदलोटजः । बालवृक्षकबद्धास्थस् संरोपितलतावृतिः
सञ्चिताग्र्यवनप्राणिर् उपार्जितकमण्डलुः । पुष्पार्थं स्यूतपुटकस् सूम्भितस्वाक्षमालिकः
शिष्यसङ्घातवलितः कृतशास्त्रार्थसङ्ग्रहः । आनीतपुस्तकव्यूहः परिपालितसन्मृगः
एवंगुणविशिष्टस्य कैलासवनकुञ्जके । तपः प्रचरतो राम मम कालो ऽत्यवर्तत
अथैकदा कदाचित् तु बहुलस्याष्टमे दिने । गते श्रावणपक्षस्य रात्र्यर्धे क्षयम् आगते
दिक्षु संशान्तरूपासु काष्ठमौनस्थितास्व् इव । खड्गच्छेद्यान्धकारेषु कुञ्जेषु गहनेषु च
अवश्यायलसन्मुक्ताहासे सरति मारुते । आलवालोपधानेषु मृगेष्व् आश्रमशायिषु
अमृतांशुकरस्यन्दम् आत्मनः परिवृद्धये । लिहत्सु शशिरश्मिभ्यः पल्लवेष्व् अमृतद्रवम्
कुमुद्वतीष्व् ओषधीषु चकोरीषु लतासु च । पिबन्तीष्व् अमृतस्यन्दं करैर् आकीर्णम् ऐन्दवम्
शैलविश्रान्तनीलाभ्रपल्लवस्य विसारिणः । कृत्तिकागुच्छके व्योमतापिञ्छस्य त्रिभागगे
तारौघप्रतिबिम्बेन गिरौ स्फटिकभूमिषु । विकासिपुष्पप्रकरे द्विगुणत्वम् उपागते
मयि पल्लवपल्यङ्कगते मुक्तेहया धिया । चिन्तयत्य् अमलाभासम् आत्मतत्त्वम् अविप्लुतम्
द्वितीयमद्देहवति व्योम्नि सप्तर्षिमण्डले । मदर्थम् इव ताम् एव दिशम् आपततीव च
तारकात्रितये व्योम्नो गृहमूर्धनि मध्यगे । मृगत्रये किरातात्ते सदा भ्रमम् इवागते
उत्फुल्लकुमुदामोदद्विगुणोद्दाममन्मथे । चक्रवाकगणे शैलसरसीष्व् अन्यतां गते
शिलाशिखोपविष्टासु शैलोत्कीर्णास्व् इवाभितः । पिबन्तीषु चकोरीषु शीतं शशिकरामृतम्
वहति मधुरमारुते वने ऽन्तश् शशिकरशीकरवर्षणैकशीते । दलचयचलनोत्थशब्दगीते कुमुदवधूप्रथमाभिसारिणीव
एतस्मिन् समये तत्र यामार्धे प्रथमे गते । समाधिं तनुतां नीत्वा स्थितो ऽहं बाह्यलग्नदृक्
अपश्यं कानने तेजो झगित्य् एव समुत्थितम् । मन्दराहननोद्धूतक्षुब्धक्षीरोदभासुरम्
शुभ्राभ्रशतसङ्काशं नृत्यदिन्दुगणोपमम् । चण्डानिलबलोद्धूतं हिमराशिम् इवाचलम्
युगान्ततापगलितं सुस्फाटिकम् इवाचलम् । नावनीतम् इवाम्भोदं केतकौघम् इवोत्थितम्
शङ्खशौक्ल्यम् इवोड्डीनं शुभ्राभ्रम् इव सम्भृतम् । क्षीरफेनम् इवोत्फालं मुक्तासारम् इवोद्धतम्
गङ्गातरङ्गभरवत् प्रविष्टं कन्दरान्तरम् । पिण्डहार्यं सुदधिवच् छार्वं हासम् इवाततम्