नासतो विद्यते भावो यो नास्त्य् एवेह सन् न सः
स्वरूपमात्रनिष्ठत्वाद् द्वैतैक्याभावयोगतः । अभावाद् अन्यसंवित्तेस् समत्वम् उपलात्मनोः
अनन्यो ऽनन्त एकात्मा स्वसत्तानुभवी यथा । तथोपलस् स्वतानिष्ठो न जडो न च चेतनः
अन्यासम्भवतो नित्यद्वैतैक्याभावयोगतः । चेत्यस्यासम्भवाद् आत्मा न जडो न च चेतनः
जडाजडदृशौ वन्ध्यापुत्रवद् व्योमवृक्षवत् । समायाते न चायाते प्रेक्षिते न च वीक्षिते
जडचेतनशब्दार्थाव् असन्तौ रज्जुसर्पवत् । भवतस् तौ कथं सत्यम् अप्रेक्षामात्रकाद् ऋते
यच् च चेतनम् आत्मेति जडश् चोपल इत्य् अपि । उक्तं तद् ईदृग्वाग्योग्यबोध्यबोधनहेतुकम्
बोध्यः परतरे बोधे यया युक्त्या प्रबोध्यते । सोपदेश्या न गृह्णाति मूढस् तत् सहसा पदम्
चित्तं पृथक् पृथग् इमानि हतेन्द्रियाणि कर्ता न दृश्यत इदं च गृहं मुधैव । को ऽप्य् अन्य एव परिवल्गति निस्स्वभाव एषो ऽहम् इत्य् अलम् अहो महद् इन्द्रजालम्
लोलासु संसृतिषु भूतपरम्पराणां क्रीडासु चान्यपुरुषस्य चिदेकवृत्तेः । तत्त्वं विचार्य रमते हि महानुभावो मन्त्री यथोल्बणविषासु भुजङ्गमीषु
न त्वं शिरो न नयने न च रक्तमांसे नास्थीनि नैव च मनो न च भूतजालम् । मा मोहम् एहि न शरीरम् असि प्रसन्ना चित् त्वं प्रपन्नसकलामलसर्वगेति
एतां दृष्टिम् अवष्टभ्य नष्टकष्टेष्टचेष्टितः । तिष्ठाष्टगुणम् ऐश्वर्यम् अप्य् अरिष्टम् इवोत्सृजन्
अथेमाम् अपरां दृष्टिं महामोहविनाशिनीम् । दुष्प्रापाम् अपि सुप्रापाम् अनपायाम् अनामयाम्
शृणु या कथिता पूर्वं मम कैलासकन्दरे । संसारदुःखशान्त्यर्थं देवेनार्धेन्दुमौलिना
अस्तीन्दुकरसम्भारभासुरः पारगो दिवः । कैलासो नाम शैलेन्द्रो गौरीरमणमन्दिरम्
गङ्गानिर्झरनिर्धौतो गणोद्गीर्णगुहागृहः । मन्दानिलवलच्चूतकदम्बवनबन्धुरः
लीलालोलामरगणः कृतकोककलारवः । कौमारबर्हिवलितखर्जूरवनपिञ्जरः
तमालान्तर्हिताम्भोदः कदलीतुलिताम्बुदः । चञ्चरीजालजटिलः कूजत्कलकपिञ्जलः
विद्याधरोद्गीतगुहः कचत्कनककन्दरः । कारण्डवोड्डामरवाग् असङ्ख्यकुसुमाम्बुदः
विमुक्तजलदोद्गारस् सिद्धचारणसेवितः । चन्द्रावचूलदयितस् त्रिलोकीलोकवन्दितः
सत्कल्पपादपभुजस् सुशिखाशृङ्गकन्धरः । रत्नविद्योतनयनो वनावलितनूरुहः
काचकन्दरकेशश्रीस् स्ववनावलनांशुकः । पवनोद्धूतकिञ्जल्कजालारुणतलाम्बरः
तत्रास्ते भगवान् देवो हरश् चन्द्रकलाधरः । शूलपाणिस् त्रिनयनो गणौघपरिवारितः
भवानीहृतदेहार्धस् सर्वलोकैककारणम् । कन्दर्पदर्पदलनः कलाकरकलाधरः
षण्मुखानुगतच्छायः प्रमत्तवृषवाहनः । मत्तेभकृत्तिवसनश् श्मशानरमणालयः
तं पूजयन् महादेवं तस्मिन्न् एव गिरौ पुरा । कदाचिद् अवसं गङ्गातटे ऽहं रचिताश्रमः
तपोऽर्थं तापसाचारे चिराय रचितस्थितिः । यथाक्रमसदाचारः पुण्यसानुसमाश्रयः
निवासार्थं कृतस्नानः कृतनीलदलोटजः । बालवृक्षकबद्धास्थस् संरोपितलतावृतिः
सञ्चिताग्र्यवनप्राणिर् उपार्जितकमण्डलुः । पुष्पार्थं स्यूतपुटकस् सूम्भितस्वाक्षमालिकः
शिष्यसङ्घातवलितः कृतशास्त्रार्थसङ्ग्रहः । आनीतपुस्तकव्यूहः परिपालितसन्मृगः