संशान्तचित्तवेतालं गुरुशास्त्रार्थबन्धवः । शक्नुवन्ति समुद्धर्तुं स्वल्पपङ्कान् मृगं यथा
अस्मिञ् जगच्छून्यपुरे सर्वम् एव प्रदूषितम् । देहगेहं प्रमत्तेन चित्तयक्षेण वल्गता
चित्तवेतालवलितसमस्तगृहषण्डका । इयं जगदरण्यानी शून्या कस्य न भीतये
जगन्नगर्याम् अस्यां तु शान्तचित्तपिशाचकम् । देहगेहं कतिपयैस् सेव्यते सद्भिर् एव च
इह संश्रीयते या या दिक् सैव रघुनन्दन । प्रमत्तमोहवेतालैः पूर्णा देहश्मशानकैः
अस्यां जगदरण्यान्यां मुहूर्तं मुग्धबालवत् । स्वयम् आलम्ब्य धैर्यांशम् आत्मनात्मानम् उद्धर
जगज्जरदरण्ये ऽस्मिंश् चरद्भूतमृगव्रजे । धृतिं तृणरसै राम मा गच्छ मृगपोतवत्
अस्मिन् महीतलारण्ये चरन्नृमृगपोतके । त्वम् अज्ञानगजं भङ्क्त्वा सैंहीं वृत्तिम् उपाश्रय
अन्ये नरमृगा मुग्धा जम्बुद्वीपे स्वजङ्गले । विहरन्ति यथा राम तथा मा विहरानघ
अत्यल्पकालं शिशिरे कर्दमालेपदायिनि । न मङ्क्तव्यं वधूरूपे महिषेणेव पल्वले
भोगाभोगा बहिष्कार्या आर्यस्यानुसरेत् पदम् । प्रविचार्य महार्यैस् स्वम् एकम् आत्मानम् आश्रयेत्
अपवित्रस्य तुच्छस्य दुर्भगस्य दुराकृतेः । देहस्यार्थे न मङ्क्तव्यं चिन्ताचुण्टीषु चारुणा
अन्येन रचितो देहो यक्षेणान्येन संश्रितः । दुःखम् अन्यस्य भोक्तान्यश् चित्रेयं मौर्ख्यचक्रिका
यथैकरूपा घनता दृषदो ऽप्य् आत्मनस् तथा । सत्तामात्रैकसामान्याद् इतरस्यात्यसम्भवात्
यथोपलस्य घनता मनस्ता हि तथात्मनः । सत्तामात्राद् अभिन्ना स्वाद् अभावाद् अन्यसंविदः
यथोपलस्य घनता तथास्य परमात्मनः । रूपैकरूपा संवित्तिस् सत्तासामान्यरूपतः
पृथक् सम्भवतीहाङ्ग न जाड्यं न च चेतनम् । मिथ्यासङ्कल्परचिते एते हि शिशुयक्षवत्
यथेक्षुरसमात्रस्य त्व् एकस्यैव पृथङ्मयी । अयं गुड इदं खण्डम् इति माया मुधोदिता
परमात्मन एकस्य सत्तासामान्यरूपतः । मुधैवाभ्युदितैवेयं जाड्याजाड्यमतिस् तथा
क्षीयते प्रेक्षितैवैषा प्रेक्षामात्रैकनाशिनी । शुक्तिरुप्यमतिप्रख्या न सती नासती ततः
नासतो विद्यते भावो यो नास्त्य् एवेह सन् न सः
स्वरूपमात्रनिष्ठत्वाद् द्वैतैक्याभावयोगतः । अभावाद् अन्यसंवित्तेस् समत्वम् उपलात्मनोः
अनन्यो ऽनन्त एकात्मा स्वसत्तानुभवी यथा । तथोपलस् स्वतानिष्ठो न जडो न च चेतनः
अन्यासम्भवतो नित्यद्वैतैक्याभावयोगतः । चेत्यस्यासम्भवाद् आत्मा न जडो न च चेतनः
जडाजडदृशौ वन्ध्यापुत्रवद् व्योमवृक्षवत् । समायाते न चायाते प्रेक्षिते न च वीक्षिते
जडचेतनशब्दार्थाव् असन्तौ रज्जुसर्पवत् । भवतस् तौ कथं सत्यम् अप्रेक्षामात्रकाद् ऋते
यच् च चेतनम् आत्मेति जडश् चोपल इत्य् अपि । उक्तं तद् ईदृग्वाग्योग्यबोध्यबोधनहेतुकम्
बोध्यः परतरे बोधे यया युक्त्या प्रबोध्यते । सोपदेश्या न गृह्णाति मूढस् तत् सहसा पदम्
चित्तं पृथक् पृथग् इमानि हतेन्द्रियाणि कर्ता न दृश्यत इदं च गृहं मुधैव । को ऽप्य् अन्य एव परिवल्गति निस्स्वभाव एषो ऽहम् इत्य् अलम् अहो महद् इन्द्रजालम्
लोलासु संसृतिषु भूतपरम्पराणां क्रीडासु चान्यपुरुषस्य चिदेकवृत्तेः । तत्त्वं विचार्य रमते हि महानुभावो मन्त्री यथोल्बणविषासु भुजङ्गमीषु