कुतो ऽप्य् आगत्य निस्सारस् सर्वसज्जनवर्जितः । अहङ्कारकुवेतालः प्रविष्टश् चित्तनामभृत्
भृत्यतां मास्य गच्छ त्वम् अहङ्कारस्य दुर्मतेः । अस्य भृत्यतया राम निरयः प्राप्यते फलम्
स्वसङ्कल्पविलासेन देहगेहे निराकृतिः । उन्मत्तचित्तवेतालः परिवल्गति लीलया
शून्यदेहगृहं प्राप्य चित्तयक्षेण तत् कृतम् । भीता येन महान्तो ऽपि समाधिनिरतास् स्थिताः
चित्तवेतालम् उद्वास्य स्वशरीरैकमन्दिरात् । संसारशून्यनगरे न बिभेषि कदाचन
चित्तभूताभिभूते ऽस्मिन् ये शरीरगृहे रताः । चित्रम् अद्यापि ते कस्माद् घट्टिता नाश्मवत् स्थिताः
ग्रस्ते चित्तपिशाचेन देहवेश्मनि या धृतिः । पिशाचस्यैव सा बुद्धिर् नापिशाचस्य राघव
अहङ्कारबृहद्यक्षे गृहे दग्धशरीरके । विहरानास्थया साधो न तवैतत् किल स्थिरम्
अहङ्कारानुचरतां त्यक्त्वा विततया धिया । अहङ्कारमृतिं प्राप्य स्वात्मैवाश्व् अवलम्ब्यताम्
अहङ्कारपिशाचेन ग्रस्ता ये निरयैषिणः । तेषां मोहामयान्धानां न मित्राणि न बन्धवः
अहङ्कारोपहतया बुद्ध्या या क्रियते क्रिया । विषवल्ल्या इव फलं तस्यास् स्यान् मरणात्मकम्
विवेकधैर्यहीनेन स्वाहङ्कारमहाशवम् । मूर्खेणालम्बितं येन नष्टम् एवाशु विद्धि तम्
अहङ्कारपिशाचेन वराका ये वशीकृताः । त एते नरकाग्नीनां राघवेन्धनतां गताः
अहङ्कारोरगो यस्य परिस्फुरति कोटरे । स देहपादपो धीरैर् अचिरेण निपात्यते
अहङ्कारपिशाचो ऽस्मिन् देहे तिष्ठतु यातु वा । त्वम् एनम् आलोकय मा मनसा महतां वर
अवधूतो ह्य् अवज्ञातश् चेतसैव तिरस्कृतः । अहङ्कारपिशाचस् ते नेह किञ्चित् करिष्यति
देहालये स्फुरत्य् अस्मिन् राम चित्तपिशाचके । अस्यानन्तविलासस्य किम् इवागतम् आत्मनः
चित्तयक्षाभिभूतानां याः पुंसां विततापदः । शक्यन्ते परिसङ्ख्यातुं न ता वर्षशतैर् अपि
हतो मृतो ऽस्मि दग्धो ऽस्मीत्य् एता दुर्भगवृत्तयः । अहङ्कारपिशाचस्य शक्तयो ऽन्यस्य नानघ
सर्वगो ऽपि यथाकाशस् सम्बद्धो नेह केनचित् । सर्वगो ऽपि तथैवात्मा नाहङ्कारेण सङ्गतः
यत् करोति यद् आदत्ते देहयन्त्रम् इदं चलम् । वातरज्जुयुतं राम तद् अहङ्कारचेष्टितम्
वृक्षोन्नतौ यथा हेतुर् अकर्त्र् अपि किलाम्बरम् । आत्मसंस्थस् तथेहात्मा चित्तचेष्टासु कारणम्
आत्मसन्निधिमात्रेण कुड्यरूपम् इवामलम् । दीपसन्निधिमात्रेण स्फुरत्य् आत्तवपुर् मनः
अतिविश्लिष्टयो राम नित्यम् एवात्मचित्तयोः । द्यावापृथिव्योर् इव कस् सम्बन्धः प्रकटान्धयोः
चलनस्पन्दनेहाभिर् आत्मशक्तिभिर् आवृतम् । चित्तम् आत्मेति मौर्ख्येण दृश्यते रघुनन्दन
आत्मा प्रकाशरूपो हि नित्यस् सर्वगतो विभुः । चित्तं शठम् अहङ्कारं विद्धि हार्दं बृहत्तमः
आत्मासि रघुसर्वस्व जडा नासि मनोदृषत् । दूरीकुरु मनोमोहं किम् एतेनासि सङ्गतः
पिशाचो हि मनोनामा शून्ये देहगृहे स्थितः । भाययत्य् एष दुष्टात्मा मैनम् उत्तम संस्पृश
भयप्रदम् अकल्याणं धैर्यसर्वस्वहारिणम् । मनःपिशाचम् उत्सार्य यो ऽसि स त्वं स्थिरो भव
चित्तयक्षदृढाक्रान्तं न शास्त्राणि न बन्धवः । शक्नुवन्ति परित्रातुं गुरवो न च मानवम्