दीर्घसङ्कल्पदेहो ऽयम् अस्मिन् क्वास्था महामते । स्वल्पसङ्कल्पजाद् देहाद् अपि तुच्छतरो ह्य् अयम्
स्वल्पसङ्कल्पजो दीर्घैस् सुखदुःखैर् न गृह्यते । दीर्घसङ्कल्पजश् चायं दीर्घदुःखेन दुःखितः
देहो हि सङ्कल्पमयो नायम् अस्ति न नास्ति च । किं व्यर्थम् एतदर्थं हि मूढो ऽयं क्लेशभाग् जनः
यथा चित्रमये पुंसि क्षते क्षीणे न वः क्षतिः । यथा सङ्कल्पपुरुषे क्षते क्षीणे न वः क्षतिः
यथा मनोराज्यमये क्षते क्षीणे न वः क्षतिः । यथा द्वितीये शशिनि क्षते क्षीणे न वः क्षतिः
यथा स्वप्नसमारम्भे क्षते क्षीणे न वः क्षतिः । यथा घनातपजले क्षते क्षीणे न वः क्षतिः
सङ्कल्पमात्रकलिते प्रकृत्यैव विनाशिनि । तथा शरीरयन्त्रे ऽस्मिन् क्षते क्षीणे न वः क्षतिः
दीर्घस्वप्नमये ह्य् अस्मिंश् चिरसङ्कल्पकल्पिते । भूषिते दूषिते देहे न हि किञ्चिच् चितः क्षतम्
न चिद् अस्तम् उपायाति नात्मा चलति राघव । न ब्रह्म विकृतिं याति किं वो देहक्षये क्षतम्
भ्रमच्चक्रोपरिस्थो हि त्यक्तचक्रो ऽपि चक्रवत् । यथा पश्यति दिक्चक्रं भ्रमद् अत्यन्तमोहितः
अकस्माद् एव रूढेन मिथ्याज्ञानेन वल्गता । अभ्यस्तेन तथैवेदं दृश्यते देहचक्रकम्
भ्रमितं च भ्रमद्रूपं पतद्रूपं च पातितम् । हतं च हन्यमानं च वपुर् दुर्वासनावशात्
अज्ञानजं भ्रमं त्यक्त्वा सत्यां दृष्टिम् अवेक्ष्य च । धीरताम् अलम् आलम्ब्य घनं भ्रमम् इदं त्यजेत्
सङ्कल्पेन कृतो देहो मिथ्याज्ञानेन सन् न सन् । असत्येन कृतं यत् स्यान् न तत् सत्यं कदाचन
असदभ्युत्थितो देहो रज्ज्वाम् इव भुजङ्गमः । असत्याम् एव चेमां च करोति च जगत्क्रियाम्
जडेन राम क्रियते यत् तन् न कृतम् उच्यते । कुर्वन्न् अपि ततो देहो न कर्ता क्वचिद् एव हि
निरीहो हि जडो देहो नात्मनो ऽस्त्य् अभिवाञ्छितम् । कर्ता न कश्चिद् एवातो द्रष्टा केवलम् अस्य् अजः
यथा दीपो निवातस्थस् स्वात्मन्य् एव हि तिष्ठति । साक्षिवत् सर्वभावेषु तथा तिष्ठ जगत्स्थितौ
यथा दिवसकार्याणि भास्करस् स्वस्थ एव सन् । करोत्य् एवम् इमां राम कुरु पार्थिवसंस्थितिम्
अस्मिन् ह्य् असन्मये देहगेहे शून्ये समुत्थिते । सत्ताम् उपगते मिथ्या बालकल्पितयक्षवत्
कुतो ऽप्य् आगत्य निस्सारस् सर्वसज्जनवर्जितः । अहङ्कारकुवेतालः प्रविष्टश् चित्तनामभृत्
भृत्यतां मास्य गच्छ त्वम् अहङ्कारस्य दुर्मतेः । अस्य भृत्यतया राम निरयः प्राप्यते फलम्
स्वसङ्कल्पविलासेन देहगेहे निराकृतिः । उन्मत्तचित्तवेतालः परिवल्गति लीलया
शून्यदेहगृहं प्राप्य चित्तयक्षेण तत् कृतम् । भीता येन महान्तो ऽपि समाधिनिरतास् स्थिताः
चित्तवेतालम् उद्वास्य स्वशरीरैकमन्दिरात् । संसारशून्यनगरे न बिभेषि कदाचन
चित्तभूताभिभूते ऽस्मिन् ये शरीरगृहे रताः । चित्रम् अद्यापि ते कस्माद् घट्टिता नाश्मवत् स्थिताः
ग्रस्ते चित्तपिशाचेन देहवेश्मनि या धृतिः । पिशाचस्यैव सा बुद्धिर् नापिशाचस्य राघव
अहङ्कारबृहद्यक्षे गृहे दग्धशरीरके । विहरानास्थया साधो न तवैतत् किल स्थिरम्
अहङ्कारानुचरतां त्यक्त्वा विततया धिया । अहङ्कारमृतिं प्राप्य स्वात्मैवाश्व् अवलम्ब्यताम्
अहङ्कारपिशाचेन ग्रस्ता ये निरयैषिणः । तेषां मोहामयान्धानां न मित्राणि न बन्धवः