शान्तसञ्चारसङ्क्रान्तनिश्चलास्येषु पक्षिषु । स्वपत्स्व् अन्तःपुराणां च पञ्जरेष्व् आलयेषु च
विचारयत्सु तत्त्वार्थं बुद्ध्या प्राप्तविकासया । सुतत्त्वज्ञेषु सभ्येषु सहजानन्दशालिषु
परोपशमशालिन्या तया सद्वाक्यमालया । विनयावनतिस्थेषु क्रीडामर्कटकेष्व् अपि
राघवस्यात्मविश्रान्तिस्थित्यर्थं वचनौघतः । विरराम मुनिर् वारि ससेत्व् आत्मरयाद् इव
अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते । पुनर् आह तम् एवार्थं वसिष्ठो वदतां वरः
राम सम्यक्प्रबुद्धो ऽसि स्वात्मानम् असि लब्धवान् । एतम् एवावलम्ब्यान्तस् तिष्ठ मेह मदं कृथाः
इदं संसारचक्रं हि नाभौ सङ्कल्पमात्रके । संरोधितायां वहनाद् रघुनन्दन रुध्यते
बोधितायां मनोनाभ्याम् इदं संसारचक्रकम् । प्रयत्नाद् रोधितम् अपि प्रवहत्य् एव वेगतः
परं पौरुषम् आश्रित्य बलं प्रज्ञां च युक्तितः । नाभिं संसारचक्रस्य चित्तम् एव निरोधयेत्
प्रज्ञासौजन्ययुक्तेन शास्त्रसंवलितेन च । पौरुषेण न यत् प्राप्तं न तत् क्वचन लभ्यते
दैवैकपरतां त्यक्त्वा बालबोधोपकल्पिताम् । निजं प्रयत्नम् आश्रित्य चित्तम् आदौ निरोधयेत्
आ विरिञ्चात् प्रवृत्तेन भ्रमेणाज्ञानरूपिणा । असद् एव सदाभासम् इदम् आलक्ष्यते ऽनघ
अज्ञानभ्रमविस्तारमिथ्यैकाकृतयो ऽनघ । इमे देहा भ्रमन्तीह सर्व एवासदुत्थिताः
सङ्कल्पपुरुषस्येव देहस्यार्थे कदाचन । सुखदुःखविकारित्वं न कार्यं राम धीमता
दुःखम्लानमुखक्लेदी प्रसन्नात् क्लेदवर्जितात् । अपि चित्रनराद् देहनरस् तुच्छतरस् स्मृतः
आधिव्याधिपरिम्लाने स्वयं क्लेदिनि नाशिनि । न तथा स्थिरता देहे चित्रपुंसि यथा किल
विनाशितो हि चित्रस्थो देहो नश्यति नान्यथा । अवश्यनाशो नाशात्मा स्वयं देहो विनश्यति
पालितस् सुस्थिरां शोभाम् आदत्ते चित्रमानवः । देहस् तु पालितो ऽप्य् उच्चैर् नश्यत्य् एव न वर्धते
तेन श्रेष्ठश् चित्रदेहो नायं सङ्कल्पदेहकः । ये गुणाश् चित्रदेहे हि न ते सङ्कल्पदेहके
चित्रदेहाद् अपि जडाद् यो ऽयं तुच्छतरः किल । तस्मिन् मांसमये देहे केवास्था भवतो ऽनघ
दीर्घसङ्कल्पदेहो ऽयम् अस्मिन् क्वास्था महामते । स्वल्पसङ्कल्पजाद् देहाद् अपि तुच्छतरो ह्य् अयम्
स्वल्पसङ्कल्पजो दीर्घैस् सुखदुःखैर् न गृह्यते । दीर्घसङ्कल्पजश् चायं दीर्घदुःखेन दुःखितः
देहो हि सङ्कल्पमयो नायम् अस्ति न नास्ति च । किं व्यर्थम् एतदर्थं हि मूढो ऽयं क्लेशभाग् जनः
यथा चित्रमये पुंसि क्षते क्षीणे न वः क्षतिः । यथा सङ्कल्पपुरुषे क्षते क्षीणे न वः क्षतिः
यथा मनोराज्यमये क्षते क्षीणे न वः क्षतिः । यथा द्वितीये शशिनि क्षते क्षीणे न वः क्षतिः
यथा स्वप्नसमारम्भे क्षते क्षीणे न वः क्षतिः । यथा घनातपजले क्षते क्षीणे न वः क्षतिः
सङ्कल्पमात्रकलिते प्रकृत्यैव विनाशिनि । तथा शरीरयन्त्रे ऽस्मिन् क्षते क्षीणे न वः क्षतिः
दीर्घस्वप्नमये ह्य् अस्मिंश् चिरसङ्कल्पकल्पिते । भूषिते दूषिते देहे न हि किञ्चिच् चितः क्षतम्
न चिद् अस्तम् उपायाति नात्मा चलति राघव । न ब्रह्म विकृतिं याति किं वो देहक्षये क्षतम्
भ्रमच्चक्रोपरिस्थो हि त्यक्तचक्रो ऽपि चक्रवत् । यथा पश्यति दिक्चक्रं भ्रमद् अत्यन्तमोहितः