परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् । सर्वतस् सुखम् अभ्येति चन्द्रबिम्ब इव स्थितम्
अपि निर्मननारम्भम् अप्य् अस्ताखिलकौतुकम् । आत्मन्य् एव न मात्य् अन्तर् इन्दाव् इव रसायनम्
न करोतीन्द्रजालानि नानुधावति वासनाम् । बालचापलम् उत्सृज्य पूर्णम् एव विराजते
स्वानुभूतेस् सुशास्त्रस्य गुरोश् चैवैकवाक्यता । यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते
अवहेलितशास्त्रार्थैर् अवज्ञातमहाजनैः । कष्टाम् अप्य् आपदं प्राप्तो न मूढैस् समताम् इयात्
न व्याधिर् न विषं नापत् तथा नामास्ति भूतले । खेदाय स्वशरीरस्थं मौर्ख्यम् एव यथा नृणाम्
किञ्चित्संस्कृतबुद्धीनां श्रव्यं शास्त्रम् इदं यथा । मौर्ख्यापहं तथा शास्त्रम् अन्यद् अस्ति न किञ्चन
इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् । अविरुद्धम् अशेषेण शास्त्रवाक्यार्थबन्धुना
आपदो या दुरुत्तारा याश् च तुच्छाः कुयोनयः । तास् ता मौर्ख्यात् प्रसूयन्ते खदिरात् कण्टका इव
वरं शरावहस्तस्य चण्डालागारवीथिषु । भिक्षार्थम् अटनं राम न मौर्ख्यहतजीवितम्
इमम् आलोकम् आसाद्य मोक्षोपायमयं जनः । अन्धताम् एति न पुनः कश्चिन् मोहतमस्य् अपि
तावन् नयति सङ्कोचं तृष्णाश्यामा नराम्बुजम् । यावद् विवेकसूर्यस्य नोदिता विमला प्रभा
संसारदुःखमोक्षार्थं मादृशैस् सह बन्धुभिः । स्वरूपम् आत्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः
जीवन्मुक्ताश् चरन्तीह यथा हरिहरादयः । यथा ब्रह्मर्षयश् चान्ये तथा विहर राघव
अनन्तानीह दुःखानि सुखं क्षणलवोपमम् । नातस् सुखेषु बध्नीयाद् दृष्टिं दुःखानुबन्धिषु
यद् अनन्तम् अनायासं तत् पदं सारसिद्धये । साधनीयं प्रयत्नेन पुरुषेण विजानता
त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः । अनुत्तमपदालम्बि मनो येषां गतज्वरम्
सम्भोगाशनमात्रेषु राज्यादिषु सुखेषु ये । सन्तुष्टा दुष्टमनसो विद्धि तान् अन्धडुण्डुभान्
ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु । द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु
ते यान्ति दुर्गमाद् दुर्गं दुःखाद् दुःखं भयाद् भयम् । नरकान् नरकं मूढा मोहमन्थरबुद्धयः
परस्परविनाशोत्के श्रेयस्यौ न कदाचन । सुखदुःखदशे राम तडित्प्रसरभङ्गुरे
ये विरक्ता महात्मानस् सुविविक्ता भवादृशः । पुरुषान् विद्धि तान् वन्द्यान् भोगमोक्षैकभागिनः
विवेकं परम् आश्रित्य वैराग्याभ्यासयोगतः । संसारसरितं घोराम् इमाम् आपदम् उत्तरेत्
न स्वप्तव्यं तु संसारमायास्व् इह विजानता । विषमूर्छनसम्मोहदायिनीषु विवेकिना
संसारम् इमम् आसाद्य यस् तिष्ठत्य् अवहेलया । ज्वलितस्य गृहस्योच्चैश् शेते तार्णस्य सो ऽन्तरे
यत् प्राप्य न निवर्तन्ते यद् आसाद्य न शोच्यते । तत् पदं शेमुषीलभ्यम् अस्त्य् एवात्र न संशयः
नास्ति चेत् तद् विचारेण दोषः को भवतां भवेत् । अस्ति चेत् तत् समुत्तीर्णा भविष्यथ भवार्णवात्
प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे । यदा भवत्य् आशु तदा मोक्षभागी स उच्यते
अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् । न विना केवलीभावं विद्यते भुवनत्रये
तत्प्राप्ताव् उत्तमप्राप्तौ न क्लेश उपयुज्यते । न मित्राण्य् उपकुर्वन्ति न धनानि न बन्धवः