प्रबोधम् एहि पश्याच्छम् आत्मानम् उदितं सदा । निर्विकल्पचिदाभासं प्रातः पद्मो रविं यथा
प्रबुध्यस्व प्रबुध्यस्व पुनः पुनर् अयं मया । प्रबोध्यसे महाबाहो पश्यात्मार्कम् अनामयम्
मयैतेनातिशीतेन वृष्टेन ज्ञानवारिणा । सुशब्दशालिना राम घनेनेवासि बोधितः
बोधम् आसादय परं प्रबुद्धो ऽस्य् एव राघव । सत्यम् आलोकयालीकं त्यक्त्वेमं जागतं भ्रमम्
न ते जन्म न ते दुःखं न दोषस् ते न ते भ्रमः । सर्वसङ्कल्पमुक्तस् त्वं स्वात्मनात्मनि संस्थितः
परिगलितविकल्पदोषजालस् समसितसारसुषुप्तसोम्यवृत्तिः । अतिविततम् इदं च सोम्यरूपं समुपशमात्मनि तिष्ठ हे महात्मन्
इत्य् आकर्णयति स्वच्छसमचेतसि राघवे । विश्रान्ते स्वात्मनि स्वैरं परमानन्दम् आगते
तत्रस्थेषु च सर्वेषु तेषूपशमशालिषु । अपरिक्षुब्धचित्तेषु स्थितेष्व् अभ्युदितात्मसु
संशान्तसकलस्पन्दशब्दसंव्यवहारिणि । सभाभोगे स्थिते सोम्ये रात्राव् इव महीतले
प्रमूकमुग्धघण्टासु निषण्णासु नभस्तले । शृण्वन्तीष्व् इव शुद्धासु पताकासु वचो मुनेः
शान्तसञ्चारसङ्क्रान्तनिश्चलास्येषु पक्षिषु । स्वपत्स्व् अन्तःपुराणां च पञ्जरेष्व् आलयेषु च
विचारयत्सु तत्त्वार्थं बुद्ध्या प्राप्तविकासया । सुतत्त्वज्ञेषु सभ्येषु सहजानन्दशालिषु
परोपशमशालिन्या तया सद्वाक्यमालया । विनयावनतिस्थेषु क्रीडामर्कटकेष्व् अपि
राघवस्यात्मविश्रान्तिस्थित्यर्थं वचनौघतः । विरराम मुनिर् वारि ससेत्व् आत्मरयाद् इव
अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते । पुनर् आह तम् एवार्थं वसिष्ठो वदतां वरः
राम सम्यक्प्रबुद्धो ऽसि स्वात्मानम् असि लब्धवान् । एतम् एवावलम्ब्यान्तस् तिष्ठ मेह मदं कृथाः
इदं संसारचक्रं हि नाभौ सङ्कल्पमात्रके । संरोधितायां वहनाद् रघुनन्दन रुध्यते
बोधितायां मनोनाभ्याम् इदं संसारचक्रकम् । प्रयत्नाद् रोधितम् अपि प्रवहत्य् एव वेगतः
परं पौरुषम् आश्रित्य बलं प्रज्ञां च युक्तितः । नाभिं संसारचक्रस्य चित्तम् एव निरोधयेत्
प्रज्ञासौजन्ययुक्तेन शास्त्रसंवलितेन च । पौरुषेण न यत् प्राप्तं न तत् क्वचन लभ्यते
दैवैकपरतां त्यक्त्वा बालबोधोपकल्पिताम् । निजं प्रयत्नम् आश्रित्य चित्तम् आदौ निरोधयेत्
आ विरिञ्चात् प्रवृत्तेन भ्रमेणाज्ञानरूपिणा । असद् एव सदाभासम् इदम् आलक्ष्यते ऽनघ
अज्ञानभ्रमविस्तारमिथ्यैकाकृतयो ऽनघ । इमे देहा भ्रमन्तीह सर्व एवासदुत्थिताः
सङ्कल्पपुरुषस्येव देहस्यार्थे कदाचन । सुखदुःखविकारित्वं न कार्यं राम धीमता
दुःखम्लानमुखक्लेदी प्रसन्नात् क्लेदवर्जितात् । अपि चित्रनराद् देहनरस् तुच्छतरस् स्मृतः
आधिव्याधिपरिम्लाने स्वयं क्लेदिनि नाशिनि । न तथा स्थिरता देहे चित्रपुंसि यथा किल
विनाशितो हि चित्रस्थो देहो नश्यति नान्यथा । अवश्यनाशो नाशात्मा स्वयं देहो विनश्यति
पालितस् सुस्थिरां शोभाम् आदत्ते चित्रमानवः । देहस् तु पालितो ऽप्य् उच्चैर् नश्यत्य् एव न वर्धते
तेन श्रेष्ठश् चित्रदेहो नायं सङ्कल्पदेहकः । ये गुणाश् चित्रदेहे हि न ते सङ्कल्पदेहके
चित्रदेहाद् अपि जडाद् यो ऽयं तुच्छतरः किल । तस्मिन् मांसमये देहे केवास्था भवतो ऽनघ