इति निश्चयवत् त्व् अन्तस् सम्यग्ज्ञानान् मनो मुनेः । नास्तम् एति न चोदेति न चान्तः परितप्यते
परताम् एव तां सो ऽन्तर् अनुत्तरपदस्थिताम् । आदत्ते तित्तिरिर् मृद्वीं तृणकोटिम् इवामलाम्
एतदर्थम् असत्ये ऽस्मिन् नास्था कार्या मनाग् अपि । सुरज्ज्वेव बलीवर्दो बध्यते जन्तुर् आस्थया
असत्स्वप्नं दृढम् इदम् इति निर्णीय बुद्धितः । आस्थारहितया दृष्ट्या विहर्तव्यम् इहानघ
कर्तव्यम् एव कर्तव्यं यस्य न प्रतिभासते । सो ऽन्तश्शीतलताम् एति दिनान्ते भुवनं यथा
प्रविभागं परित्यज्य पदार्थपटलव्रजे । आभासमात्रसामान्यम् इदम् आलोकयानघ
आभासमात्रकं राम चिन्तामर्शकलङ्कितम् । ततस् तद् अपि सन्त्यज्य निराभासो भवोत्तमः
चिदाकाशमयो नित्यस् सर्वगस् सर्ववर्जितः । आभासस्य परित्यागे भवस्य् एकान्तनिर्मलः
नाहम् अस्मि न मे भोगास् सत्या इत्य् अभिभाविते । नेदम् आडम्बरं व्यर्थम् अनर्थायावभासते
अहम् एव हि वा सर्वं चिद् इत्य् एवाभिभाविते । नेदम् आडम्बरं व्यर्थम् अनर्थायावभासते
दर्शनद्वयम् अप्य् एतत् सत्यम् अत्यन्तसिद्धिदम् । यद् एकम् एतयोर् वेत्सि रम्यं तद् राम संश्रय
द्वाभ्याम् एवाथ वै ताभ्यां दर्शनाभ्याम् इहानघ । विहरन् कुरु कल्याणं रागद्वेषपरिक्षयात्
यत् किञ्चिद् उचितं लोके यन् नभस्य् अथ यत् परे । तत् सर्वं प्राप्यते राम रागद्वेषपरिक्षयात्
रागाहिहितया बुद्ध्या यादृग् राम विचेष्ट्यते । तत् तद् एव प्रयात्य् आशु मूढानां विपरीतताम्
द्वेषदोषोपरुद्धासु न गुणाश् चित्तवृत्तिषु । पदं कुर्वन्ति दग्धासु स्थलीषु हरिणा इव
रागो द्वेषश् च सर्पौ द्वौ न निलीनौ मनोबिले । यस्य कल्पतरोस् तस्मात् किं नामाङ्ग न लभ्यते
ये हि प्राज्ञास् सुनियता विदग्धाश् शास्त्रशालिनः । रागद्वेषमयास् ते चेज् जम्बुकास् तद् धिग् अस्तु तान्
मद् धनं भुक्तम् अन्येन धनं भुक्तं मयान्यतः । इत्थं संव्यवहारेहा को रागद्वेषयोः क्रमः
धनानि बन्धवो मित्रं पुनर् आयान्ति यान्ति च । किम् एतेषु नरः प्राज्ञो रज्यते वा विरज्यते
भावाभावभवाभोगा मायेयं पारमेश्वरी । संसाररचनासर्पी प्रसक्तं प्रदहत्य् अलम्
न धनं न जनो नास्मि सत्यं राघव वस्तुतः । मिथ्यैव मिथ्यावलितम् इतीदं परिलक्ष्यते
आद्यन्तयोस् सर्वम् असन् मध्ये ऽप्य् अस्थिरम् आधिमत् । क्व बध्नातु धृतिं धीरो ह्य् अन्यकल्पितखद्रुमे
एकेन कल्पिता खे स्त्री भुङ्क्ते तां दूरगो ऽपरः । इतीयम् अङ्ग संसाररचना नेतरः क्रमः
इहाजवञ्जवीभावम् इमम् आकुलम् आततम् । गन्धर्वपुरनिर्माणविनाशेन समं विदुः
स्वप्नसङ्कल्पपुरवद् असद् एवेदम् उत्थितम् । कालदैर्घ्यधिया जातप्रत्ययं जातम् अद्य वः
नासि नायं पटो नार्थो विद्यते भित्तिभागवान् । सङ्कल्पकलनैवेयम् अभ्यासात् पुष्टतां गता
सुषुप्तसंस्थितो नित्यं वितते शाश्वते पदे । न कश्चिद् एव परमे भवान् आत्मनि संस्थितः
सर्वं तत्रस्थ एवेदं सुषुप्तपदविच्युतः । परिपश्यसि संसारदीर्घस्वप्नम् उरुभ्रमम्
अज्ञाननिद्रासुघनस्वस्वभावान् मनाक् च्युतः । संसारस्वप्नसम्भ्रान्तो भवान् अयम् इह स्थितः
तद् एतां विततां निद्रां घनाज्ञानमयात्मिकाम् । त्यजालक्ष्मीम् इव प्राप्तनिधानः पुरुषोत्तम