स्वप्नसङ्कल्पकलने यथान्येव जगत्स्थितिः । तथैवेयं हि सङ्कल्पकलना काचिद् एव ह
यथा पूर्वं मयोत्पत्तिः प्रोक्ता कमलजन्मनः । मनसस् स्वयम् एवान्तस् सङ्कल्पकलनोद्भवा
विचित्ररचनोपेतम् अनन्तशतविभ्रमम् । सङ्कल्पकलनामात्रं तथेदम् अवभासते
यथा कलित आभासो मनसो ऽब्जजतागतौ । देहवच् चिन्तितो देहस् स्थितो ऽन्यस् तद्वद् एव हि
प्राक्प्रवाहचिराभ्यस्तो वासनाविलयेन यः । तथैव दृश्यते देहस् तदाकृत्युदयेन सः
पौरुषेण प्रयत्नेन सङ्कल्पो ह्य् अयम् एव चेत् । अन्यथा भाव्यते राम भूयते तद् इहान्यथा
अयं सो ऽहं ममायं च संसार इति भाविते । सत्यो ऽयं भासते राम भावनादार्ढ्यसम्भवः
भावितं तीव्रवेगेन यद् एवाशु तद् एव च । सर्वत्र दृश्यते राम कान्तेवात्यन्तवल्लभा
अहर्व्यापृतिर् अभ्यस्ता यथा स्वप्ने ऽपि दृश्यते । तथा सम्भावनाभ्यस्तस् संसारो ऽप्य् अवलोक्यते
यथा स्वप्नावधौ क्षिप्रम् अहर्वद् अवभासते । तथेदं सर्वकालस्थम् अपि संलक्ष्यते चिरम्
व्योमन्य् एव यथा तापसन्तप्ते दृश्यते सरित् । धराप्य् अविद्यमानैव सङ्कल्पाद् दृश्यते तथा
दृश्यते दृष्टिवैरूप्याद् यथा व्योमनि पिञ्छिका । तथैवेयं जगल्लक्ष्मीर् दुर्ज्ञानाद् एव भासते
भीरुर् अप्य् एति न यथा स्वसङ्कल्पेषु सम्भ्रमम् । स्वसङ्कल्पे ऽपि संसारे न तथैति भयं सुधीः
स्व एव हि स्वभावो ऽयम् इत्थं सम्प्रति भासते । संसारसरणिस्थित्या कस्मात् को ऽत्र विभाति किम्
स एव किञ्चित् संशोध्यश् शुद्ध्या विमलतां गते । तस्मिन् न दृश्यते राम मोहो ऽयं जागतश् चलः
सम्यगालोकमात्रेण स्वभावश् शुद्धिम् ऋच्छति । न गृह्णाति मलं भूयस् ताम्रताम् इव काञ्चनम्
आभासमात्रम् एवैतन् न सन् नासज् जगत्त्रयम् । इत्य् अन्यकलनात्यागं सम्यगालोकनं विदुः
मरणं जीवितं स्वर्गो ज्ञानम् अज्ञानम् एव च । चिदाभासाद् ऋते नास्तीत्य् एकता सम्यगीक्षणम्
त्वमहन्तादिसंसारम् इदम् एता दिशो दश । सर्वं स्वाभासम् एवेति सम्यगालोकनं विदुः
सदसन्मयसंसारे यथाभूतार्थदर्शनात् । नास्तम् एति न चोदेति सम्यगालोकनान् मनः
निर्णीय सर्वभावानाम् असत्त्वं सत्त्वम् एव वा । निष्कामं शान्तिम् अभ्येति सम्यगालोकनान् मनः
न निन्दति न च स्तौति न हृष्यति न शोचति । शीतलं सत्यताम् एति सम्यगालोकनान् मनः
अवश्यम् एव मर्तव्यं सर्वैर् एव हि बन्धुभिः । इति बन्धुवियोगेषु किं वृथा परितप्यसे
अवश्यम् एव च मया मर्तव्यम् इति निश्चये । इत्य् आत्ममरणप्राप्तौ किं मुधा परितप्यसे
अवश्यम् एव जातेन किञ्चित् स्वविभवादिकम् । प्राप्तव्यं पुरुषेणेति हर्षस्यावसरो हि कः
सर्वस्यैव हि संसारे नरस्य व्यवहारिणः । अनर्थाय भवत्य् आपच् छोकस्यावसरो हि कः
ब्रुडत्य् उदेति स्फुरति बुद्बुदौघ इवार्णवे । इदं हि जनताजालं किम् अत्र परिदेवना
सत् सद् एव सदैवैतद् असद् एवासद् एव हि । क्रियावैचित्र्यमात्रे तु किम् अस्मिन् परिदेवना
नाहम् अस्मि न चाभूवं न भविष्यामि चाधुना । देहो ऽहं चित्तदोषो ऽयं किम् अन्यत् परिदेव्यते
देहाच् चेद् अन्य एवाहं चिदाभासस् तद् अङ्ग हे । कौ तौ मे सदसद्भावौ यन्निष्ठं परितप्यते