परमार्थावबोधाय दोषापाकरणाय च । शृणु राघव तत्त्वेन वक्ष्यमाणम् इदं मया
अस्थिस्थूणं नवद्वारं रक्तमांसावलेपनम् । शरीरसदनं राम न केनचिद् इदं कृतम्
आभासमात्रम् एवेदम् इत्थम् एवावभासते । द्विचन्द्रविभ्रमाकारं सद् असच् च व्यवस्थितम्
द्विचन्द्रविभ्रमविधौ द्विचन्द्रत्वं सद् एव हि । वस्तुतश् चैक एवेन्दुस् स्थितिर् देहे तथैव हि
देहप्रत्ययकाले हि देहो ऽयं सन् व्यवस्थितः । असन्न् एव वस्तुतस् स प्रोक्तस् सदसदात्मकः
स्वप्नस् स्वप्नविधौ सत्यस् त्व् अन्यदा स मुधैव हि । बुद्बुदो बुद्बुदविधौ सत्यो मिथ्यैव चान्यदा
देहो देहावधौ सत्यो ऽप्य् असत्य इतरावधौ । प्रतिभासावधौ तापे जलं सद् असद् अन्यदा
प्रतिभासावधौ देहस् सन्न् असंस् त्व् अन्यदा स्मृतः । आभासमात्रम् एवेदम् इत्थं सम्प्रति भासते
अयं नामाहम् इत्य् अन्तर् गृहीतमननं स्थितम्
मांसास्थिमयनिर्माणं देहो नान्यद् इति भ्रमम् । त्यज सङ्कल्पनिर्माणा देहास् सन्ति सहस्रशः
वरतल्पगतो येन स्वप्ने देहेन दिक्तटम् । परिभ्रमसि हे राम स देहस् ते क्व संस्थितः
जागरायां मनोराज्ये येन स्वर्गपुरान्तरम् । परिभ्रमसि मेरुं वा स देहस् ते क्व संस्थितः
स्वप्नेष्व् अपि च यस् स्वप्नस् तत्र येन महीतटान् । परिभ्रमसि हे राम स देहस् ते क्व संस्थितः
गतैर् देहैर् मनोराज्ये महाविभवभूमिषु । परिभ्रमसि येनेह स देहस् ते क्व संस्थितः
मनोराज्ये मनोराज्ये विचित्रा या जगत्क्रियाः । प्रकरोषि महाबाहो यैर् देहैस् ते क्व संस्थिताः
विलासिन्यानुरागिण्या येन सङ्कल्पकान्तया । निर्वृतिं यासि देहेन स देहस् ते क्व संस्थितः
एते राम यथा देहा मानसस्पन्दसन्मयाः । तथैव तादृगारम्भो देहो ऽयं मानसस् स्मृतः
इदं धनम् अयं देहो देशो ऽयम् इति यो भ्रमः । तत् सर्वं चित्तवीर्यस्य सङ्कल्पस्य विजृम्भितम्
दीर्घं स्वप्नम् इमं विद्धि दीर्घं वा चित्तविभ्रमम् । दीर्घं वापि मनोराज्यं संसारं रघुनन्दन
प्रबोधम् एष्यसि यदा परम् आत्मेच्छया स्वया । द्रक्ष्यसि त्वं तदा सम्यग् इदम् ऊर्ध्वाद् अधो यथा
स्वप्नसङ्कल्पकलने यथान्येव जगत्स्थितिः । तथैवेयं हि सङ्कल्पकलना काचिद् एव ह
यथा पूर्वं मयोत्पत्तिः प्रोक्ता कमलजन्मनः । मनसस् स्वयम् एवान्तस् सङ्कल्पकलनोद्भवा
विचित्ररचनोपेतम् अनन्तशतविभ्रमम् । सङ्कल्पकलनामात्रं तथेदम् अवभासते
यथा कलित आभासो मनसो ऽब्जजतागतौ । देहवच् चिन्तितो देहस् स्थितो ऽन्यस् तद्वद् एव हि
प्राक्प्रवाहचिराभ्यस्तो वासनाविलयेन यः । तथैव दृश्यते देहस् तदाकृत्युदयेन सः
पौरुषेण प्रयत्नेन सङ्कल्पो ह्य् अयम् एव चेत् । अन्यथा भाव्यते राम भूयते तद् इहान्यथा
अयं सो ऽहं ममायं च संसार इति भाविते । सत्यो ऽयं भासते राम भावनादार्ढ्यसम्भवः
भावितं तीव्रवेगेन यद् एवाशु तद् एव च । सर्वत्र दृश्यते राम कान्तेवात्यन्तवल्लभा
अहर्व्यापृतिर् अभ्यस्ता यथा स्वप्ने ऽपि दृश्यते । तथा सम्भावनाभ्यस्तस् संसारो ऽप्य् अवलोक्यते
यथा स्वप्नावधौ क्षिप्रम् अहर्वद् अवभासते । तथेदं सर्वकालस्थम् अपि संलक्ष्यते चिरम्