दुस्सहा राम संसारविषावेशविषूचिका । योगगारुडमन्त्रेण पावनेन प्रशाम्यति
विकौतुका विगतविकल्पविप्लवा यथा स्थिता हरिहरपद्मजादयः । नरोत्तमास् समधिगतात्मदीपकास् तथा स्थिता जगति विबुद्धबुद्धयः
परिक्षीणे मोहे गलति च घने ऽज्ञानजलदे परिज्ञाते तत्त्वे समधिगत आत्मन्य् अभिमते । विचार्यार्यैस् सार्धं गलितवपुषोर् वा सदसतोर् धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम्
प्रसन्ने चित्तत्त्वे हृदि सविभवे वल्गति परे समाभोगीभूतास्व् अखिलकलनादृष्टिषु पुरः । शमं यान्तीष्व् अन्तःकरणघटनास्व् आहितरसं धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम्
रथस् स्फारो देहस् तुरगरचना चेन्द्रियगतिः परिस्पन्दो वाताद् अहम् अकलितानन्तविषमः । परो वार्वाग् देही जगति विहरामीत्य् अनघया धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम्
एतां दृष्टिम् अवष्टभ्य पुष्टात्मानस् सुबुद्धयः । विचरन्त्य् असमुन्नद्धा महान्तो ऽभ्युदिता इव
न शोचन्ति न याचन्ते न वाञ्छन्ति शुभाशुभम् । सर्वम् एव च कुर्वन्ति कुर्वन्ति न च किञ्चन
स्वस्थम् एवावतिष्ठन्ति स्वस्थं कुर्वन्ति यान्ति च । हेयोपादेयतापक्षरहितास् स्वात्मनि स्थिताः
आयान्ति च न चायान्ति वनं यान्ति न यान्ति च । न कुर्वन्त्य् अपि कुर्वन्ति न वदन्ति वदन्ति च
ये केचन समारम्भा याश् च काश्चन दृष्टयः । हेयादेयदृशो यास् ताः क्षीयन्ते ऽधिगते पदे
परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् । सर्वतस् सुखम् अभ्येति चन्द्रबिम्ब इव स्थितम्
अपि निर्मननारम्भम् अप्य् अस्ताखिलकौतुकम् । आत्मन्य् एव न मात्य् अन्तर् इन्दाव् इव रसायनम्
न करोतीन्द्रजालानि नानुधावति वासनाम् । बालचापलम् उत्सृज्य पूर्णम् एव विराजते
स्वानुभूतेस् सुशास्त्रस्य गुरोश् चैवैकवाक्यता । यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते
अवहेलितशास्त्रार्थैर् अवज्ञातमहाजनैः । कष्टाम् अप्य् आपदं प्राप्तो न मूढैस् समताम् इयात्
न व्याधिर् न विषं नापत् तथा नामास्ति भूतले । खेदाय स्वशरीरस्थं मौर्ख्यम् एव यथा नृणाम्
किञ्चित्संस्कृतबुद्धीनां श्रव्यं शास्त्रम् इदं यथा । मौर्ख्यापहं तथा शास्त्रम् अन्यद् अस्ति न किञ्चन
इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् । अविरुद्धम् अशेषेण शास्त्रवाक्यार्थबन्धुना
आपदो या दुरुत्तारा याश् च तुच्छाः कुयोनयः । तास् ता मौर्ख्यात् प्रसूयन्ते खदिरात् कण्टका इव
वरं शरावहस्तस्य चण्डालागारवीथिषु । भिक्षार्थम् अटनं राम न मौर्ख्यहतजीवितम्
इमम् आलोकम् आसाद्य मोक्षोपायमयं जनः । अन्धताम् एति न पुनः कश्चिन् मोहतमस्य् अपि
तावन् नयति सङ्कोचं तृष्णाश्यामा नराम्बुजम् । यावद् विवेकसूर्यस्य नोदिता विमला प्रभा
संसारदुःखमोक्षार्थं मादृशैस् सह बन्धुभिः । स्वरूपम् आत्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः
जीवन्मुक्ताश् चरन्तीह यथा हरिहरादयः । यथा ब्रह्मर्षयश् चान्ये तथा विहर राघव
अनन्तानीह दुःखानि सुखं क्षणलवोपमम् । नातस् सुखेषु बध्नीयाद् दृष्टिं दुःखानुबन्धिषु
यद् अनन्तम् अनायासं तत् पदं सारसिद्धये । साधनीयं प्रयत्नेन पुरुषेण विजानता
त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः । अनुत्तमपदालम्बि मनो येषां गतज्वरम्
सम्भोगाशनमात्रेषु राज्यादिषु सुखेषु ये । सन्तुष्टा दुष्टमनसो विद्धि तान् अन्धडुण्डुभान्
ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु । द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु
ते यान्ति दुर्गमाद् दुर्गं दुःखाद् दुःखं भयाद् भयम् । नरकान् नरकं मूढा मोहमन्थरबुद्धयः