त्वाम् इहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च । आत्मन्य् एव नमाम्य् अन्तर् दृष्टेन्दुर् जलधिर् यथा
यत् कार्यं येन चार्थेन प्राप्तो ऽसि मुनिपुङ्गव । कृतम् इत्य् एव तद् विद्धि मान्यो ऽसि हि भृशं मम
स्वकार्येण विमर्शं त्वं कर्तुम् अर्हसि कौशिक । भगवन् नास्त्य् अदेयं हि त्वयि यत् प्रतिपद्यते
कार्यस्य च विचारं त्वं कर्तुम् अर्हसि धर्मतः । कर्ता चाहम् अशेषं ते दैवतं परमं भवान्
इदम् अतिमधुरं निशम्य वाक्यं श्रुतिसुखम् अर्थविदा विनीतम् उक्तम् । प्रथितगुणवशाद् गुणैर् विशिष्टं मुनिवृषभः परमं जगाम हर्षम्
तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत
सदृशं राजशार्दूल तवैवैतन् महीतले । महावंशप्रसूतस्य वसिष्ठवशवर्तिनः
यत् तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् । कुरु त्वं राजशार्दूल धर्मं समनुपालय
अहं नियमम् आतिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः
यदा यदा तु यज्ञेन यजे ऽहं विबुधव्रजम् । तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः
बहुशो विहिते तस्मिन् मम राक्षसनायकाः । अकिरंस् ते महीं यागे मांसेन रुधिरेण च
अवधूते तथाभूते तस्मिन् यागकदम्बके । कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपागमम्
न च मे क्रोधम् उत्स्रष्टुं बुद्धिर् भवति पार्थिव । तथाभूतं हि तत् कर्म न शापस् तस्य विद्यते
ईदृशी च क्षमा राजन् मम तस्मिन् महाक्रतौ । त्वत्प्रसादाद् अविघ्नेन प्रापयेयं महाफलम्
त्रातुम् अर्हसि माम् आर्तं शरणार्थिनम् आगतम् । अर्थिनां यन् निराशत्वं सताम् अभिभवो हि सः
तवास्ति तनयश् श्रीमान् दृप्तशार्दूलविक्रमः । महेन्द्रसदृशो वीरो रामो रक्षोविदारणः
तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् । काकपक्षधरं शूरं ज्येष्ठं मे दातुम् अर्हसि
शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा ये ऽपकर्तारस् तेषां मूर्धविनिग्रहे
श्रेयश् चास्मै करिष्यामि बहुरूपम् अनन्तकम् । त्रयाणाम् अपि लोकानां येन पूज्यो भविष्यति
न च तेन समासाद्य स्थातुं शक्ता निशाचराः । क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः
तेषां नान्यश् च काकुत्स्थाद् योद्धुम् उत्सहते पुमान् । ऋते केसरिणः क्रुद्धान् मत्तानां करिणाम् इव
वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे । खरदूषणयोर् भृत्याः कृतान्ताः कुपिता इव
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् । अनारतागता धारा जलदस्येव पांसवः
न च पुत्रगतं स्नेहं कर्तुम् अर्हसि पार्थिव । न तद् अस्ति जगत्य् अस्मिन् यन् न देयं महात्मनः
हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् । न ह्य् अस्मदादयः प्राज्ञास् सन्दिग्धे सम्प्रवृत्तयः
अहं वेद्मि महात्मानं रामं राजीवलोचनम् । वसिष्ठश् च महातेजा ये चान्ये दीर्घदर्शिनः
यदि धर्मो महत्त्वं च यशस् ते मनसि स्थितम् । तन् मह्यं स्वम् अभिप्रेतम् आत्मजं दातुम् अर्हसि
दशरात्रश् च मे यज्ञो यस्मिन् रामेण राक्षसाः । हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः
अत्राभ्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः । वसिष्ठप्रमुखास् सर्वे तेन रामं विसर्जय
नात्येति कालः कालज्ञ यथायं मम राघव । तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः