प्रभ्रान्तं दिक्षु सर्वासु दृष्टा विबुधभूमयः । भवान् इव जगत्य् अस्मिन् न महान् अवलोकितः
कथञ्चित् प्राप्यते कच्चिद् भ्रान्त्वेह हि महाजनः । न भवान् इव भव्यात्मा सुलभो जगति क्वचित्
वंशखण्डे हि कस्मिंश्चिज् जायते मौक्तिकं यथा । जगत्खण्डे हि कस्मिंश्चिज् जायते त्वादृशस् तथा
मया तु सुमहत् कार्यम् अद्य सम्पादितं शुभम् । पुण्यदेहो विमुक्तात्मा यद् भवान् अवलोकितः
तद् अस्तु तव कल्याणं प्रविशात्मगुहां शुभाम् । मध्याह्नसमयो ऽयं मे व्रजामि सुरमन्दिरम्
इत्य् आकर्ण्य भुसुण्डो ऽसौ जग्राहोत्थाय पादपात् । सङ्कल्पिताभ्यां हस्ताभ्यां सुपात्रं हेमपल्लवम्
कल्पवृक्षलतापुष्पकेसरेण हिमत्विषा । तत् पात्रं मौक्तिकार्घेण पूरयाम् आस पूर्णधीः
तेनार्घ्यपाद्यपात्रेण त्रिनेत्रम् इव माम् असौ । आपादमस्तकं भक्त्या पूजयाम् आस पूर्वजः
अनुव्रज्याकदर्थेन खगेन्द्रालम् इति ब्रुवन् । विष्टराद् अहम् उत्थाय ततः खगवद् आप्लुतः
व्योम्नि योजनमात्रेण मदनुव्रज्यया गतः । करं करेणावष्टभ्य बलात् संरोधितः खगः
मयि याते ततो दीर्घे गगनाध्वन्य् अदृश्यताम् । निवृत्तो ऽसौ विहङ्गेशो दुस्त्यजा सङ्गतिस् सताम्
अन्योऽन्यं मयि तस्मिंश् च तरङ्गक इवाम्बुधौ । व्योमन्य् अदृश्यतां याते गतस् स्मृत्या मुनीन् अहम्
सप्तर्षिमण्डलं प्राप्य जायया परिपूजितः । विस्मयोत्फुल्लहृदयस् ततो ऽहं राघवावसम्
भुसुण्डो भव्यतुण्डो ऽसौ तस्मिन् कल्पलतालये । समश् शान्तमना मान्यस् स्वसमाधानवान् अभूत्
जीवत्य् अद्यापि मतिमांस् तस्मिन्न् एव लतादले । तत्रैव संस्थितो मेरोस् तथैव कनकद्रुमे
याते कृतयुगस्यादौ पुरा वर्षशतद्वये । सङ्गतो ऽहं भुसुण्डेन मेरौ शृङ्गद्रुमे ऽभवम्
अद्य राम कृते क्षीणे त्रेता सम्परिवर्तते । मध्ये त्रेतायुगस्यास्य जातस् त्वं रिपुसूदन
पुनर् अद्याष्टमं वर्षं तत्रैवोपरि भूभृतः । मिलितो ऽभूद् भुसुण्डो ऽसौ तथैवाजररूपवान्
इतीदं कथितं चित्रं भुसुण्डोदन्तम् उत्तमम् । श्रुत्वा विचार्य चैवान्तर् यद् युक्तं तत् समाचर
इति सुमुनिभुसुण्डसङ्कथां यो विमलमतिः प्रविचारयिष्यतीह । भवभयबहलां कुसंसृतिं स प्रसभम् असत्सरितं तरिष्यतीति
एवं भुसुण्डवृत्तान्तः कथितस् ते मयानघ । अनया प्रज्ञया तीर्णो भुसुण्डो मोहसङ्कटात्
एतां दृष्टिम् अवष्टभ्य स्वप्राणाभ्यासपूर्विकाम् । भुसुण्डवन् महाबाहो भव तीर्णभवार्णवः
यथा ज्ञानेन योगेन सन्तताभ्यासजन्मना । भुसुण्डो ऽवाप्तवान् प्राप्यं तथा साधय तत् पदम्
असक्तबुद्धयस् सन्तो भुसुण्डवद् अवस्थितिम् । प्राप्नुवन्ति परे तत्त्वे प्राणापानावलोकिनः
एता विचित्रा भवता श्रुता विज्ञानदृष्टयः । इदानीं धियम् आलम्ब्य यथेच्छसि तथा कुरु
भगवन् भवता भूमिभास्वता ज्ञानरश्मिभिः । हार्दम् उद्दामदौरात्म्यं प्रमृष्टम् अखिलं तमः
प्रबुद्धास् स्मः प्रहृष्टास् स्मः प्रविष्टास् स्मस् स्वम् आस्पदम् । स्थितास् स्मो ज्ञातविज्ञेया भवन्तो ह्य् अपरा इव
अहो भुसुण्डचरितं परं विस्मयकारकम् । भगवन् भवता प्रोक्तम् उत्तमार्थावबोधदम्
भुसुण्डचरिते ब्रह्मन्न् एतस्मिन् यत् त्वया विभो । तच् छरीरगृहं प्रोक्तं मांसचर्मास्थिनिर्मितम्
तत् केन नाम रचितं कुतो वा तत् समुत्थितम् । कथं वा स्थितिम् आयातं को वा तत्रावतिष्ठते