अपारिप्लवया ऋज्व्या सुदृशा स्निग्धमुग्धया । ऋजु पश्यामि सर्वत्र तेन जीवाम्य् अनामयः
आपादमस्तकान्ते ऽस्मिन् न देहे ममता मम । त्यक्ताहङ्कारपङ्कस्य तेन जीवाम्य् अनामयः
यत् करोमि यद् अश्नामि तत् त्यक्त्वा तद्वतो ऽपि मे । मनो नैष्कर्म्यम् आदत्ते तेन जीवाम्य् अनामयः
यदा यदा मुने किञ्चिद् विजानामि तदा तदा । नतिम् आयामि नौद्धत्यं तेन जीवाम्य् अनामयः
करोमीशो ऽपि नाक्रान्तिं परितप्ये न खेदितः । दरिद्रो ऽपि न वाञ्छामि तेन जीवाम्य् अनामयः
नश्यद्रूपे शरीरे ऽस्मिन्न् अनष्टात्मा चिदास्पदः । भूतवृन्दं हसाम्य् आरात् तेन जीवाम्य् अनामयः
आशापाशविनुन्नायाश् चित्तवृत्तेस् समाहितः । संस्पर्शं न ददाम्य् अन्तस् तेन जीवाम्य् अनामयः
असत्तां जगतस् सत्ताम् आत्मनः करबिल्ववत् । सुप्तः प्रबुद्धः पश्यामि तेन जीवाम्य् अनामयः
क्षीणं भिन्नं श्लथं जीर्णं क्षुब्धं क्षुण्णं क्षयं गतम् । पश्यामि नववत् सर्वं तेन जीवाम्य् अनामयः
सुखितो ऽस्मि सुखासक्ते दुःखितो दुःखिते जने । सर्वस्य प्रियमित्रं च तेन जीवाम्य् अनामयः
आपद्य् अचलधीरो ऽस्मि जगन्मित्रं च सम्पदि । भावाभावेषु नैवास्मि तेन जीवाम्य् अनामयः
नाहम् अस्मि न चान्यो मे नाहम् अन्यस्य कस्यचित् । इति मे भावितं चेतस् तेन जीवाम्य् अनामयः
अहं जगद् अहं व्योम देशकालक्रमाव् अहम् । अहं क्रियेति मे बुद्धिस् तेन जीवाम्य् अनामयः
घटश् चिच् चित् पटश् चित् खं चिद् वटश् शकटश् च चित् । चित् सर्वम् इति मे भावस् तेन जीवाम्य् अनामयः
इत्य् अहं मुनिशार्दूल त्रिलोकीकमलालिकः । भुसुण्डनामा काकोलः कथितश् चिरजीवितः
ब्रह्मार्णवे विलुलितं त्रिजगत्तरङ्गम् उत्पादनाशविभवेन विभिन्नरूपम् । आलीनम् उन्नमितम् आकुलदृश्यदृश्यम् आलोकयन् प्रकलयंश् च चिरं स्थितो ऽस्मि
एतत् ते कथितं ब्रह्मन् यथास्मि यद् इहास्मि वा । त्वदाज्ञामात्रसिद्ध्यर्थं धार्ष्ट्येन ज्ञानपारग
अहो नु चित्रं भगवन् भवता भूषणं श्रुतेः । आत्मोदन्तः प्रकथितः परं विस्मयकारणम्
धन्यास् ते ये महात्मानम् अत्यन्तं चिरजीवितम् । भवन्तं परिपृच्छन्ति द्वितीयम् इव पद्मजम्
वयम् अद्य भृशं धन्यास् स्वात्मोदन्तम् अखण्डितम् । यथावत् पावनं बुद्धेस् सर्वं कथितवान् असि
प्रभ्रान्तं दिक्षु सर्वासु दृष्टा विबुधभूमयः । भवान् इव जगत्य् अस्मिन् न महान् अवलोकितः
कथञ्चित् प्राप्यते कच्चिद् भ्रान्त्वेह हि महाजनः । न भवान् इव भव्यात्मा सुलभो जगति क्वचित्
वंशखण्डे हि कस्मिंश्चिज् जायते मौक्तिकं यथा । जगत्खण्डे हि कस्मिंश्चिज् जायते त्वादृशस् तथा
मया तु सुमहत् कार्यम् अद्य सम्पादितं शुभम् । पुण्यदेहो विमुक्तात्मा यद् भवान् अवलोकितः
तद् अस्तु तव कल्याणं प्रविशात्मगुहां शुभाम् । मध्याह्नसमयो ऽयं मे व्रजामि सुरमन्दिरम्
इत्य् आकर्ण्य भुसुण्डो ऽसौ जग्राहोत्थाय पादपात् । सङ्कल्पिताभ्यां हस्ताभ्यां सुपात्रं हेमपल्लवम्
कल्पवृक्षलतापुष्पकेसरेण हिमत्विषा । तत् पात्रं मौक्तिकार्घेण पूरयाम् आस पूर्णधीः
तेनार्घ्यपाद्यपात्रेण त्रिनेत्रम् इव माम् असौ । आपादमस्तकं भक्त्या पूजयाम् आस पूर्वजः
अनुव्रज्याकदर्थेन खगेन्द्रालम् इति ब्रुवन् । विष्टराद् अहम् उत्थाय ततः खगवद् आप्लुतः
व्योम्नि योजनमात्रेण मदनुव्रज्यया गतः । करं करेणावष्टभ्य बलात् संरोधितः खगः