नापानो ऽभ्युदितो यत्र प्राणश् चास्तम् उपागतः । नासाग्रगगनावर्तं तच् चित्तत्त्वम् उपास्महे
प्राणापानोद्भवस्थाने बाह्याभ्यन्तरसंस्थिते । ये द्वे योगिपदाधारं तच् चित्तत्त्वम् उपास्महे
प्राणापानरथारूढम् अप्राणापानम् आततम् । यच् छक्तिरूपं शक्तीनां तच् चित्तत्त्वम् उपास्महे
हृत्प्राणकुम्भकं देवं बहिश् चापानकुम्भकम् । पूरकांशविमृष्टं यत् तच् चित्तत्त्वम् उपास्महे
प्राणापानपरामर्शसत्तारूपावबोधकम् । यत् प्राप्यं प्राणमननात् तच् चित्तत्त्वम् उपास्महे
यत् प्राणपवनस्पन्दो यत् स्पन्दानन्दकारणम् । कारणं कारणानां यत् तच् चित्तत्त्वम् उपास्महे
यद् अखिलकलनाकलङ्कहीनं परिवलितं च सदा कलागणेन । अनुभवविभवं पदं तद् अग्र्यं सकलसुरावनतं परं प्रपद्ये
एषा हि चिति विश्रान्तिर् मया प्राणसमाधिना । क्रमेणानेन सम्प्राप्ता स्वयम् आत्मनि निर्मले
एतां दृष्टिम् अवष्टभ्य संस्थितो ऽस्मि महामुने । न चलामि निमेषांशम् अपि मेरुर् इवाचलः
गच्छतस् तिष्ठतो वापि जाग्रतस् स्वपतो ऽपि वा । स्वप्ने ऽपि न चलत्य् एष सुसमाधिर् ममात्मनि
नित्यानित्यासु लोलासु जगत्स्थितिषु संस्थितः । अन्तर्मुखो ऽस्मि तिष्ठामि स्वयम् एवात्मनात्मनि
अपि संरुध्यते वायुर् अपि वा सलिलं गतेः । नैतस्मात् सुसमाधानान् निरुद्धं संस्मराम्य् अहम्
प्राणापानानुसरणात् परमात्मावलोकनात् । अशोकम् अनुयातो ऽस्मि पदम् आद्यं महातपः
आ महाप्रलयाद् ब्रह्मन्न् उन्मज्जननिमज्जने । अयम् अद्यापि भूतानां पश्यञ् जीवामि धीरधीः
न भूतं न भविष्यच् च चिन्तयामि कदाचन । दृष्टिम् आलम्ब्य तिष्ठामि वर्तमानाम् इहात्मनः
यथाप्राप्तेषु कार्येषु परित्यक्तफलैषणः । सुषुप्तसमया बुद्ध्या परितिष्ठामि केवलम्
भावाभावमयीं चिन्ताम् ईहितानीहितान्विताम् । विमुच्यात्मनि तिष्ठामि चिरं जीवाम्य् अनामयः
प्राणापानसमायोगसमयं समनुस्मरन् । स्वयम् आत्मनि तुष्यामि तेनास्मि चिरजीवितः
इदम् अद्य मया लब्धम् इदं लप्स्यामि सुन्दरम् । इति चिन्ता न मे तेन चिरं जीवाम्य् अनामयः
न स्तौमि न च निन्दामि क्वचित् किञ्चित् कदाचन । आत्मनो ऽन्यस्य वा साधो तेन जीवाम्य् अनामयः
न तुष्यति शुभप्राप्तौ नाशुभेष्व् अपि खिद्यते । मनो मम समं नित्यं तेन जीवाम्य् अनामयः
परमं त्यागम् आलम्ब्य सर्वम् एव सदैव हि । जीवितादि मया त्यक्तं तेन जीवाम्य् अनामयः
प्रशान्तचापलं वीतशोकम् अस्तसमीहितम् । मनो मम मुने शान्तं तेन जीवाम्य् अनामयः
काष्ठं विलासिनीं शैलं तृणम् अग्निं हिमं नभः । समं सर्वत्र पश्यामि तेन जीवाम्य् अनामयः
किम् अद्य मम सम्प्राप्तं प्रातर् वा भविता पुनः । इति चिन्ताज्वरो नास्ति तेन जीवाम्य् अनामयः
जरामरणदुःखेषु राज्यलाभसुखेषु च । न बिभेमि न हृष्यामि तेन जीवाम्य् अनामयः
अयं बन्धुः परश् चायं ममायम् अयम् अन्यतः । इति ब्रह्मन् न जानामि तेन जीवाम्य् अनामयः
आहरन् विहरंस् तिष्ठन्न् उत्तिष्ठन्न् उच्छ्वसन् स्वपन् । देहो ऽहम् इति नो वेद्मि तेन जीवाम्य् अनामयः
इमं संसारम् आरम्भं सुषुप्तवद् अवस्थितः । असन्तम् इव पश्यामि तेन जीवाम्य् अनामयः
यथाकालम् उपायाताव् अर्थानर्थौ समौ मम । हस्ताव् इव शरीरस्थौ तेन जीवाम्य् अनामयः