प्राण एवार्कतां याति सबाह्याभ्यन्तरे ऽम्बरे । आप्यायनकरीं पश्चाच् छशिताम् अधिगच्छति
प्राण एवेन्दुतां त्यक्त्वा शरीराप्यायकारिणीम् । क्षणाद् आयाति सूर्यत्वं संशोषणकरं परम्
अर्कतां सम्परित्यज्य न यावच् चन्द्रतां गतः । प्राणस् तावद् विचार्यान्तर् देशकालौ न शोच्यते
हृदि चन्द्रार्कयोर् ज्ञात्वा नित्यम् अस्तमयोदयम् । आत्मनो निजम् आधारं न भूयो जायते मनः
सोदयास्तमयं सेन्दुं सरश्मिं ससमागमम् । हृदये भास्करं देवं यः पश्यति स पश्यति
नाक्षीणं न परिक्षीणं बहिस्स्थं सिद्धये तमः । हार्दं तु क्षपयेद् ध्वान्तं यत्क्षये सिद्धिर् उत्तमा
बाह्ये तमसि सङ्क्षीणे लोकालोकः प्रजायते । हार्दे तु तमसि क्षीणे स्वालोको जायते परः
हार्दान्धकारक्षयदं परिज्ञातं विमुक्तिदम् । सोदयास्तमयं यत्नात् प्राणार्कम् अवलोकयेत्
अपानेन्दुः प्रयात्य् अस्तं यत्र हृत्पद्मकोटरे । पदात् तस्माद् उदेत्य् अन्तः प्राणार्को बहिरुन्मुखः
अपाने ऽस्तङ्गते प्राणस् समुदेति हृदम्बुजात् । छायायां गलिताङ्गायां तत्रैवाशु यथातपः
प्राणे त्व् अस्तङ्गते बाह्याद् अपानः प्रोदयेत् क्षणात् । आतपे परितो नष्टे छायेवाशु पदे नवा
प्राणजन्मावनौ नष्टम् अपानं विद्धि सन्मते । अपानजन्मभूमौ च प्राणं नष्टम् अवैहि हि
अस्तङ्गतवति प्राणे त्व् अपाने ऽभ्युदयोन्मुखे । बहिःकुम्भकम् आलम्ब्य चिरं भूयो न शोच्यते
अपाने ऽस्तङ्गते प्राणे किञ्चिद् अभ्युदयोन्मुखे । अन्तःकुम्भकम् आलम्ब्य चिरं भूयो न शोच्यते
प्राणरेचकमूलस्थम् अपानापूरकोटिगम् । स्वस्थं कुम्भकम् अभ्यस्य न भूयः परितप्यते
अपानरेचकाधारं प्राणपूरान्तसंस्थितम् । स्वसंस्थं कुम्भकं दृष्ट्वा न भूयः परितप्यते
प्राणापानाव् उभाव् अन्तर् यत्रैतौ विलयं गतौ । तद् आलम्ब्य पदं शान्तम् आत्मना नानुतप्यते
प्राणभक्ष्योन्मुखापानं देशं कालं च निष्कलम् । विचार्य बहिर् अन्तर् वा न भूयः परिशोच्यते
अपानभक्षणपरं प्राणं हृदि तथा बहिः । देशं कालं च सम्प्रेक्ष्य न भूयो जायते मनः
यत्र प्राणो ह्य् अपानेन प्राणेनापान एव च । निगीर्णो बहिर् अन्तश् च देशौ कालौ च पश्य तौ
क्षणम् अस्तङ्गतप्राणम् अपानोदयवर्जितम् । अयत्नसिद्धं बाह्यस्थं कुम्भकं तत् पदं विदुः
क्षणम् अस्तङ्गतापानः प्राणोदयविवर्जितः । अयत्नसिद्धो ह्य् अन्तस्स्थः कुम्भकः परमं पदम्
एतत् तद् आत्मनो रूपं शुद्धैषा सा परैव चित् । एतत् सद् असदाभासम् एतत् प्राप्य न शोच्यते
पुष्पस्यान्तर् इवामोदं प्राणस्यान्तर् अवस्थितम् । न च प्राणं न चापानं चिदात्मानम् उपास्महे
प्राणक्षयपदान्तस्थम् अपानक्षयकोटिगम् । अपानप्राणयोर् मध्यं चिदात्मानम् उपास्महे
प्राणस्य प्राणनं प्रोच्चैः परं जीवस्य जीवितम् । देहस्य धारणं धुर्यं चिदात्मानम् उपास्महे
यस्मिन् सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः । यश् च सर्वमयो नित्यं चिदात्मानम् उपास्महे
आलोकालोकनं पुण्यं सर्वपावनपावनम् । भावाभावनम् अन्यूनं चिदात्मनम् उपास्महे
परस्परोपसङ्घट्टे हृदये मरुतोस् स्थितम् । बहिर् अन्तस् तथाकाशे चिदात्मनम् उपास्महे
अपानो ऽस्तङ्गतो यत्र प्राणो नाभ्युदितः क्षणम् । कलाकलङ्करहितं तच् चित्तत्त्वम् उपास्महे