बाह्यात् परापतत्य् अन्तर् अपाने यत्नवर्जितम् । यो ऽङ्गप्रपूरणे स्पर्शो विदुस् तम् अपि पूरकम्
अपाने ऽस्तङ्गते प्राणो यावन् नाभ्युदितो हृदि । तावत् सा कुम्भकावस्था योगिभिर् यानुभूयते
पूरकः कुम्भकश् चैव रेचकश् च द्विधा स्थितः । अपानस्योदयस्थाने द्वादशान्ताभिधे बहिः
स्वभावात् सर्वकालस्थास् सोम्या यत्नविवर्जिताः । ये प्रोक्तास् स्फारमतिभिस् तांस् त्वं शृणु महामते
द्वादशाङ्गुलपर्यन्ताद् बाह्याद् अभ्युदितः प्रभो । अपानस् तस्य तत्रैव स्वभावात् पूरकादयः
मृदन्तरस्थानिष्पन्नघटवद् या स्थितिर् बहिः । व्योम्नि नित्यम् अपानस्य तं विदुः कुम्भकं बुधाः
बाह्योन्मुखत्वं वायोर् या नासिकाग्रावधिर् गतिः । तं बाह्यपूरकं त्व् आद्यं विदुर् योगविदो जनाः
नासाग्राद् अपि निर्गत्य द्वादशान्तावधिर् गतिः । या वायोस् तं विदुर् धीरा अपरं बाह्यपूरकम्
अत्रैवास्तङ्गते प्राणे यावन् नापान उद्गतः । तावत् पूर्णां समावस्थां बहिस्स्थं कुम्भकं विदुः
यत् तदन्तर्मुखत्वं स्याद् अपानस्योदयं विना । तं बाह्यरेचकं विद्याच् चिन्त्यमानं विमुक्तिदम्
द्वादशान्ताद् यद् उत्थाय रूपपीवरता परा । अपानस्य बहिस् तत् तम् अपरं रेचकं विदुः
बाह्यान् आभ्यन्तरांश् चैतान् कुम्भकादीन् अनारतम् । प्राणापानस्वभावान् स्वान् बुद्ध्वा भूयो न जायते
अष्टाव् एते महाबुद्धे रात्रिन्दिवम् अनुस्मृताः । स्वभावाद् एव वायूनां कथिता मुक्तिदा मया
गच्छतस् तिष्ठतो वापि जाग्रतस् स्वपतो ऽपि वा । एते न रोधम् आयान्ति प्रकृत्या हि चलो ऽनिलः
यत् करोति यद् अश्नाति बुद्ध्यैतान् समनुस्मरन् । कुम्भकादीन् नरस् सो ऽन्तस् तत्र कर्ता न किञ्चन
सुव्यग्रम् अस्मिन् व्यापारे बाह्यं परिजहन् मनः । दिनैः कतिपयैर् एव पदम् आप्नोति केवलम्
एतद् अभ्यस्यतः पुंसो बाह्ये विषयवृत्तिषु । न बध्नाति रतिं चेतश् श्वदृतौ ब्राह्मणो यथा
एतां दृष्टिम् अवष्टभ्य ये स्थिताः कृतबुद्धयः । प्राप्तं प्राप्तव्यम् अखिलं तैर् अखिन्नास् त एव हि
तिष्ठता गच्छता नित्यं जाग्रता स्वपता तथा । एषा चेत् प्रेक्ष्यते दृष्टिस् तन् न बन्धनम् आप्यते
प्राणापानानुसरणात् प्राप्ते बोधे निरामये । संशान्तमदमोहेन स्वस्थेनान्तर् इहोष्यते
सर्वारम्भांस् त्यजन् स्वस्थः कुर्वंश् चापि बुधो जनः । प्राणापानगतीः प्राप्य सुस्वस्थस् सुखम् एधते
प्राणस्याभ्युदयो ब्रह्मन् पद्मयन्त्राद् धृदि स्थितात् । द्वादशाङ्गुलपर्यन्ते प्राणो ऽस्तं यात्य् अयं बहिः
अपानस्योदयो बाह्याद् द्वादशान्तान् महामुने । अस्तङ्गतिर् अथाम्भोजयन्त्रे हृदयसंस्थिते
प्राणो यत्रास्तम् आयाति द्वादशान्ते नभःपदे । पदात् तस्माद् अपानो ऽयम् उदेति समनन्तरम्
बाह्याकाशोन्मुखः प्राणो वहत्य् अग्निशिखा यथा । हृदाकाशोन्मुखो ऽपानो निम्ने वहति वारिवत्
अपानश् चन्द्रमा देहम् आप्याययति बाह्यतः । प्राणस् सूर्यो ऽग्निर् अथ वा पचत्य् अन्तर् इदं वपुः
प्राणो हि हृदयाकाशं तापयित्वा प्रतिक्षणम् । मुखाग्रगगनं पश्चात् तापयत्य् उत्तमो रविः
अपानेन्दुर् मुखाग्रे खं प्याययित्वा हृदम्बरम् । पश्चाद् आप्याययत्य् एष निमेषसमनन्तरम्
अपानशशिनो ऽन्तस्स्थाः कलाः प्राणविवस्वता । यत्र ग्रस्तास् तद् आसाद्य पदं भूयो न शोच्यते
प्राणार्कस्य कलान्तस्स्था यत्रापानहिमांशुना । ग्रस्ता तत् पदम् आसाद्य न भूयो जन्मभाङ् मनः