प्राणापानसमानाद्यैस् ततस् स हृदयानिलः । सङ्केतैः प्रोच्यते तज्ज्ञैर् विचित्राचारचेष्टितः
हृत्पद्मयन्त्रकुहरात् समस्ताः प्राणशक्तयः । ऊर्ध्वाधः प्रसृता देहे चन्द्रबिम्बाद् इवांशवः
यान्त्य् आयान्ति विवल्गन्ति हरन्ति विहरन्ति च । उत्पतन्ति पतन्त्य् आशु ता एताः प्राणशक्तयः
स एष हृत्पद्मगतः प्राण इत्य् उच्यते बुधैः । अस्य काचिन् मुने शक्तिः प्रस्पन्दयति लोचने
काचित् स्पर्शम् उपादत्ते काचिद् वहति नासया । काचिद् अन्नं जरयति काचिद् वक्ति वचांसि च
बहुनात्र किम् उक्तेन सर्वम् एव शरीरके । करोति भगवान् वायुर् यन्त्रेहाम् इव यान्त्रिकः
तत्रोर्ध्वाधो द्विसङ्केतौ प्रसृताव् अनिलौ मुने । प्राणापानाव् इति ख्यातौ प्रकटौ तौ वरानिलौ
तयोर् अनुसरन् नित्यं मुने गतिम् अहं स्थितः । शीतोष्णवपुषोर् नित्यं नित्यम् अम्बरपान्थयोः
कलेवरमहायन्त्रे वाहयोश् श्रमहीनयोः । हृदाकाशार्कशशिनोर् अग्नीषोमस्वरूपयोः
शरीरपुरपालस्य मनसो रथचक्रयोः । अहङ्कारेश्वरस्यास्य प्रशस्तेष्टतुरङ्गयोः
तयोर् ममानुसरतः प्राणापानाभिधानयोः । गतिं शरीरमरुतोर् आशरीरम् अरुद्धयोः
जाग्रत्स्वप्नसुषुप्तेषु सदैव समरूपयोः । सुषुप्तसंस्थितस्येव ब्रह्मन् गच्छन्ति वासराः
सहस्रधा निकृत्ताङ्गाद् बिसतन्तुलवाद् अपि । दुर्लक्ष्या विद्यमाना च गतिस् सूक्ष्मतरा तयोः
अविरतगतयोर् गतिं विदित्वा हृदि मरुतोर् अनुसृत्य चोदितां ताम् । न पुनर् इह हि जायते महात्मन् मुदितमनाः पुरुषः प्रणष्टपाशः
जानन्न् अपि मुने सर्वं किं मां पृच्छसि लीलया । यथापृष्टम् अहं वच्मि तत्रापि शृणु मे वचः
प्राणो ऽयम् अनिशं ब्रह्मन् स्पन्दशक्तिस् सदागतिः । सबाह्याभ्यन्तरे देहे प्राणो ऽयम् उपरि स्थितः
अपानो ऽप्य् अनिशं ब्रह्मन् स्पन्दशक्तिस् सदागतिः । सबाह्याभ्यन्तरे देहे त्व् अपानो ऽयम् अवाक् स्थितः
जाग्रतस् स्वपतश् चैव प्राणायामो ऽयम् उत्तमः । प्रवर्तते यस् तज्ज्ञस्य तं तावच् छ्रेयसे शृणु
बाह्योन्मुखत्वं प्राणानां यद् धृदम्भोजकोटरात् । स्वैरम् एवात्तयत्नानां तं धीरा रेचकं विदुः
द्वादशाङ्गुलपर्यन्तं बाह्यम् आक्रमतां हृदः । प्राणानाम् अङ्गसंस्पर्शो यस् स पूरक उच्यते
बाह्यात् परापतत्य् अन्तर् अपाने यत्नवर्जितम् । यो ऽङ्गप्रपूरणे स्पर्शो विदुस् तम् अपि पूरकम्
अपाने ऽस्तङ्गते प्राणो यावन् नाभ्युदितो हृदि । तावत् सा कुम्भकावस्था योगिभिर् यानुभूयते
पूरकः कुम्भकश् चैव रेचकश् च द्विधा स्थितः । अपानस्योदयस्थाने द्वादशान्ताभिधे बहिः
स्वभावात् सर्वकालस्थास् सोम्या यत्नविवर्जिताः । ये प्रोक्तास् स्फारमतिभिस् तांस् त्वं शृणु महामते
द्वादशाङ्गुलपर्यन्ताद् बाह्याद् अभ्युदितः प्रभो । अपानस् तस्य तत्रैव स्वभावात् पूरकादयः
मृदन्तरस्थानिष्पन्नघटवद् या स्थितिर् बहिः । व्योम्नि नित्यम् अपानस्य तं विदुः कुम्भकं बुधाः
बाह्योन्मुखत्वं वायोर् या नासिकाग्रावधिर् गतिः । तं बाह्यपूरकं त्व् आद्यं विदुर् योगविदो जनाः
नासाग्राद् अपि निर्गत्य द्वादशान्तावधिर् गतिः । या वायोस् तं विदुर् धीरा अपरं बाह्यपूरकम्
अत्रैवास्तङ्गते प्राणे यावन् नापान उद्गतः । तावत् पूर्णां समावस्थां बहिस्स्थं कुम्भकं विदुः
यत् तदन्तर्मुखत्वं स्याद् अपानस्योदयं विना । तं बाह्यरेचकं विद्याच् चिन्त्यमानं विमुक्तिदम्