हृत्क्षीरोदकसस्पन्दमन्दरेषु चलेष्व् अति । स्वसङ्कल्पविकल्पेषु न किञ्चित् सुस्थिरं शुभम्
अनारतागमापायपरास्व् अशिशिरास्व् अति । चित्राचारासु चेष्टासु न किञ्चित् सुस्थिरं शुभम्
न वरम् एकमहीतलराजता न च वरं विविधामररूपता । न च वरं धरणीतलनागता स्थितिम् उपैति हि यत्र सतां मनः
न वरम् आकुलशास्त्रविचारणं न च वरं वरकाव्यविवेचनम् । न वरम् अग्र्यकथाक्रमचर्वणं स्थितिम् उपैति हि यत्र सतां मनः
न वरम् आधिमयं चिरजीवितं न च वरं मरणं दृढमूढता । न च वरं नरको न च विष्टपं स्थितिम् उपैति हि यत्र सतां मनः
इति विविधजगत्क्रमास् समस्ताश् चलमतिमूढतया नरस्य रूढाः । चलतरकलनाहिते पदार्थे कथम् उपयान्ति चिरं स्थितिं महान्तः
एकैव केवलं दृष्टिर् अनपाया गतभ्रमा । विद्यते सर्वविच्छ्रेष्ठ सर्वश्रेष्ठा समुन्नता
आत्मचिन्ता समस्तानां दुःखानाम् अन्तकारिणी । चिरसम्भृतसन्तप्तसंसारश्रमहारिणी । निष्कलङ्कमनोमार्गविपुलाङ्गनचारिणी
तया समस्तदुःखानां सत्तानर्थविलासिनाम् । ज्योत्स्नयेवान्धकाराणाम् अलम् अन्तः प्रजायते
सा स्वात्मचिन्ता भगवन् सर्वसङ्कल्पवर्जिता । युष्मदादिषु सुप्रापा दुष्प्रापैवास्मदादिषु
समस्तकलनातीतं परां कोटिम् उपाश्रितम् । पदम् आसादयन्त्व् एतत् कथं सामान्यबुद्धयः
आत्मचिन्ताविलासिन्यस् त्व् अस्यास् सख्यो महामते । किञ्चित् साम्यम् उपायाता विद्यन्ते शशिशीतलाः
आत्मचिन्तासमानानां विविधानां मुनीश्वर । आत्मचिन्तावयस्यानां मध्याद् एकतमा मया
सर्वदुःखक्षयकरी सर्वसौभाग्यवर्धिनी । कारणं जीवितस्येयं प्राणचिन्ता समाश्रिता
इत्य् उक्तवन्तं विहगं भुसुण्डं पुनर् अप्य् अहम् । जानन्न् अपीदम् अव्यग्रः पृष्टवान् क्रीडया पुनः
सर्वसंशयविच्छेदिन्न् अत्यन्तचिरजीवित । यथार्थं ब्रूहि मे साधो प्राणचिन्ता किम् उच्यते
सर्ववेदान्तवेत्तासि सर्वसंशयनाशकः । माम् एतत् परिहासार्थं मुने पृच्छसि वायसम्
अथ वा भवताम् एव भवद्भ्यः परिशिक्षितम् । पुनः प्रत्युच्चरामीदं का मे क्षतिर् उपस्थिता
भुसुण्डजीवितकरं भुसुण्डस्यात्मलाभदम् । शृणु प्राणसमाधानं कथ्यमानम् इदं मया
पश्येदं भगवंस् तावद् देहगेहं मनोरमम् । त्रिप्रधानमहास्थूणं नवद्वारसमावृतम्
पुर्यष्टककलत्रेण तन्मात्रस्वजनेन च । अहङ्कारगृहस्थेन सर्वतः परिपालितम्
अन्तस्सुषिरसत्कर्णशष्कुलीचन्द्रशालिकम् । शिरोरुहाच्छादनवद् विपुलाक्षगवाक्षकम्
आस्यप्रधानसद्द्वारं भुजपार्श्वोपमन्दिरं । दन्तालिकेतकस्रग्भिर् भूषितद्वारकोटरं
अनारतरटद्रूपरसनाद्वारपालकम् । अङ्गुलीलोकवलितपादालिन्दकृतस्थिति
रक्तमांसरसादिग्धस्नायुसन्ततिवेष्टितम् । स्थूलास्थिकाष्ठसद्बन्धं सुकुड्यं सुप्रमार्जितम्
ईदृशस्यास्य देहस्य गेहस्य मुनिनायक । सुषिरे कोमले मध्ये पार्शुकाभित्तिमालिते
पद्मयुग्ममयं यन्त्रम् अस्थिमांसमयं मृदु । ऊर्ध्वाधोनालम् अन्योऽन्यमिलत्कोशं लसद्दलम्
सततस्पन्दरूपेण सकलाकाशचारिणा । तस्य यन्त्रस्य पत्त्राणि मृदून्य् आत्तानि वायुना
लसत्सु तेषु पत्त्रेषु स मरुत् परिवर्धते । वाताहतलतापत्त्रजाले बहिर् इवाभितः
वृद्धिं गतो ऽसौ पवनः कृत्वात्मानम् अनेकधा । ऊर्ध्वाधो दिक्षु चान्यासु देहे ऽस्मिन् प्रसरत्य् अथ