एते ब्रह्मन् महादोषास् संसारव्याधिहेतवः । मनाग् अपि न लुम्पन्ति चित्तम् एकसमाहितम्
आधिव्याधिसमुत्थानि वलितानि महाभ्रमैः । न विलुम्पन्ति दुःखानि चित्तम् एकसमाहितम्
न दादति न चादत्ते न जहाति न याचते । कुर्वद् एव च कार्याणि चित्तम् एकसमाहितम्
नास्तम् एति न चोदेति नसंस्मृति नविस्मृति । न सुप्तं न च जाग्रत्स्थं चित्तम् एकसमाहितम्
अन्धीकृतहृदाकाशाः कामक्रोधविकारजाः । चिन्ता न परिहिंसन्ति चित्तम् एकसमाहितम्
ये दुरर्था दुरारम्भा दुर्गुणा दुरुदाहृताः । दुष्क्रमास् ते न कृन्तन्ति चित्तम् एकसमाहितम्
शुभानि विपुलार्थानि महान्ति गुणवन्ति च । सर्वाण्य् एवानुधावन्ति चित्तम् एकसमाहितम्
यद् उदर्कहितं सत्यम् अनपायि गतभ्रमम् । दुरीहितदशामुक्तं तत्परं कारयेन् मनः
यद् अदृष्टम् अशुद्धेन चिरवैधुर्यकारिणा । मुने कामपिशाचेन तत्परं कारयेन् मनः
आदौ मध्ये तथान्ते च चिराय परि चोदितम् । यच् चारु मधुरं पथ्यं तत्परं कारयेन् मनः
यद् अनर्थदशाहीनं निर्णीतं सद्भिर् आदितः । गुणानुबन्धि लोक्यं च तत्परं कारयेन् मनः
पेशलं मधुरं हृद्यं स्वादु शीतम् अपक्षयम् । सुतीक्ष्णम् अतिनिर्णीतं तत्परं कारयेन् मनः
यद् बुद्धेः परम् आलोक्यम् आद्यं यद् अमृतं परम् । यद् अनुत्तमसौभाग्यं तत्परं कारयेन् मनः
सामरे सहगन्धर्वे सविद्याधरकिन्नरे । ससुरस्त्रीगणे स्वर्गे न किञ्चित् सुस्थिरं शुभम्
सनरे सनराधीशे सपर्वतपुरव्रजे । साम्बुधौ भूतले तात न किञ्चिच् छोभनं स्थिरम्
सनागे सासुरव्यूहे सासुरस्त्रीजने तथा । समस्त एव पाताले न किञ्चिच् छोभनं स्थिरम्
सस्वर्गे सधराभोगे सपाताले सदिक्तटे । जगत्य् अस्मिंस् तु सर्वस्मिन् न किञ्चिच् छोभनं स्थिरम्
समुखे सकरे सांसे सपादे सोरुमण्डले । सरक्तमांसे देहे ऽस्मिन् न किञ्चिच् छोभनं स्थिरम्
आधिव्याधिविलोलासु दुःखौघवलितासु च । क्रियासु नित्यतुच्छासु न किञ्चिच् छोभनं स्थिरम्
तरलीकृतचित्तासु हृदयामर्दनीषु च । चिन्तासु जीवकारासु न किञ्चित् सुस्थिरं शुभम्
हृत्क्षीरोदकसस्पन्दमन्दरेषु चलेष्व् अति । स्वसङ्कल्पविकल्पेषु न किञ्चित् सुस्थिरं शुभम्
अनारतागमापायपरास्व् अशिशिरास्व् अति । चित्राचारासु चेष्टासु न किञ्चित् सुस्थिरं शुभम्
न वरम् एकमहीतलराजता न च वरं विविधामररूपता । न च वरं धरणीतलनागता स्थितिम् उपैति हि यत्र सतां मनः
न वरम् आकुलशास्त्रविचारणं न च वरं वरकाव्यविवेचनम् । न वरम् अग्र्यकथाक्रमचर्वणं स्थितिम् उपैति हि यत्र सतां मनः
न वरम् आधिमयं चिरजीवितं न च वरं मरणं दृढमूढता । न च वरं नरको न च विष्टपं स्थितिम् उपैति हि यत्र सतां मनः
इति विविधजगत्क्रमास् समस्ताश् चलमतिमूढतया नरस्य रूढाः । चलतरकलनाहिते पदार्थे कथम् उपयान्ति चिरं स्थितिं महान्तः
एकैव केवलं दृष्टिर् अनपाया गतभ्रमा । विद्यते सर्वविच्छ्रेष्ठ सर्वश्रेष्ठा समुन्नता
आत्मचिन्ता समस्तानां दुःखानाम् अन्तकारिणी । चिरसम्भृतसन्तप्तसंसारश्रमहारिणी । निष्कलङ्कमनोमार्गविपुलाङ्गनचारिणी
तया समस्तदुःखानां सत्तानर्थविलासिनाम् । ज्योत्स्नयेवान्धकाराणाम् अलम् अन्तः प्रजायते
सा स्वात्मचिन्ता भगवन् सर्वसङ्कल्पवर्जिता । युष्मदादिषु सुप्रापा दुष्प्रापैवास्मदादिषु