एकैकदेहसंस्थाननीतब्रह्मनिशागमः । ध्यानान्ते खस्थ एवैतत् सर्गम् आलोक्य वेद्म्य् अहम्
अर्कादेर् ऋक्षसञ्चारान् मेर्वादेस् स्थानकाद् दिशाम् । संस्थानम् अन्यथा तस्मिन् स्थिते यान्ति दिशो ऽन्यथा
न सन् नासज् जगन् मन्ये भ्रमो ऽयं केवलं धियः । आत्मस्पन्दचमत्कारविभवो ऽयं विजृम्भते
पुत्रः पितृत्वम् आयातो मित्राणि त्व् अरितां तथा । स्त्रीत्वं च शतशो यातान् पुंसश् चैव स्मराम्य् अहम्
कलौ कृतयुगाचारान् कृते कलियुगस्थितीः । त्रेतायां द्वापरे चैव संस्मरामि मुनीश्वर
अदृष्टवेदवेदार्थान् स्वसङ्केतविहारिणः । सर्गान् निरर्गलाचारान् क्वचित् कांश्चित् स्मराम्य् अहम्
ध्यातरि ब्रह्मणि ब्रह्मन् ससुरासुरमानुषम् । चतुर्युगसहस्रे द्वे जगच् छून्यं स्मराम्य् अहम्
विचित्रसंस्थानविशेषदेशान् विचित्रकार्याकुलभूतकोशान् । विचित्रविन्यासविलासवेषान् स्मराम्य् अहं ब्रह्मदिनेष्व् अशेषान्
अथासौ वायसश्रेष्ठो जिज्ञासार्थम् इदं मया । भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रखे
चरतां जगतः कोशे व्यवहारवताम् अपि । कथं विहगराजेन्द्र देहं मृत्युर् न बाधते
जानन्न् अपि हि सर्वज्ञ ब्रह्मञ् जिज्ञासयैव माम् । पृच्छसि प्रभवो नित्यं भृत्यं वाचालयन्ति हि
तथापि यत् पृच्छसि मां तत् ते प्रकथयाम्य् अहम् । अनाज्ञाभङ्गम् एवाहुर् मुख्यम् आराधनं सताम्
दोषमुक्ताफलप्रोता वासनातन्तुसन्ततिः । हृदि न ग्रथिता यस्य मृत्युस् तं न जिघांसति
विश्वासवृक्षक्रकचास् सर्वे देहलताघुणाः । आधयो यं न भिन्दन्ति मृत्युस् तं न जिघांसति
षण्डात् षण्डं निपतितं शाखामृगम् इवोद्धतं । न चञ्चलं मनो यस्य तं मृत्युर् न जिघांसति
शरीरतरुसर्पौघाश् चित्तौर्वशिखिनश् शिखाः । आशा यं न दहन्त्य् अन्तस् तं मृत्युर् न जिघांसति
रागद्वेषविषापूरस् स्वमनोबिलमन्दिरः । लोभव्यालो न भुङ्क्ते यं मृत्युस् तं न जिघांसति
पीताशेषविवेकाम्बुश् शरीराम्भोधिवाडवः । न निर्दहति यं कोपस् तं मृत्युर् न जिघांसति
यन्त्रं तिलानां कठिनं राशिम् उग्रम् इवाकुलम् । यं पीडयति नानङ्गस् तं मृत्युर् न जिघांसति
एकस्मिन् निर्मले येन पदे परमपावने । संश्रिता दृढविश्रान्तिस् तं मृत्युर् न जिघांसति
एते ब्रह्मन् महादोषास् संसारव्याधिहेतवः । मनाग् अपि न लुम्पन्ति चित्तम् एकसमाहितम्
आधिव्याधिसमुत्थानि वलितानि महाभ्रमैः । न विलुम्पन्ति दुःखानि चित्तम् एकसमाहितम्
न दादति न चादत्ते न जहाति न याचते । कुर्वद् एव च कार्याणि चित्तम् एकसमाहितम्
नास्तम् एति न चोदेति नसंस्मृति नविस्मृति । न सुप्तं न च जाग्रत्स्थं चित्तम् एकसमाहितम्
अन्धीकृतहृदाकाशाः कामक्रोधविकारजाः । चिन्ता न परिहिंसन्ति चित्तम् एकसमाहितम्
ये दुरर्था दुरारम्भा दुर्गुणा दुरुदाहृताः । दुष्क्रमास् ते न कृन्तन्ति चित्तम् एकसमाहितम्
शुभानि विपुलार्थानि महान्ति गुणवन्ति च । सर्वाण्य् एवानुधावन्ति चित्तम् एकसमाहितम्
यद् उदर्कहितं सत्यम् अनपायि गतभ्रमम् । दुरीहितदशामुक्तं तत्परं कारयेन् मनः
यद् अदृष्टम् अशुद्धेन चिरवैधुर्यकारिणा । मुने कामपिशाचेन तत्परं कारयेन् मनः
आदौ मध्ये तथान्ते च चिराय परि चोदितम् । यच् चारु मधुरं पथ्यं तत्परं कारयेन् मनः