वाल्मीकिनाम्ना जीवेन तेनैवान्येन चाक्षतम् । एतत् तद् द्वादशं वारं क्रियते विस्मृतिं गतम्
द्वितीयम् एतस्य समं भारतं नाम नामतः । स्मरामि प्राक्तनव्यासकृतं जगति विस्मृतम्
व्यासाभिधेन जीवेन तथैवान्येन चाक्षतम् । एतत् तु सप्तमं वारं क्रियते विस्मृतिं गतम्
आख्यानकानि शास्त्राणि विवृतानि युगं प्रति । विचित्रसन्निवेशानि संस्मरामि मुनीश्वर
पुनस् तान्य् एव तान्य् एव तथान्यानि युगे युगे । साधो पदार्थजालानि प्रपश्यामि स्मरामि च
राक्षसक्षतये विष्णोर् महीम् अवतरिष्यतः । अधुनैकादशं जन्म रामनाम्नो भविष्यति
वसुदेवगृहे विष्णोर् भुवो भारनिवृत्तये । अधुना षोडशं जन्म भविष्यति मुनीश्वर
नारसिंहेन वपुषा हिरण्यकशिपुं हरिः । जघान वारत्रितयं मृगेन्द्र इव वारणम्
जगत्त्रयीभ्रान्तिर् इयं न कदाचिन् न विद्यते । विद्यते न कदाचिच् च जलबुद्बुदवत् स्थिता
दृश्यभ्रान्तिर् अनिष्ठेयम् अन्तस्स्था संविदात्मनि । जायते लीयते चाशु लोला वीचिर् इवाम्भसि
समैकसन्निवेशानि बहूनि विषमाणि च । तथार्धसमरूपाणि त्रिजगन्ति स्मराम्य् अहम्
तान्य् एव तादृक्कर्माणि तथान्याचरणानि च । तत्कर्माणि तथान्यानि भूतानीह स्मराम्य् अहम्
प्रतिमन्वन्तरं ब्रह्मन् विपर्यस्ते जगत्क्रमे । सन्निवेशे ऽन्यथा जाते प्रयाते संस्तुते जने
ममान्यानि च मित्राणि ते ऽन्य एव च बन्धवः । अन्य एव नवा भृत्या अन्य एव समाश्रयाः
कदाचिद् अहम् एकान्ते विन्ध्यमूललताश्रयः । कदाचिन् मेरुशृङ्गाग्रकल्पवृक्षलताश्रयः
कदाचित् सह्यनिलयः कदाचिद् दर्दुरालयः । कदाचिद् धिमवद्वासी कदाचिन् मलयाश्रयः
कदाचित् प्राक्तनेनैव सन्निवेशेन भूधरम् । वनं वृक्षं च शाखां च प्राप्य नीडं करोम्य् अहम्
अद्यानन्तेषु यातेषु युगेषु मुनिनायक । प्राक्तनेनैव जातो ऽयं सन्निवेशेन पादपः
ताते जीवति यैवाभूच् छोभास्य सुतरोस् तया । कृतप्राक्सन्निवेशो ऽयम् अहं स्थितिम् उपागतः
नेहाभूद् उत्तरा पूर्वं ककुम् नायं च भूधरः । दिग् उत्तराभूद् अन्यैव पूर्वं मेरुमहीधरा
एकैकदेहसंस्थाननीतब्रह्मनिशागमः । ध्यानान्ते खस्थ एवैतत् सर्गम् आलोक्य वेद्म्य् अहम्
अर्कादेर् ऋक्षसञ्चारान् मेर्वादेस् स्थानकाद् दिशाम् । संस्थानम् अन्यथा तस्मिन् स्थिते यान्ति दिशो ऽन्यथा
न सन् नासज् जगन् मन्ये भ्रमो ऽयं केवलं धियः । आत्मस्पन्दचमत्कारविभवो ऽयं विजृम्भते
पुत्रः पितृत्वम् आयातो मित्राणि त्व् अरितां तथा । स्त्रीत्वं च शतशो यातान् पुंसश् चैव स्मराम्य् अहम्
कलौ कृतयुगाचारान् कृते कलियुगस्थितीः । त्रेतायां द्वापरे चैव संस्मरामि मुनीश्वर
अदृष्टवेदवेदार्थान् स्वसङ्केतविहारिणः । सर्गान् निरर्गलाचारान् क्वचित् कांश्चित् स्मराम्य् अहम्
ध्यातरि ब्रह्मणि ब्रह्मन् ससुरासुरमानुषम् । चतुर्युगसहस्रे द्वे जगच् छून्यं स्मराम्य् अहम्
विचित्रसंस्थानविशेषदेशान् विचित्रकार्याकुलभूतकोशान् । विचित्रविन्यासविलासवेषान् स्मराम्य् अहं ब्रह्मदिनेष्व् अशेषान्
अथासौ वायसश्रेष्ठो जिज्ञासार्थम् इदं मया । भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रखे
चरतां जगतः कोशे व्यवहारवताम् अपि । कथं विहगराजेन्द्र देहं मृत्युर् न बाधते