निमिन्यङ्कुपृथुप्रोथवैन्यनाभागकेलिषु । नलमान्धातृसगरदिलीपनहुषादिषु
आत्रेयव्यासवाल्मीकिवत्सवात्स्यायनादिषु । उपमन्युमनीमङ्किभगीरथशुकादिषु
अल्पकातीतकालेषु किञ्चिद् दूरेषु केषुचित् । तथाद्यतनसर्गेषु स्मरणे गणनैव का
मुने ते ब्रह्मपुत्रस्य जन्माष्टमम् इदं किल । संस्मराम्य् अष्टमे सर्गे त्व् अस्मिंस् त्वं मम सङ्गतः
कदाचिज् जायसे व्योम्नः कदाचिज् जायसे जलात् । कदाचिज् जायसे शैलात् कदाचिज् जायसे ऽनलात्
यादृशो यादृशाचारो यादृक्संस्थानदिग्गणः । सर्गो ऽयं तादृशान् एव त्रीन् सर्गान् संस्मराम्य् अहम्
एकरूपाखिलाचारसन्निवेशनरामरान् । समकालाखिलस्थैर्यान् दश सर्गान् स्मराम्य् अहम्
अन्तर्धानं गता देवा वारपञ्चकम् उद्धृताः । मुने पञ्चसु सर्गेषु कूर्मा इव पयोनिधेः
मन्दराकर्षणावेगपर्याकुलसुरासुरम् । स्मरामि द्वादशं चेदम् अमृताम्भोधिमन्थनम्
सर्वौषधिरसोपेतां बलिं ग्राहस् तटाद् इव । वारत्रयं हिरण्याक्षो नीतवान् वसुधाम् अधः
रेणुकात्मजतां गत्वा षष्ठं वारम् इमं हरिः । बहुसर्गान्तरेणापि चकार क्षत्रियक्षयम्
शतं कलियुगानां च हरेर् बुद्धदशाशतम् । शाक्यराजतयैवाप्तं स्मरामि मुनिनायक
त्रिंशत्त्रिपुरविक्षोभान् द्वौ दक्षाध्वरसङ्क्षयौ । दश शुक्रविघातांश् च चन्द्रमौलेस् स्मराम्य् अहम्
बाणार्थम् अष्टौ सङ्ग्रामाज् ज्वरप्रमथनायकान् । विक्षोभितसुरानीकान् स्मरामि हरिशर्वयोः
युगं प्रति धियां पुंसाम् ऊनाधिकतया मुने । क्रियाङ्गपाठवैचित्र्ययुक्तान् वेदान् स्मराम्य् अहम्
एकाग्राणि समग्राणि बहुपाठानि मे ऽनघ । पुराणानि प्रवर्तन्ते विवृतानि युगं प्रति
पुनस् तान् एव तान् एवम् अन्यान् अपि युगे युगे । देवर्षिविप्ररचितान् इतिहासान् स्मराम्य् अहम्
इतिहासं महाश्चर्यम् अन्यं रामायणाभिधम् । ग्रन्थलक्षप्रमाणं सज् ज्ञानशास्त्रं स्मराम्य् अहम्
रामवद् व्यवहर्तव्यं न रावणविलासवत् । इति यत्र धिया ज्ञानं हस्ते फलम् इवार्पितम्
कृतं वाल्मीकिना चैतद् अधुना च करिष्यति । अद्य त्व् अप्रकटं लोके स्थितं ज्ञास्यति कालतः
वाल्मीकिनाम्ना जीवेन तेनैवान्येन चाक्षतम् । एतत् तद् द्वादशं वारं क्रियते विस्मृतिं गतम्
द्वितीयम् एतस्य समं भारतं नाम नामतः । स्मरामि प्राक्तनव्यासकृतं जगति विस्मृतम्
व्यासाभिधेन जीवेन तथैवान्येन चाक्षतम् । एतत् तु सप्तमं वारं क्रियते विस्मृतिं गतम्
आख्यानकानि शास्त्राणि विवृतानि युगं प्रति । विचित्रसन्निवेशानि संस्मरामि मुनीश्वर
पुनस् तान्य् एव तान्य् एव तथान्यानि युगे युगे । साधो पदार्थजालानि प्रपश्यामि स्मरामि च
राक्षसक्षतये विष्णोर् महीम् अवतरिष्यतः । अधुनैकादशं जन्म रामनाम्नो भविष्यति
वसुदेवगृहे विष्णोर् भुवो भारनिवृत्तये । अधुना षोडशं जन्म भविष्यति मुनीश्वर
नारसिंहेन वपुषा हिरण्यकशिपुं हरिः । जघान वारत्रितयं मृगेन्द्र इव वारणम्
जगत्त्रयीभ्रान्तिर् इयं न कदाचिन् न विद्यते । विद्यते न कदाचिच् च जलबुद्बुदवत् स्थिता
दृश्यभ्रान्तिर् अनिष्ठेयम् अन्तस्स्था संविदात्मनि । जायते लीयते चाशु लोला वीचिर् इवाम्भसि