कुलपर्वतसंस्थानं जम्बुद्वीपे पृथक्स्थितिम् । वर्णधर्मधियं सृष्टिविभागं मण्डलावलेः
ऋक्षचक्रकसंस्थानं ध्रुवनिर्माणम् एव च । जन्मेन्दुभास्करादीनाम् इन्द्रोपेन्द्रव्यवस्थितिः
हिरण्याक्षापहरणं वराहोद्धरणं क्षितेः । कल्पनं पार्थिवानां च वेदानयनम् एव च
मन्दरोद्धूननं चाब्धेर् अमृतार्थे च मन्थनम् । अजातपक्षो गरुडस् सागराणां च सम्भवः
इत्यादिका यास् स्मृतयस् स्वल्पातीतमनुक्रमाः । बालैर् अपि हि तास् तात स्मर्यन्ते तासु किं ग्रहः
गरुडवाहनम् अगरुडवाहनं सितविवाहनम् असितविवाहनम् । सुवृषवाहनम् असुवृषवाहनं कलितवान् अहम् अकलितजीवितः
ततो जगति जातेषु भगवन् युष्मदादिषु । भरद्वाजपुलस्त्यात्रिनारदेन्द्रमरीचिषु
पुलहोद्दालकाद्येषु क्रतुभृग्वङ्गिरस्सु च । सनत्कुमारभृङ्गीशस्कन्देभवदनादिषु
गौरीसरस्वतीलक्ष्मीगायत्र्याद्यासु भूरिषु । मेरुमन्दरकैलासहिमवद्दर्दुरादिषु
हयग्रीवहिरण्याक्षकालनेमिबलादिषु । हिरण्यकशिपुक्राथबडिप्रह्लादकादिषु
निमिन्यङ्कुपृथुप्रोथवैन्यनाभागकेलिषु । नलमान्धातृसगरदिलीपनहुषादिषु
आत्रेयव्यासवाल्मीकिवत्सवात्स्यायनादिषु । उपमन्युमनीमङ्किभगीरथशुकादिषु
अल्पकातीतकालेषु किञ्चिद् दूरेषु केषुचित् । तथाद्यतनसर्गेषु स्मरणे गणनैव का
मुने ते ब्रह्मपुत्रस्य जन्माष्टमम् इदं किल । संस्मराम्य् अष्टमे सर्गे त्व् अस्मिंस् त्वं मम सङ्गतः
कदाचिज् जायसे व्योम्नः कदाचिज् जायसे जलात् । कदाचिज् जायसे शैलात् कदाचिज् जायसे ऽनलात्
यादृशो यादृशाचारो यादृक्संस्थानदिग्गणः । सर्गो ऽयं तादृशान् एव त्रीन् सर्गान् संस्मराम्य् अहम्
एकरूपाखिलाचारसन्निवेशनरामरान् । समकालाखिलस्थैर्यान् दश सर्गान् स्मराम्य् अहम्
अन्तर्धानं गता देवा वारपञ्चकम् उद्धृताः । मुने पञ्चसु सर्गेषु कूर्मा इव पयोनिधेः
मन्दराकर्षणावेगपर्याकुलसुरासुरम् । स्मरामि द्वादशं चेदम् अमृताम्भोधिमन्थनम्
सर्वौषधिरसोपेतां बलिं ग्राहस् तटाद् इव । वारत्रयं हिरण्याक्षो नीतवान् वसुधाम् अधः
रेणुकात्मजतां गत्वा षष्ठं वारम् इमं हरिः । बहुसर्गान्तरेणापि चकार क्षत्रियक्षयम्
शतं कलियुगानां च हरेर् बुद्धदशाशतम् । शाक्यराजतयैवाप्तं स्मरामि मुनिनायक
त्रिंशत्त्रिपुरविक्षोभान् द्वौ दक्षाध्वरसङ्क्षयौ । दश शुक्रविघातांश् च चन्द्रमौलेस् स्मराम्य् अहम्
बाणार्थम् अष्टौ सङ्ग्रामाज् ज्वरप्रमथनायकान् । विक्षोभितसुरानीकान् स्मरामि हरिशर्वयोः
युगं प्रति धियां पुंसाम् ऊनाधिकतया मुने । क्रियाङ्गपाठवैचित्र्ययुक्तान् वेदान् स्मराम्य् अहम्
एकाग्राणि समग्राणि बहुपाठानि मे ऽनघ । पुराणानि प्रवर्तन्ते विवृतानि युगं प्रति
पुनस् तान् एव तान् एवम् अन्यान् अपि युगे युगे । देवर्षिविप्ररचितान् इतिहासान् स्मराम्य् अहम्
इतिहासं महाश्चर्यम् अन्यं रामायणाभिधम् । ग्रन्थलक्षप्रमाणं सज् ज्ञानशास्त्रं स्मराम्य् अहम्
रामवद् व्यवहर्तव्यं न रावणविलासवत् । इति यत्र धिया ज्ञानं हस्ते फलम् इवार्पितम्
कृतं वाल्मीकिना चैतद् अधुना च करिष्यति । अद्य त्व् अप्रकटं लोके स्थितं ज्ञास्यति कालतः