दशवर्षसहस्राणि दशवर्षशतानि च । भस्मभारभरापूर्णां स्मरामीमां धराम् अधः
अनुत्पन्नदिनाधीशाम् अजातशशिमण्डलाम् । अविभक्तदिनालोकां संस्मरामि धराम् अधः
मेरुरत्नतटोद्द्योतैर् अर्धप्रकटकोटरम् । लोकालोकम् इवाद्याद्रिं भुवनं संस्मराम्य् अहम्
प्रवृद्धासुरसङ्ग्रामे म्रियमाणान् नरान् इव । पलायमानान् अभितस् संस्मरामि सुरान् अहम्
चतुर्युगानि पञ्चाशद् असुरैर् मत्तकाशिभिः । दैत्यान्तःपुरतां प्राप्तां संस्मरामि धराम् इमाम्
अत्यन्तान्तरितान्तान्तसमस्तासुरमण्डलाम् । अजदेवत्रयीशेषां संस्मरामि जगत्कुटीम्
चतुर्युगार्धं चरमं नीरन्ध्रां घनपादपैः । अदृष्टनरनिर्माणां संस्मरामि धराम् इमाम्
एवं चतुर्युगं साग्रं नीरन्ध्रैर् अचलैर् युताम् । अप्रवृत्तजनाचारां संस्मरामि धराम् इमाम्
अजातषण्मुखां मत्ततारकोद्वासितामराम् । दैत्यपक्षजयोद्रिक्तां संस्मरामि जगत्कुटीम्
चतुर्युगानि त्रीण्य् अम्बुपूरप्लुतककुम्मुखीम् । मेरुदण्डाङ्कितां मध्ये संस्मरामि धराम् इमाम्
भयाद् अन्तर्हिताशेषवैमानिकनभश्चराम् । द्यां निरृक्षनिशेशार्कां संस्मरामि तमोमयीम्
अनगस्त्याम् अगस्त्याशाम् एकपर्वततां गतां । मत्ते विन्ध्यमहाशैले संस्मरामि जगत्कुटीम्
एतांश् चान्यांश् च वृत्तान्तान् संस्मरामि बहून् अपि । किं तेन बहुनोक्तेन सारं सङ्क्षेपतश् शृणु
असङ्ख्यातान् मनून् ब्रह्मन् स्मरामि शतशो गतान् । सर्गान् आरम्भबहुलांश् चतुर्युगशतानि च
एकदेवमयं शुद्धं पुरुषासुरवर्जितम् । अलोकत्रितयं चैकस्वर्गं सर्गं स्मराम्य् अहम्
सुरापब्राह्मणं मत्तं निषिद्धसुरशूद्रकम् । बहुनाथसतीकं च कञ्चित् सर्गं स्मराम्य् अहम्
वृक्षनीरन्ध्रभूलोकम् अकल्पितमहार्णवम् । स्वर्गसञ्जातपुरुषं कञ्चित् सर्गं स्मराम्य् अहम्
अपर्वतम् अभूमिं च व्योमस्थामरमानवम् । अचन्द्रार्कप्रकाशाढ्यं कञ्चित् सर्गं स्मराम्य् अहम्
अनिन्द्रम् अमहीपालम् अमध्यस्थाधमोत्तमम् । समसर्वककुब्भूतं कञ्चित् सर्गं स्मराम्य् अहम्
सर्गप्रारम्भकलनाविभागे भुवनत्रये । देवासुरविनिर्माणं द्वीपाब्धिवलयोदयः
कुलपर्वतसंस्थानं जम्बुद्वीपे पृथक्स्थितिम् । वर्णधर्मधियं सृष्टिविभागं मण्डलावलेः
ऋक्षचक्रकसंस्थानं ध्रुवनिर्माणम् एव च । जन्मेन्दुभास्करादीनाम् इन्द्रोपेन्द्रव्यवस्थितिः
हिरण्याक्षापहरणं वराहोद्धरणं क्षितेः । कल्पनं पार्थिवानां च वेदानयनम् एव च
मन्दरोद्धूननं चाब्धेर् अमृतार्थे च मन्थनम् । अजातपक्षो गरुडस् सागराणां च सम्भवः
इत्यादिका यास् स्मृतयस् स्वल्पातीतमनुक्रमाः । बालैर् अपि हि तास् तात स्मर्यन्ते तासु किं ग्रहः
गरुडवाहनम् अगरुडवाहनं सितविवाहनम् असितविवाहनम् । सुवृषवाहनम् असुवृषवाहनं कलितवान् अहम् अकलितजीवितः
ततो जगति जातेषु भगवन् युष्मदादिषु । भरद्वाजपुलस्त्यात्रिनारदेन्द्रमरीचिषु
पुलहोद्दालकाद्येषु क्रतुभृग्वङ्गिरस्सु च । सनत्कुमारभृङ्गीशस्कन्देभवदनादिषु
गौरीसरस्वतीलक्ष्मीगायत्र्याद्यासु भूरिषु । मेरुमन्दरकैलासहिमवद्दर्दुरादिषु
हयग्रीवहिरण्याक्षकालनेमिबलादिषु । हिरण्यकशिपुक्राथबडिप्रह्लादकादिषु