महान् असि विरक्तो ऽसि तज्ज्ञो ऽसि जनतास्थितौ । त्वयि वस्तु लगत्य् अन्तः कुङ्कुमाम्बु यथांशुके
उक्तावधानपरमा परमार्थविवेचनी । विशत्य् अर्थं तव प्रज्ञा जलमध्यम् इवार्कभा
यद् यद् वच्मि तवादेयं हृदि कार्यं प्रयत्नतः । न चेत् प्रष्टव्य एवाहं न त्वयेह निरर्थकम्
मनो हि चपलं राम संसारवनमर्कटम् । संरोध्य हृदि यत्नेन श्रोतव्या परमार्थधीः
अविवेकिनम् अज्ञानम् असज्जनरतिं जनम् । चिरं दूरतरं कृत्वा पूजनीया हि साधवः
नित्यं सज्जनसम्पर्काद् विवेक उपजायते । विवेकपादपस्यैते भोगमोक्षौ फले स्मृते
मोक्षद्वारे द्वारपालाश् चत्वारः परिकीर्तिताः । शमो विचारस् सन्तोषश् चतुर्थस् साधुसङ्गमः
एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयो ऽथ वा । द्वारम् उद्घाटयन्त्य् एते मोक्षराजगृहे बलात्
एकं वा सर्वयत्नेन प्राणांस् त्यक्त्वा समाश्रयेत् । एतस्मिन् वशगे यान्ति चत्वारो ऽपि वशं यतः
सविवेको हि शास्त्रस्य ज्ञानस्य तपसो द्युतेः । भाजनं भूषणाकारो भास्करस् तेजसाम् इव
घनताम् उपयातं हि प्रज्ञामान्द्यम् अचेतसाम् । याति स्थावरताम् अम्बु जाड्यात् पाषाणताम् इव
त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः । विकासितान्तःकरणस् स्थितः पद्म इवोदये
इमां ज्ञानदृशं श्रोतुम् अवबोद्धुं च सन्मते । अर्हस्य् उद्धृतकर्णस् तु जन्तुर् वीणाध्वनिं यथा
वैराग्याभ्यासयोगेन समसौजन्यसम्पदा । तत् पदं प्राप्यते राम यत्र नाशो न विद्यते
शास्त्रैस् सुजनसम्पर्कपूर्वकैस् सुतपोदमैः । आदौ संसारमुक्त्यर्थं प्रज्ञाम् एवाभिवर्धयेत्
संसारविषवृक्षोग्रसेकम् आस्पदम् आपदाम् । अञ्जनं मोहयामिन्या मौर्ख्यं यत्नेन नाशयेत्
एतद् एव च मौर्ख्यस्य परमं विद्धि नाशनम् । यद् इदं प्रेक्ष्यते शास्त्रं किञ्चित्संस्कृतया धिया
दुराशासर्पगर्तेन मौर्ख्येण हृदि वल्गता । चेतस् सञ्कोचम् आयाति चर्माग्नाव् इव योजितम्
प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति । दृग् इवेन्दौ निरम्भोदसकलामलमण्डले
पूर्वापरविचारार्थचारुचातुर्यशालिनी । सविकासा मतिर् यस्य स पुमान् इति कथ्यते
विकसितेन सितेन मनोमुषा वरविचारणशीतलरोचिषा । गुणवता हृदयेन विराजसे त्वम् अमलेन नभश् शशिना यथा
परिपूर्णमना मान्यः प्रष्टुं जानासि राघव । वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुम् आदरात्
रजस्तमोभ्यां रहितां शुद्धसत्त्वानुपातिनीम् । मतिम् आत्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरो भव
विद्यते त्वयि सर्वैव पृच्छकस्य गुणावली । वक्तुर् गुणाली च मयि रत्नश्रीर् जलधौ यथा
आत्तवान् असि वैराग्यं विवेकासङ्गजं मुने । चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः
चिरम् आ शैशवाद् एव तवाभ्यासो ऽस्ति सद्गुणैः । शुद्धैश् शुद्धस्य दीर्घैश् च पद्मस्येवातिसन्ततैः
अतश् शृणु कथां वक्ष्ये त्वम् एवास्या हि भाजनम् । न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती
ये केचन समारम्भा याश् च काश्चन दृष्टयः । ते च ताश् च पदे दृष्टे निश्शेषं यान्ति वै शमम्
यदि विज्ञानविश्रान्तिर् न भवेद् भव्यचेतसः । तद् अस्यां संसृतौ साधुश् चिन्तां सोढुं सहेत कः
परप्राप्त्या विलीयन्ते सर्वा मननवृत्तयः । कल्पान्तार्कगणासङ्गात् कुलशैलशिला इव