यदा समन्ततो मेरुः कालनेमिभुजान्तरे । किञ्चिद् उन्मूलितो ऽतिष्ठत् तदा नाकम्पत द्रुमः
पक्षीशपक्षपवना अमृताक्रान्तिसङ्गरे । यदा ववुः पतत्सिद्धास् तदा नाकम्पत द्रुमः
यदा शेषाकृतिं कर्षन्न् असमाप्तैकवेष्टनात् । ययौ गरुत्मान् अमृतं तदा नाकम्पत द्रुमः
यदा कल्पानलशिखाश् शैलाब्धिवलनोल्बणाः । शेषः फणाभिस् तत्याज तदा नाकम्पत द्रुमः
एवंरूपे द्रुमवरे तिष्ठताम् आपदः कुतः । अस्माकं मुनिशार्दूल दौस्स्थित्येन किलापदः
कल्पान्तेषु महाबुद्धे वहत्स्व् अग्न्यम्बुवायुषु । प्रतपत्सु तथार्केषु कथं तिष्ठसि विज्वरम्
यदोपयाति कल्पान्तव्यवहारो जगत्स्थितौ । कृतघ्न इव सन्मित्रं तदा नीडं त्यजाम्य् अहम्
आकाश एव तिष्ठामि विगताखिलकल्पनम् । स्तब्धप्रसृतसर्वाङ्गो मनो निर्वासनं यथा
प्रतपन्ति यदादित्यास् सलिलीकृतभूधराः । वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः
यदा शकलिताद्रीन्द्रा वान्ति प्रलयवायवः । पार्वतीं धारणां बद्ध्वा खे तिष्ठाम्य् अचलस् तदा
जगद् गलितमेर्वादि यात्य् एकार्णवतां यदा । वायवीं धारणां बद्ध्वा खं प्लवे ऽचलधीस् तदा
ब्रह्माण्डपारम् आसाद्य तत्त्वान्ते विमले पदे । सुषुप्तावस्थया तावत् तिष्ठाम्य् अचलरूपया
यावत् पुनः कमलजस् सृष्टिकर्मणि तिष्ठति । ततः प्रविश्य ब्रह्माण्डं तिष्ठामि पतगालये
यथा तिष्ठसि पक्षीश धारणाभिर् अखण्डितः । कल्पान्तेषु तथा कस्मान् नान्ये तिष्ठन्ति योगिनः
ब्रह्मन् नियतिर् एषा हि दुर्लङ्घ्या पारमेश्वरी । मयेदृशेन वै भाव्यं भाव्यम् अन्यैस् तु तादृशैः
न शक्यते तोलयितुम् अवश्यभवितव्यता । यद् यथा तत् तथैतद् धि स्वभावस्यैष निश्चयः
मत्सङ्कल्पवशेनैव कल्पे कल्पे पुनः पुनः । अस्मिन्न् एव गिरेश् शृङ्गे तरुर् इत्थं भवत्य् अयम्
अत्यन्तम् एव दीर्घायुर् भवान् विहगनायक । ज्ञानविज्ञानवान् वीरो योगयोग्यमनोगतिः
दृष्टानेकविधानल्पसर्गसङ्घसमागमः । किं किं स्मरसि कल्याणिंश् चित्रम् अस्मिञ् जगत्त्रये
बृहद्गिरिशिलारूक्षाम् अजाततृणवीरुधम् । अशैलवनवृक्षौघां स्मरामीमां धराम् अधः
दशवर्षसहस्राणि दशवर्षशतानि च । भस्मभारभरापूर्णां स्मरामीमां धराम् अधः
अनुत्पन्नदिनाधीशाम् अजातशशिमण्डलाम् । अविभक्तदिनालोकां संस्मरामि धराम् अधः
मेरुरत्नतटोद्द्योतैर् अर्धप्रकटकोटरम् । लोकालोकम् इवाद्याद्रिं भुवनं संस्मराम्य् अहम्
प्रवृद्धासुरसङ्ग्रामे म्रियमाणान् नरान् इव । पलायमानान् अभितस् संस्मरामि सुरान् अहम्
चतुर्युगानि पञ्चाशद् असुरैर् मत्तकाशिभिः । दैत्यान्तःपुरतां प्राप्तां संस्मरामि धराम् इमाम्
अत्यन्तान्तरितान्तान्तसमस्तासुरमण्डलाम् । अजदेवत्रयीशेषां संस्मरामि जगत्कुटीम्
चतुर्युगार्धं चरमं नीरन्ध्रां घनपादपैः । अदृष्टनरनिर्माणां संस्मरामि धराम् इमाम्
एवं चतुर्युगं साग्रं नीरन्ध्रैर् अचलैर् युताम् । अप्रवृत्तजनाचारां संस्मरामि धराम् इमाम्
अजातषण्मुखां मत्ततारकोद्वासितामराम् । दैत्यपक्षजयोद्रिक्तां संस्मरामि जगत्कुटीम्
चतुर्युगानि त्रीण्य् अम्बुपूरप्लुतककुम्मुखीम् । मेरुदण्डाङ्कितां मध्ये संस्मरामि धराम् इमाम्