भूतजालतरङ्गिण्या विशन्त्याः कालसागरम् । वयं संसारसरितस् तटस्था अप्य् अनाकुलाः
नोज्झामो न च गृह्णीमस् तिष्ठामो नैव च स्थिताः । मृदवो ऽपि भृशं क्रूरा वयम् अस्मिन् द्रुमे स्थिताः
वीतशोकभयायासैस् त्वादृशैः पुरुषोत्तमैः । तुष्टैर् अनुगृहीतास् स्मस् संस्थिता विगतज्वराः
नेतश् चेतश् च पर्यस्तं लुलितं न च वृत्तिषु । नापरामृष्टतत्त्वार्थम् अस्माकं भगवन् मनः
निर्विकारे गतक्षोभे स्वात्मन्य् उपशमं गते । अतरङ्गाः प्रपूर्णास् स्मः पर्वणीव महाब्धयः
भवदागमनाद् ब्रह्मन्न् इदानीं मुदिताशयाः । फलिताशेषसङ्कल्पाः परमां पूर्णतां गताः
रसायनमयी शीता परमानन्ददायिनी । नानन्दयति कं नाम साधुसङ्गतिचन्द्रिका
सत्सङ्गमानन्दरसः केनायम् उपमीयते । मन्दरोद्धूतसर्वाम्बुः क्षीरोदो येन खर्व्यते
नातः परतरं किञ्चिन् मन्ये कुशलम् आत्मनः । सन्तो यद् अनुगम्यन्ते सन्त्यक्तसकलैषणम्
आपातमात्ररम्येभ्यो भोगेभ्यः किम् अवाप्यते । सत्सङ्गचिन्तामणितस् सर्वं सारम् अवाप्यते
स्निग्धगम्भीरमसृणमधुरोदारधीरवाक् । त्रैलोक्यपद्मकोशे ऽस्मिंस् त्वम् एकष् षट्पदायसे
अधिगतपरमात्मनो ऽपि मन्ये भवदवलोकनशान्तदुष्कृतस्य । मम सफलम् इहाद्य जन्म साधो सकलभयापहरो हि साधुसङ्गः
युगक्षोभेषु घोरेषु वात्यासु विषमासु च । सुस्थिरः कल्पवृक्षो ऽयं न कदाचन कम्पते
अगम्यो ऽयं समग्राणां लोकान्तरविहारिणाम् । भूतानां तेन तिष्ठामस् सुखम् अस्मिन् वनस्पतौ
हिरण्याक्षो धरापीठं द्वीपसप्तकवेष्टितम् । यदा जहार तरसा नाकम्पत तदा द्रुमः
यदा दोलायितवपुर् बभूवामरपर्वतः । सर्वतो दत्तझम्पाद्रिर् नाकम्पत तदा द्रुमः
भुजावष्टम्भविनमन्मेरुर् नारायणो यदा । मन्दरं प्रोद्दधाराद्रिं नाकम्पत तदा द्रुमः
उन्मूलिताद्रीन्द्रशिला यदोत्पातानिला ववुः । आधूतमेरुतरवस् तदा नाकम्पत द्रुमः
यदा सुरासुरक्षोभस्फुरच्चन्द्रार्कमण्डलम् । आसीज् जगद् अतिक्षुब्धं तदा नाकम्पत द्रुमः
यदा क्षीरोदलोलाद्रिकन्दरानिलकम्पिताः । कल्पाभ्रपङ्क्तयः पेतुस् तदा नाकम्पत द्रुमः
यदा समन्ततो मेरुः कालनेमिभुजान्तरे । किञ्चिद् उन्मूलितो ऽतिष्ठत् तदा नाकम्पत द्रुमः
पक्षीशपक्षपवना अमृताक्रान्तिसङ्गरे । यदा ववुः पतत्सिद्धास् तदा नाकम्पत द्रुमः
यदा शेषाकृतिं कर्षन्न् असमाप्तैकवेष्टनात् । ययौ गरुत्मान् अमृतं तदा नाकम्पत द्रुमः
यदा कल्पानलशिखाश् शैलाब्धिवलनोल्बणाः । शेषः फणाभिस् तत्याज तदा नाकम्पत द्रुमः
एवंरूपे द्रुमवरे तिष्ठताम् आपदः कुतः । अस्माकं मुनिशार्दूल दौस्स्थित्येन किलापदः
कल्पान्तेषु महाबुद्धे वहत्स्व् अग्न्यम्बुवायुषु । प्रतपत्सु तथार्केषु कथं तिष्ठसि विज्वरम्
यदोपयाति कल्पान्तव्यवहारो जगत्स्थितौ । कृतघ्न इव सन्मित्रं तदा नीडं त्यजाम्य् अहम्
आकाश एव तिष्ठामि विगताखिलकल्पनम् । स्तब्धप्रसृतसर्वाङ्गो मनो निर्वासनं यथा
प्रतपन्ति यदादित्यास् सलिलीकृतभूधराः । वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः
यदा शकलिताद्रीन्द्रा वान्ति प्रलयवायवः । पार्वतीं धारणां बद्ध्वा खे तिष्ठाम्य् अचलस् तदा