तद् एतद् वृत्तम् अभ्यासाद् वर्तमानेन वर्णितम् । मया मुनीन्द्र बोधाय प्राग्जगत्साम्यदर्शिना
अद्य मे फलितं पुण्यैश् चिरकालोपबृंहितैः । निर्विघ्नम् एवं पश्यामि यद् भवन्तं मुने ततः
इदं नीडम् इमाश् शाखा अयं चाहम् अयं द्रुमः । अद्य पावनतां प्राप्तान्य् एतानि तव दर्शनात्
इदम् अर्घ्यम् इदं पाद्यं गृहीत्वा विभवार्पितम् । नूनं पावनतां नीत्वा शेषेणादिश मां मुने
इत्य् उक्त्वार्घ्यं च पाद्यं च भूयो दत्तवति स्वयम् । भुसुण्डविहगे तस्मिन्न् इदं रामाहम् उक्तवान्
भ्रातरस् ते विहङ्गेश तादृक्सत्त्वा महाधियः । इह कस्मान् न दृश्यन्ते त्वम् एवैको हि दृश्यसे
तिष्ठताम् इह नः कालो महान् अतिगतो मुने । युगानां पङ्क्तयः क्षीणा दिवसानाम् इवानघ
एतावता च कालेन सर्व एव ममानुजाः । तनूस् तृणम् इव त्यक्त्वा शिवे परिणताः परे
दीर्घायुषो महान्तो ऽपि सन्तो ऽपि बलिनो ऽपि च । सर्व एव निगीर्यन्ते कालेनाकलितात्मना
स्कन्धरूढार्कशशिषु वहत्स्व् अविरतं जवात् । वातस्कन्धातिवातेषु कच्चित् तात न खिद्यसे
दग्धोदयास्तशैलेन्द्रवनव्यूहै रवेः करैः । चिरम् अत्यन्तम् आसन्नैः कथं तात न खिद्यसे
इन्दोर् अथ करैश् शीतैः पाषाणीकृतवारिभिः । आसन्नतरतां यातैः कच्चित् तात न खिद्यसे
अजस्रम् इह विश्रान्तैः कल्पजीमूतमण्डलैः । परशुच्छेद्यनीहारैः कथं तात न खिद्यसे
विषमैर् जागतैः क्षोभैर् उच्चैस्तरपदस्थितः । कथं न क्षोभम् आयाति कल्पवृक्षो ऽयम् उन्नतः
निरालम्बास्पदा ब्रह्मन् सर्वलोकावधीरिता । तुच्छेयं सर्वभूतानां मध्ये विहगजीविका
यद् ईदृशेषु दूरेषु निर्जनेषु वनेषु च । कल्पितास्यास् स्थितिर् धात्रा शून्ये वा व्योमधन्वनि
कथम् अस्यां प्रभो जातौ जातस्य किल जीवतः । आशापाशनिबद्धस्य विहगस्य विशोकता
वयं तु भगवन् नित्यं स्वात्मसन्तोषसंयुताः । न कदाचन नीरूपैर् मुह्यामो जागतैर् भ्रमैः
स्वभावमात्रसन्तुष्टाः कष्टैर् मुक्ता विचेष्टितैः । क्षिपामः केवलं कालम् अस्मिन् ब्रह्मन् निजालये
न जीवितान् न मरणात् कुर्मो देहस्य रोधनम् । यथा स्थितेन तिष्ठामस् तथैवास्तङ्गतेहिताः
आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः । नूनं सन्त्यक्तम् अस्माकं मनसा चञ्चलं वपुः
अनारतनिजालोके नित्यं चापरितापिनि । कल्पागस्योपरि सदा वेद्मि कालकलागतिम्
रत्नगुच्छप्रकाशाढ्ये ब्रह्मन् कल्पलतागृहे । प्राणापानप्रवाहेण वेद्मि कालम् अखण्डितम्
अविज्ञातदिवारात्रे ऽप्य् अस्मिन्न् उच्चैश् शिलोच्चये । जानामि निजया बुद्ध्या लोककालक्रमस्थितिम्
सारासारपरिच्छेदि बोधाद् विश्रान्तिम् आगतम् । निरस्तचापलं शान्तं जातम् एव मुने मनः
संसारव्यवहारोत्थैर् आशापाशैर् असन्मयैः । उद्गालैर् इव भूकाको न वैवश्यं व्रजाम्य् अहम्
परोपशमधर्मिण्या वयम् आलोकशीतया । पश्यन्तो जागतीं मायां धिया धैर्यम् उपागताः
भीमास्व् अपि महाबुद्धे दशास्व् अचलबुद्धयः । बिभिमो नोपलाकारास् सम्प्राप्तासु यथाक्रमम्
इयम् आरम्भसुभगा तरला जागती स्थितिः । भूयो भूयः परामृष्टा नेह किञ्चन सन्मयम्
सर्वाण्य् एव प्रयान्त्य् एव समायान्ति च वा न वा । भगवन् भूतजालानि भयम् अस्माकम् अत्र किम्