इत्य् उक्त्वास्मान् पिता तत्र चुचुम्बाभ्यालिलिङ्ग च । ददौ देव्यै यद् आनीतम् अस्मभ्यं च तद् आमिषम्
तद् भुक्त्वा चरणौ देव्याः पितुश् चैवाभिवन्द्य च । विन्ध्यकच्छाद् वयं तस्मात् स्थानाद् आलम्बुसात् प्लुताः
क्रमेणाकाशम् उल्लङ्घ्य निर्गत्याम्बुदकोटरैः । पवनस्कन्धम् आरुह्य वन्दितव्योमचारिणः
परिहृत्य दिनाधीशं लोकान्तरपुराद् गताः । स्वर्गम् उल्लङ्घ्य यातास् स्मो ब्रह्मलोकं मुनीश्वर
प्रणामपूर्वं तत्रैतद् यथावस्तु पितुर् वचः । मात्रे च भगवत्यै च ब्राह्म्यै चाशु निवेद्य ह
ताभ्यां सस्नेहम् आलिङ्ग्य गच्छथेत्य् आज्ञयैधिताः । वयं कृतनमस्कारा ब्रह्मलोकाद् विनिर्गताः
उल्लङ्घ्य लोकपालानां पुरीस् तपनभासुराः । आकाशगामिनो लोलाः पवनस्कन्धचारिणः
इमं कल्पतरुं प्राप्य निजं नीडं प्रविश्य च । निरस्तबाधं तिष्ठामो मुने मौनम् अवस्थिताः
जाता यथा वयम् इमे स्थितिम् आगताश् च सम्प्राप्तबोधम् उपशान्तधियो यथा च । एतत् तद् उक्तम् अविखण्डम् अलं मया ते शेषेण मां समनुशाधि महानुभाव
आसीत् किञ्चित्पुराकल्पे जगद् यच् चिरविस्मृतम् । सन्निवेशेनामुनैव तद् यद् अद्यातिदूरगम्
तद् एतद् वृत्तम् अभ्यासाद् वर्तमानेन वर्णितम् । मया मुनीन्द्र बोधाय प्राग्जगत्साम्यदर्शिना
अद्य मे फलितं पुण्यैश् चिरकालोपबृंहितैः । निर्विघ्नम् एवं पश्यामि यद् भवन्तं मुने ततः
इदं नीडम् इमाश् शाखा अयं चाहम् अयं द्रुमः । अद्य पावनतां प्राप्तान्य् एतानि तव दर्शनात्
इदम् अर्घ्यम् इदं पाद्यं गृहीत्वा विभवार्पितम् । नूनं पावनतां नीत्वा शेषेणादिश मां मुने
इत्य् उक्त्वार्घ्यं च पाद्यं च भूयो दत्तवति स्वयम् । भुसुण्डविहगे तस्मिन्न् इदं रामाहम् उक्तवान्
भ्रातरस् ते विहङ्गेश तादृक्सत्त्वा महाधियः । इह कस्मान् न दृश्यन्ते त्वम् एवैको हि दृश्यसे
तिष्ठताम् इह नः कालो महान् अतिगतो मुने । युगानां पङ्क्तयः क्षीणा दिवसानाम् इवानघ
एतावता च कालेन सर्व एव ममानुजाः । तनूस् तृणम् इव त्यक्त्वा शिवे परिणताः परे
दीर्घायुषो महान्तो ऽपि सन्तो ऽपि बलिनो ऽपि च । सर्व एव निगीर्यन्ते कालेनाकलितात्मना
स्कन्धरूढार्कशशिषु वहत्स्व् अविरतं जवात् । वातस्कन्धातिवातेषु कच्चित् तात न खिद्यसे
दग्धोदयास्तशैलेन्द्रवनव्यूहै रवेः करैः । चिरम् अत्यन्तम् आसन्नैः कथं तात न खिद्यसे
इन्दोर् अथ करैश् शीतैः पाषाणीकृतवारिभिः । आसन्नतरतां यातैः कच्चित् तात न खिद्यसे
अजस्रम् इह विश्रान्तैः कल्पजीमूतमण्डलैः । परशुच्छेद्यनीहारैः कथं तात न खिद्यसे
विषमैर् जागतैः क्षोभैर् उच्चैस्तरपदस्थितः । कथं न क्षोभम् आयाति कल्पवृक्षो ऽयम् उन्नतः
निरालम्बास्पदा ब्रह्मन् सर्वलोकावधीरिता । तुच्छेयं सर्वभूतानां मध्ये विहगजीविका
यद् ईदृशेषु दूरेषु निर्जनेषु वनेषु च । कल्पितास्यास् स्थितिर् धात्रा शून्ये वा व्योमधन्वनि
कथम् अस्यां प्रभो जातौ जातस्य किल जीवतः । आशापाशनिबद्धस्य विहगस्य विशोकता
वयं तु भगवन् नित्यं स्वात्मसन्तोषसंयुताः । न कदाचन नीरूपैर् मुह्यामो जागतैर् भ्रमैः
स्वभावमात्रसन्तुष्टाः कष्टैर् मुक्ता विचेष्टितैः । क्षिपामः केवलं कालम् अस्मिन् ब्रह्मन् निजालये
न जीवितान् न मरणात् कुर्मो देहस्य रोधनम् । यथा स्थितेन तिष्ठामस् तथैवास्तङ्गतेहिताः