इति गर्भालसा हंसीर् मुक्त्वा देवी दयापरा । निर्विकल्पे समाधाने ब्राह्मी तस्थौ यथासुखम्
अथ नाभिसरोजाते वैरिञ्चे कमलाकरे । गर्भालसा विचेरुस् ता राजहंस्यो मुनीश्वर
एवं विपक्वगर्भास् ता नाभीकमलपल्लवे । सुवते स्म मृदून्य् अण्डान्य् अथ वल्ल्य इवाङ्कुरान्
तानि कालं समासाद्य तत्राण्डान्य् एकविंशतिः । गर्भाक्रान्त्या द्विधा जग्मुर् ब्रह्माण्डानीव सारवं
अण्डेभ्यस् तेभ्य एवं हि जाता वयम् इमे मुने । भ्रातरश् चण्डतनया वायसा एकविंशतिः
ते स्म जाता गता वृद्धिं तस्मिन् कमलपल्लवे । सञ्जातपक्षास् सम्पन्ना गगनोड्डयनक्षमाः
मातृभिस् सह हंसीभिर् ब्राह्मी भगवती ततः । चिरम् आराधिता सम्यक् समाधिविरता सती
प्रसादपरया काले भगवत्या ततस् स्वयम् । तथाङ्गानुगृहीतास् स्मो यथा मुक्ता वयं स्थिताः
सन्तृप्तमनसश् शान्ता एकान्ते ध्यानसंस्थितौ । तिष्ठाम इति निश्चित्य पितुः पार्श्वं वयं गताः
आलिङ्गितास् ततः पित्रा पूजितालम्बुसा वयम् । तया दृष्टाः प्रसादेन संस्थितास् तत्र संयताः
पुत्राः कच्चिद् अपर्यन्ताद् वासनासूत्रसूम्भितात् । भवन्तो निर्गता नूनम् अस्मात् संसारजालकात्
नो चेद् वयं भगवतीं तद् इमां भृत्यवत्सलाम् । प्रार्थयामो यथा यूयं भवत ज्ञानपारगाः
तात ज्ञातम् अलं ज्ञेयं ब्राह्म्या देव्याः प्रसादतः । किं त्व् एकान्तस्थितेस् स्थानम् अभिवाञ्छाम उत्तमम्
शृणुत विगतदोषं पावनं स्थानम् अग्र्यं स्थिरतरम् अयि पुत्रा नीडकामाः प्रवक्ष्ये । व्यपगतभयमोहं शान्तसर्वप्रचारं निवसत चिरतृप्ता यत्र निश्शङ्कम् उच्चैः
सर्वरत्नगणाधारस् समस्तसुरसंश्रयः । अस्त्य् अमेयमहोत्सेधो मेरुर् नाम महीधरः
चलच्चन्द्रार्कदीपस्य भूतवृन्दकलत्रिणः । ब्रह्माण्डमण्डपस्यास्य स्तम्भः कनकनिर्मितः
सौवर्णश् चन्द्रवीटार्थं रत्नाढ्यश् शिखराङ्गुलिः । ध्वनद्द्वीपाब्धिवलयो भुवेवोन्नामितो भुजः
वृतः कुलाद्रिसामन्तैर् जम्बुद्वीपासने स्थितः । राजा चन्द्रार्कनयने भ्रमयञ् शैलसंसदि
तारौघमालतीमाल्यो दिग्दशैकाम्बराम्बरः । नागद्वितयसंस्थात्मा नाकनायकभूषणः
दिगङ्गनाभिर् अभितो रम्याभिः पुरभूषणैः । पृषन्निष्ष्यन्दिभिश् शीतैर् वीजितो घनचामरैः
षोडशास्य सहस्राणि योजनानाम् अधः क्षितेः । स्थिताः पादाः प्रपूज्यन्ते नानासुरमहोरगैः
अशीतिस् तु सहस्राणि देहो ऽस्यार्केन्दुलोचनः । पूज्यते नाकसदनैस् सुरगन्धर्वकिन्नरैः
चतुर्दशविधान्य् एनं गृहस्थम् इव बन्धवः । उपजीवन्ति भूतानि मिथोऽदृष्टपुरास्पदम्
अस्य त्व् ईशानदिग्भागे पद्मरागमयं बृहत् । विद्यते शृङ्गम् अपरो दिवाकर इवोदितः
तस्यास्ति पृष्ठे भूतौघवृतः कल्पतरुर् महान् । जगतश् शिखरादर्शे प्रतिबिम्बम् इव स्थितः
तस्यास्ति दक्षिणस्कन्धे शाखा कनकपल्लवा । रत्नस्तबकनीरन्ध्रा चन्द्रबिम्बाभसत्फला
तत्र नीडं मया पूर्वं कृतम् आसीत् स्फुरन्मणि । देव्यां ध्याननिषण्णायां यस्मिन् किल रमे सुताः
रत्नपुष्पदलच्छन्नं रसायनफलान्वितम् । चिन्तामणिशलाकाभिर् विहितालिन्दसंस्थिति
बुद्धिपूर्वसमाचारैस् सम्पूर्णं काकपुत्रकैः । शीतलाभ्यन्तरं हृद्यं पूरितं कुसुमोत्करैः
तद् गच्छत सुता नीडं दुर्गं नाकसदाम् अपि । भोगं मोक्षं च तत्रस्था निर्विघ्नं समवाप्स्यथ