आसाम् अनुगतास् त्व् अन्या देव्यः खेचर्य उत्तमाः । देवकिन्नरगन्धर्वपुरुषासुरसम्भवाः
तासाम् अनुगतास् त्व् अन्या भूचर्यः कोटिशस् स्थिताः । रूपिकानामधारिण्यो भूमौ पुरुषभोजनाः
हया गजाः खराः काका उष्ट्राजगरमर्कटाः । इत्यादिवाहनान्य् आसां चरन्तीनां जगत्त्रये
ताः काश्चित् पशुधर्मिण्यः क्षुद्रकर्मस्व् अवस्थिताः । काश्चिद् विदितवेद्यत्वाज् जीवन्मुक्तपदे स्थिताः
तासां मध्ये महार्हाणां मातॄणां मुनिनायक । अलम्बुसेति विख्याता माता मानद विद्यते
वज्राश्रितुण्डश् चण्डाख्य इन्द्रनीलाचलोपमः । तस्यास् तु वाहनं काको वैष्णव्या गरुडो यथा
इत्य् अष्टैश्वर्ययुक्तास् ता मातरो रौद्रचेष्टिताः । व्योम्नि मेलापकं चक्रुर् एकदा समम् आगताः
पूजयित्वा जगत्पूज्यौ देवौ तुम्बुरुभैरवौ । विचित्रार्थाः कथाश् चक्रू रुधिरासवतोषिताः
अथेयम् आययौ तासां कथावसरतः कथा । अस्मान् उमापतिर् देवः किं पश्यत्य् अवहेलया
प्रभावं दर्शयामो ऽस्य पुनर् नास्मान् असौ यथा । दृष्टमात्रमहाशक्तिः करिष्यत्य् अवधीरणम्
इति निश्चित्य ता देव्यो विवर्णवदनाङ्गिकाम् । उमाम् एव वशीकृत्य प्रोक्षयाम् आसुर् आदृताः
माययापहृतां भर्तुर् अङ्गाद् भङ्गम् उपागताम् । ताम् आलोलकचां देव्यश् चक्रुर् ओदनतां गताम्
पार्वतीप्रोक्षणदिने तस्मिंस् तत्र महोत्सवः । बभूव तासां सर्वासां नृत्तगेयमनोरमः
अन्या ननृतुर् उद्दामरवम् एवाम्बराम्बराः । दीर्घावयवविक्षेपविकासिजघनोदराः
अन्या जहसुर् उद्दामतालक्ष्वेडाघनारवम् । लसदङ्गविकारं च ध्वनड्डमरुकाननाः
अन्या जगुर् ध्वनच्छैलगुहम् आपानतोषिताः । तारारवं रणद्रन्ध्रजगन्मण्डपकोटरे
अन्याः पानं पपुः पुष्टचर्वितार्द्रशिरःखुरम् । लीलाघुरघुरारावरणदाकाशकोटराः
पपुर् उदगुर् अथोच्चैस् तेरुर् आजग्मुर् ऊषुर् जहसुर् अपुर् अहौषुः पेतुर् उच्चैर् ववल्गुः । ननृतुर् अनिशम् आदुस् स्वादुमांसं च देव्यस् त्रिभुवनम् अपवृत्तं चक्रुर् उन्मत्तनृत्ताः
इत्य् उत्सवे वर्तमाने तासां वाहास् त उत्तमाः । तथैव मत्ता जहसुर् ननृतुः पपुर् अप्य् असृक्
तत्र कान्तासवोन्मत्ताः क्वचिन् ननृतुर् अम्बरे । रथहंस्यस् सिता ब्राह्म्यः काकश् चालम्बुसारथः
नृत्यन्तीनां तु हंसीनां पिबन्तीनां तथासवम् । वेलेवाब्धितटीनां तु रतिस् सम्यग् अजायत
सञ्जातरतयो मत्तास् सर्वा हंस्यः क्रमेण ताः । रेमिरे तेन काकेन चण्डकाख्येन वै तदा
सप्तानां बालहंसीनां दयितो वायसस् त्व् असौ । क्रमेणारमतैकत्र यावद् अन्योऽन्यम् ईप्सितम्
अथ ता गर्भधारिण्यो बभूवुर् अतितोषिताः । देव्यश् च कृतनृत्तास् ताः प्रशान्तमदतां ययुः
ददुर् ओदनतां याताम् ईश्वराय प्रियाम् उमाम् । भोजनाय महामाया देव्यस् ताश् शूलपाणये
प्रिया मे भोजने दत्तेत्य् एवं च शशिशेखरः । बुद्ध्वा बभूव रुषितो यदा मातृगणं प्रति
तदा तास् तां समुत्पाद्य स्वाङ्गदानेन वै पुनः । ददुर् भूयोविवाहेन पार्वतीम् इन्दुमौलये
ततो देव्यो हरश् चैव परिवारस् तथैतयोः । सर्वे सन्तुष्टमनसस् स्वां स्वाम् उपययुर् दिशम्
अन्तर्वत्न्यो बभूवुस् ता ब्राह्म्यो हंस्यो मुनीश्वर । वृत्तान्तं कथयाम् आसुर् ब्राह्म्या देव्या यथास्थितम्
हे वत्सास् साम्प्रतं गर्भवत्यो मे रथकर्मणि । न समर्था भवत्यो ऽपि स्वैरं चरत साम्प्रतम्