अथ राम भुसुण्डो ऽसौ न प्रहृष्टो न जिह्मधीः । सर्वाङ्गसुन्दरश् श्यामः प्रावृषीव पयोधरः
स्निग्धगम्भीरवचनस् स्मितपूर्वाभिभाषणः । करस्थपालीवतवत्प्रतोलितजगत्त्रयः
तृणवद्दृष्टसकलः प्रमेयीकृतसंसृतिः । लोकाजवञ्जवीभावे दृष्टे ज्ञातपरावरः
धीरस् स्थिरसमाकारो विश्रान्त इव मन्दरः । परिपूर्णस् समश् शुद्धः पूर्णार्णव इवाहतः
पदविश्रान्तधीश् शान्तः परमानन्दघूर्णितः । आविर्भावतिरोभावतज्ज्ञस् संसारजन्मिनाम्
सरभसवचनाभिरामरूपः प्रियमधुरोचितचारुहृद्यवाक्यः । स्वयम् इव नवम् आस्थितश् शरीरं सकलभयापहरः परः प्रकर्षः
इदम् अमलगिराह हासशुद्धं मृदुपदम् उज्झितसम्भ्रमं क्रमेण । कथयितुम् अखिलं निजं स्वरूपं मधुर इव स्तनितेन मुग्धमेघः
अस्त्य् अस्मिञ् जगति ज्येष्ठस् सर्वनाकनिवासिनाम् । देवदेवो हरो नाम देवदेवाभिपूजितः
षट्पदश्रेणिनयना यस्योच्चस्तबकस्तनी । विलासिनी शरीरार्धे लता चूततरोर् इव
हिमहारसिता यस्य लहरीस्तबकोम्भिता । आवेष्टितजटाजूटा गङ्गा कुसुममालिका
क्षीरसागरसम्भूतः प्रसृतामृतनिर्झरः । प्रतिबिम्बशशश् श्रीमान् यस्य चूडामणिश् शशी
अनारतशिरश्चन्द्रप्रस्रवेणामरीकृतः । यस्येन्द्रनीलवत् कालकूटः कण्ठस्य भूषणम्
धूलिलेखामहावर्तं स्वच्छं पावकसम्भवम् । परमाणुचयं भस्म यस्य स्नानजलं सितम्
निर्मलानि जितेन्दूनि घृष्टानि घटितानि च । यस्यास्थीन्य् एव रत्नानि देहे कान्तिमयानि च
दशाशादशम् अम्भोदनीलं शीतलपल्लवम् । तारकाबिन्दुशबलं यस्य चाम्बरम् अम्बरम्
भ्रमच्छिवाङ्गनं पक्वमहामांसौदनाकुलम् । बहुभूतेर् गृहं यस्य श्मशानं हिमपाण्डुरम्
कपालमालाभरणाः पीतरक्तरसासवाः । अन्त्रस्रग्दामवलिता बन्धवो यस्य मातरः
प्रस्फुरन्मूर्धमणयश् चोपन्तो मसृणाङ्गकाः । भुजगा वलया यस्य प्रकचत्कनकत्विषः
दृक्पातप्लुष्टशैलेन्द्रं जगत्कवलनालसम् । भैरवाचरितं यस्य लीलासन्त्रासितामरम्
स्वस्थीकृतजगज्जीवस् स्वव्यापारस्थचेतसः । यदृच्छया करस्पन्दो यस्यासुरपुरक्षयः
एकाग्रमूर्तयस् स्नेहरागद्वेषविवर्जिताः । स्वजना यस्य ते शैलास् सरसा अपि नीरसाः
शिरःखुराः खुरकराः करदन्ता भुजोदराः । ऋक्षोष्ट्राजाहिवक्त्राश् च प्रमथा यस्य लालकाः
यस्य नेत्रत्रयोद्भासिवदनस्यामरप्रभोः । यथा गणास् तथैवान्यः परिवारो हि मातरः
नृत्यन्ति मातरस् तस्य पुरो भूतगणानताः । चतुर्दशविधानन्तभूतजातैकभोजनाः
खरोष्ट्रकाकवदना रक्तमेदोवसासवाः । दिगम्बरा विहारिण्यश् शरीरावयवस्रजः
वसन्ति गिरिकूटेषु व्योम्नि लोकान्तरेषु च । अटवीषु श्मशानेषु शरीरेषु च देहिनाम्
जया च विजया चैव जयन्ती चापराजिता । वामस्रोतोगता एतास् तुम्बुरुं रुद्रम् आश्रिताः
सिद्धा शुष्का च रक्ता च उत्पला चेति देवताः । स्रोतो दक्षिणम् आश्रित्य भैरवं रुद्रम् आश्रिताः
सर्वासाम् एव मातॄणाम् अष्टाव् एतास् तु नायिकाः । आसाम् अनुगतास् त्व् अन्या देव्यश् शतसहस्रशः
रौद्री च वैष्णवी ब्राह्मी वाराही वायवी तथा । कौमारी वासवी सौरी चेत्याद्यास् तास् सहस्रशः