त्वत्पाददर्शनाद् एव सर्वं ज्ञातं मया मुने । यथागमनपुण्येन वयम् आयोजितास् त्वया
चिरजीवितचर्चाभिर् वयं ते स्मृतिम् आगताः । तेनेमं पादपं पादैस् त्वं पवित्रितवान् अयम्
ज्ञातत्वदागमो ऽप्य् एवं त्वां पृच्छामीह यन् मुने । भवद्वाक्यामृतास्वादवाञ्छा तत् प्रविजृम्भते
इत्य् उक्तवान् असौ पक्षी भुसुण्डश् चिरजीवितः । त्रिकालामलसंवेदी तत्र प्रोक्तम् इदं मया
विहङ्गममहाराज सत्यम् एतत् त्वयोच्यते । द्रष्टुम् अभ्यागतो ऽस्म्य् अद्य त्वाम् एव चिरजीवितम्
आशीतलान्तःकरणो दिष्ट्या कुशलवान् असि । पतितो ऽसि न शुद्धात्मन् भीषणां भववागुराम्
तद् एतं संशयं छिन्द्धि भगवन् मम तत्त्वतः । कस्मिन् कुले भवाञ् जातो ज्ञातज्ञेयः कथं भवान्
कियद् आयुश् च ते साधो वृत्तं स्मरसि किं च वा । केन वायं निवासस् ते निर्दिष्टो दीर्घदर्शिना
यत् पृच्छसि मुने सर्वं तद् इदं कथयाम्य् अहम् । अनुद्वेगितयेयं नः कथा श्रव्या महात्मना
युष्मद्विधास् त्रिभुवनप्रभुपूज्यरूपा आकर्णयन्ति यद् उदारधियो महान्तः । तेनाशुभं प्रकथितेन विनाशम् एति मेघस्य देहविभवेन यथार्कतापः
अथ राम भुसुण्डो ऽसौ न प्रहृष्टो न जिह्मधीः । सर्वाङ्गसुन्दरश् श्यामः प्रावृषीव पयोधरः
स्निग्धगम्भीरवचनस् स्मितपूर्वाभिभाषणः । करस्थपालीवतवत्प्रतोलितजगत्त्रयः
तृणवद्दृष्टसकलः प्रमेयीकृतसंसृतिः । लोकाजवञ्जवीभावे दृष्टे ज्ञातपरावरः
धीरस् स्थिरसमाकारो विश्रान्त इव मन्दरः । परिपूर्णस् समश् शुद्धः पूर्णार्णव इवाहतः
पदविश्रान्तधीश् शान्तः परमानन्दघूर्णितः । आविर्भावतिरोभावतज्ज्ञस् संसारजन्मिनाम्
सरभसवचनाभिरामरूपः प्रियमधुरोचितचारुहृद्यवाक्यः । स्वयम् इव नवम् आस्थितश् शरीरं सकलभयापहरः परः प्रकर्षः
इदम् अमलगिराह हासशुद्धं मृदुपदम् उज्झितसम्भ्रमं क्रमेण । कथयितुम् अखिलं निजं स्वरूपं मधुर इव स्तनितेन मुग्धमेघः
अस्त्य् अस्मिञ् जगति ज्येष्ठस् सर्वनाकनिवासिनाम् । देवदेवो हरो नाम देवदेवाभिपूजितः
षट्पदश्रेणिनयना यस्योच्चस्तबकस्तनी । विलासिनी शरीरार्धे लता चूततरोर् इव
हिमहारसिता यस्य लहरीस्तबकोम्भिता । आवेष्टितजटाजूटा गङ्गा कुसुममालिका
क्षीरसागरसम्भूतः प्रसृतामृतनिर्झरः । प्रतिबिम्बशशश् श्रीमान् यस्य चूडामणिश् शशी
अनारतशिरश्चन्द्रप्रस्रवेणामरीकृतः । यस्येन्द्रनीलवत् कालकूटः कण्ठस्य भूषणम्
धूलिलेखामहावर्तं स्वच्छं पावकसम्भवम् । परमाणुचयं भस्म यस्य स्नानजलं सितम्
निर्मलानि जितेन्दूनि घृष्टानि घटितानि च । यस्यास्थीन्य् एव रत्नानि देहे कान्तिमयानि च
दशाशादशम् अम्भोदनीलं शीतलपल्लवम् । तारकाबिन्दुशबलं यस्य चाम्बरम् अम्बरम्
भ्रमच्छिवाङ्गनं पक्वमहामांसौदनाकुलम् । बहुभूतेर् गृहं यस्य श्मशानं हिमपाण्डुरम्
कपालमालाभरणाः पीतरक्तरसासवाः । अन्त्रस्रग्दामवलिता बन्धवो यस्य मातरः
प्रस्फुरन्मूर्धमणयश् चोपन्तो मसृणाङ्गकाः । भुजगा वलया यस्य प्रकचत्कनकत्विषः
दृक्पातप्लुष्टशैलेन्द्रं जगत्कवलनालसम् । भैरवाचरितं यस्य लीलासन्त्रासितामरम्
स्वस्थीकृतजगज्जीवस् स्वव्यापारस्थचेतसः । यदृच्छया करस्पन्दो यस्यासुरपुरक्षयः