व्योम्न्य् एव जातनष्टानां महतां व्योमपक्षिणाम् । बन्धून् आबद्धनिलयाञ् शरदभ्रसमाकृतीन्
विरिञ्चहंसजान् अन्यान् अन्यान् अग्निशुकोद्भवान् । कौमारबर्हिजान् अन्यान् अन्यान् अम्बरपक्षिजान्
द्वितुण्डांश् चाथ भारुण्डान् हेमचूडान् विहङ्गमान् । कलविङ्कान् बकान् गृध्रान् कोकिलान् क्रौञ्चकुक्कुटान्
भासचाषबलाकादीन् बहून् अन्यांश् च राघव । भूतौघाञ् जगतीवाहं दृष्टवांस् तत्र पक्षिणः
दक्षिणस्कन्धशाखायां स्थितायां खे दवीयसि । अथाहं दृष्टवान् पुष्टपत्त्रायाम् अम्बरस्थितः
कालकाकोलवलयं मञ्जरीजालमालितम् । लोकालोकाचलारण्ये कल्पाभ्रौघम् इव स्थितम्
तत्र पश्याम्य् अहं यावद् एकत्र स्कन्धकोटरे । विचित्रकुसुमास्तीर्णे विविधामोदशालिनि
शक्रानिलयमार्केन्दुगृहबल्युपजीविनः । पुण्यकृद्योषितां स्वर्गे प्रियसूचकवाशिताः
अपरिक्षुभिताकारास् सभायां वायसास् स्थिताः । विभेद्यमेघा वातेन समेनेव प्रसारिताः
तेषां मध्ये स्थितश् श्रीमान् भुसुण्डः प्रोन्नताकृतिः । मध्ये सत्काचखण्डानाम् इन्द्रनील इवोन्नतः
परिपूर्णमना मानी समस् सर्वाङ्गसुन्दरः । प्राणस्पन्दावधानेन नित्यम् अन्तर्मुखस् सुखी
चिरजीवीति विख्यातश् चिरजीवितया तया । जगद्विदितदीर्घायुस् स भुसुण्ड इति श्रुतः
युगागमापायदशादर्शनप्रौढमानसः । प्रतिकल्पं च गणयन् खिन्नश् शक्रपरम्पराम्
जन्मनां लोकपालानां शौरिशक्रगरुत्मताम् । संस्मर्ता समतीतानां सुरासुरमहीभृताम्
प्रसन्नगम्भीरमनाः पेशलस्निग्धमुग्धवाक् । अवक्रवक्ता ज्ञाता च निर्ममो निरहङ्कृतिः
सुहृद् दान्तस् तथा मित्रं भृत्यः पुत्रो गुरुः प्रभुः । सर्वदा सर्वथा नित्यं सर्वं सर्वस्य संस्तवे
सोम्यः प्रसन्नमधुरो रसवान् महात्मा हृद्यस् सरोवर इवान्तर् अखण्डशैत्यः । हृत्पुण्डरीककुहरव्यवहारवेत्ता गाम्भीर्यम् अच्छम् अजहत् प्रकटाशयश्रीः
अथ तस्याहम् अपतं दीप्यमानवपुः पुरः । किञ्चिद्विक्षोभितसभं खान् नक्षत्रम् इवाचले
चुक्षोभ वायसास्थाननीलोत्पलसरः क्षणं । मत्पातमन्दवातेन भूकम्पेनेव सागरः
अशङ्कितम् अपि प्राप्ताद् दर्शनात् समनन्तरम् । भुसुण्डस् तु वसिष्ठो ऽयं प्राप्त इत्य् अवबुद्धवान्
पत्त्रपुञ्जात् समुत्तस्थौ मेघशाव इवाचलात् । हे मुने स्वागतम् इति प्रोवाच मधुराक्षरम्
सङ्कल्पमात्रजाताभ्यां कराभ्यां कुसुमाञ्जलिम् । मह्यम् आशु ददौ बालमेघो हैमम् इवोत्करम्
इदम् आसनम् इत्य् उक्त्वा नवं कल्पतरुच्छदम् । उपनीतवति त्यक्तभृत्ये वायसनायके
भुसुण्डानूत्थितेष्व् ईषच्चलपक्षेषु पक्षिषु । उपविष्टं मुनिं दृष्ट्वा स्वासनोन्मुखदृष्टिषु
ससभाखगवृन्देन भुसुण्डेन समं ततः । तस्मिन् कल्पलताकुञ्जे उपविष्टो ऽहम् आसने
अथ पाद्यादि दत्त्वा स भुसुण्डस् तुष्टमानसः । माम् उवाच महातेजास् सौहार्दमधुराक्षरम्
अहो भगवतास्माकं प्रसादो दर्शितश् चिरात् । दर्शनामृतसेकेन यत् सिक्तास् सद्रुमा वयम्
मत्पुण्यचिरसम्भारप्रेरितेन त्वयाधुना । मुने मान्यैकमान्येन कुत आगमनं कृतम्
कच्चिद् अस्मिन् महामोहे चिरं विहरतस् तव । अखण्डितैव समता स्थिता चेतसि पावने
किमर्थम् अद्यागमनक्लेशेनात्मा कदर्थितः । त्वद्वचश्श्रोतुकामानाम् आज्ञां नो दातुम् अर्हसि