क्रियापरास् तावद् अलं चक्रावृत्तिभिर् आदृताः । भ्रमन्तीह जना यावन् न पश्यन्ति परं पदम्
यथाभूतम् इमं दृष्ट्वा संसारं तन्मयीं धियम् । परित्यज्य परं यान्ति निरालाना गजा इव
विषमेयम् अनन्तेहा राम संसारसंसृतिः । देहमुक्ता महातन्तुर् विना ज्ञानं न नश्यति
ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् । महाधियस् समुत्तीर्णा नेतरेण रघूद्वह
ताम् इमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् । शृणुष्वावहितो बुद्ध्या नित्यावहितयानया
यस्माद् अनन्तसंरम्भा जगतो दुःखरीतयः । चिरायान्तर् दहन्त्य् एता विना युक्तिम् अनिन्दित
शीतवातातपादीनि द्वन्द्वदुःखानि राघव । ज्ञानयुक्तिं विना केन सह्यतां यान्ति साधुषु
आपतन्ति प्रतिपदं यथाकालं दहन्ति च । दुःखचिन्ता नरं मूढं तृणम् अग्निशिखा इव
प्राज्ञं विज्ञातविज्ञानं सम्यग्दर्शिनम् आधयः । न दहन्ति वनं वर्षदब्दम् अग्निशिखा इव
आधिव्याधिपरावर्ते संसारमरुमारुते । क्षुभिते ऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत्
तत्त्वं ज्ञातुम् अतो यत्नाद् धीमान् एव हि धीमता । प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितं
प्रामाणिकस्य पृष्टस्य वक्तुर् उत्तमचेतसा । यत्नेन वचनं ग्राह्यम् अंशुकेनेव कुङ्कुमम्
अतत्त्वज्ञम् अनादेयवचनं वाग्विदां वर । यः पृच्छति नरं तस्मान् नास्ति मूढतरो ऽपरः
प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः । नानुतिष्ठति यो वाक्यं नान्यस् तस्मान् नराधमः
तज्ज्ञतातज्ज्ञते पूर्वं वक्तुर् निर्णीय कार्यतः । यः करोति नरः प्रश्नं पृच्छकस् स महामतिः
अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः । अधमः पृच्छकस् स स्यान् न महार्थस्य भाजनम्
पूर्वापरसमाधानक्षमबुद्धाव् अनिन्दिते । पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि
प्रामाणिकार्थयोग्यत्वं पृच्छकस्याविचार्य वा । यो वक्ति तम् इह प्राज्ञाः प्राहुर् मूढतमं नरम्
त्वम् अतीव गुणाधारः पृच्छको रघुनन्दन । अहं च वक्तुं जानामि स च योगो ऽयम् आवयोः
यद् अहं वच्मि तद् यत्नात् त्वया शब्दार्थकोविद । एतद् वस्त्व् इति निर्णीय हृदि कार्यम् अखण्डितं
महान् असि विरक्तो ऽसि तज्ज्ञो ऽसि जनतास्थितौ । त्वयि वस्तु लगत्य् अन्तः कुङ्कुमाम्बु यथांशुके
उक्तावधानपरमा परमार्थविवेचनी । विशत्य् अर्थं तव प्रज्ञा जलमध्यम् इवार्कभा
यद् यद् वच्मि तवादेयं हृदि कार्यं प्रयत्नतः । न चेत् प्रष्टव्य एवाहं न त्वयेह निरर्थकम्
मनो हि चपलं राम संसारवनमर्कटम् । संरोध्य हृदि यत्नेन श्रोतव्या परमार्थधीः
अविवेकिनम् अज्ञानम् असज्जनरतिं जनम् । चिरं दूरतरं कृत्वा पूजनीया हि साधवः
नित्यं सज्जनसम्पर्काद् विवेक उपजायते । विवेकपादपस्यैते भोगमोक्षौ फले स्मृते
मोक्षद्वारे द्वारपालाश् चत्वारः परिकीर्तिताः । शमो विचारस् सन्तोषश् चतुर्थस् साधुसङ्गमः
एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयो ऽथ वा । द्वारम् उद्घाटयन्त्य् एते मोक्षराजगृहे बलात्
एकं वा सर्वयत्नेन प्राणांस् त्यक्त्वा समाश्रयेत् । एतस्मिन् वशगे यान्ति चत्वारो ऽपि वशं यतः
सविवेको हि शास्त्रस्य ज्ञानस्य तपसो द्युतेः । भाजनं भूषणाकारो भास्करस् तेजसाम् इव