उत्क्रान्तिं कुर्वतो मेरोर् ब्रह्मनाड्येव निर्गतम् । मूर्धानम् आगतं कान्तं वाडवं जठरानलम्
सुमेरुवनदेव्येव नवालक्तकरञ्जितम् । लीलयादातुम् इन्दुं खे नीतं हस्तं शिखाङ्गुलिम्
ज्वालाभिर् इव मालाभिर् अरुणाभिः पयोमुचाम् । खं गन्तुम् इव सस्पन्दं शैलस्थम् इव वाडवम्
तारास् स्प्रष्टुम् इवाकाशम् अङ्गुलीभिर् इवाश्रिभिः । कचदंशुनखाग्राभिः परिचुम्बद् इवोन्नतम्
कचद्रत्नशिलाश्वभ्रं भास्वत्कनककन्दरम् । सरत्कुसुमरेण्वभ्रं भ्रमद्विद्याधरामरम्
क्वणद्वंशलसद्वातं नृत्यद्रत्नलताङ्गनम् । गर्जज्जीमूतमुरजं भूभृतो नाट्यमण्डपम्
हसत्कुसुमगुच्छाढ्यं ध्वनत्षट्पदपेटकम् । दन्ततालं दलावल्या परिहासाद् इव स्फुटम्
दोलालोलाप्सरोवृन्दम् उद्दाममदमन्मथम् । शिलाविश्रान्तविबुधं मिथुनाश्रितकन्दरम्
वराम्बराजिनं शुभ्रं गङ्गायज्ञोपवीति च । तापसं पिङ्गलम् इव वेणुदण्डधरं स्थितम्
गङ्गानिर्झरनिर्ह्रादि लतागृहगतामरम् । गन्धर्वगीतसुभगम् आमोदिमधुरानिलम्
फुल्लहेमाम्बुजोत्तंसं तारारत्नविभूषितम् । व्योम्नः पारम् इव प्राप्तं पिङ्गलं मैरवं शिरः
सितहरितपीतपाटलधवलैर् मणिकुसुमराशिनवरङ्गैः । विधिविहितामलचित्रं लीलाचलम् अमरयुवतिलोकस्य
कुसुमापूर्णकल्पाभ्रकुन्तले तस्य मूर्धनि । कल्पागम् अहम् अद्राक्षं शिखाचक्रम् इव स्थितम्
पुष्परेण्वभ्रवलितं रत्नस्तबकदन्तुरम् । उत्सेधनिर्जिताकाशं शृङ्गे शृङ्गम् इवार्पितम्
ताराद्विगुणपुष्पौघं मेघद्विगुणपल्लवम् । रश्मिद्विगुणरेण्वभ्रं तडिद्द्विगुणपिञ्जरम्
स्कन्धेषु किन्नरीगीतद्विगुणभ्रमरीस्वनम् । दोलालोलाप्सरोलोकद्विगुणीकृतसल्लतम्
सिद्धगन्धर्वसङ्घातद्विगुणाग्र्यविहङ्गमम् । रत्नकान्त्यच्छनीहारद्विगुणत्वग्वृतांशुकम्
चन्द्रबिम्बसमाश्लेषद्विगुणाग्र्यबृहत्फलम् । मूकसंलीनकल्पाभ्रद्विगुणीकृतपर्वकम्
सुरसंवलितस्कन्धं पत्त्रविश्रान्तकिन्नरम् । निकुञ्जकूजज्जीमूतं कच्छसुप्तसुरार्भकम्
स्वाकारविपुलान् भृङ्गान् उत्सार्य वलयस्वनैः । अप्सरोभ्रमरीभिश् च गृहीतकुसुमान्तरम्
सुरकिन्नरगन्धर्वविद्याधरवरान्वितम् । जगद्वार्क्षीम् इव गतं दशाम् आकाशपूरणीम्
नीरन्ध्रकलिकाजालं नीरन्ध्रमृदुपल्लवम् । नीरन्ध्रविकसत्पुष्पं नीरन्ध्रफलमालितम्
नीरन्ध्रमञ्जरीपुञ्जं नीरन्ध्रमणिगुच्छकम् । नीरन्ध्रांशुकरत्नाढ्यं लताविकसनाकुलम्
सर्वर्तुकुसुमापूरैस् सर्वर्तुफलपल्लवैः । सर्वामोदरजःपुञ्जैः परं वैचित्र्यम् आगतम्
तस्य कच्छेषु कुञ्जेषु लतापत्त्रेषु पर्वसु । पुष्पेष्व् आलयसंलीनान् विहगान् दृष्टवान् अहम्
निशानाथकलाखण्डमृणालशकलैधितान् । अजनाभ्यब्जिनीकन्दभोजनान् ब्रह्मसारसान्
विरिञ्चरथहंसानां पोतकान् सामगायिनः । ओंकारवेदसुहृदो ब्राह्मपद्मबिसाशिनः
उद्गीर्णमन्त्रनिचयान् स्वाहाकारनिजस्वनान् । सुस्थिरैकतडित्पुञ्जनीलमेघसमोपमान्
देवान् इवाज्यपान् नित्यं यज्ञवेदीलतादलान् । शुकान् कार्शानवाञ् श्यामाञ् शिशूञ् शिखिशिखाशिखान्
गौरीरक्षितबर्हौघान् कौमारान् वरबर्हिणः । स्कन्दोपन्यस्तनिश्शेषशैवविज्ञानकोविदान्