व्यपगतमदमोहो मानमात्सर्यमुक्तश् चिरतरम् उदितात्मा शान्तशोकश् चिरेण । पुनर् असुखम् अगच्छन् स्वच्छयैकान्तबुद्ध्या वदसि यद् असि साधो तत् करिष्ये विशङ्कम्
सम्यग्ज्ञानविलासेन वासनाविलयोदये । जीवन्मुक्तपदे ब्रह्मन् वद विश्रम्यते कथम्
संसारोत्तरणे युक्तिर् योगशब्देन कथ्यते । तां विद्धि द्विप्रकारां त्वं चित्तोपशमधर्मिणीम्
आत्मज्ञानं प्रकारो ऽस्या एकः प्रकथितो भुवि । द्वितीयः प्राणसंरोधश् शृणु सो ऽयं मयोच्यते
सुलभत्वाद् अदुःखत्वात् कतरश् शोभनो ऽनयोः । येनावगतमात्रेण भूयः क्षोभो न बाधते
प्रकारौ द्वाव् अपि प्रोक्तौ योगशब्देन यद्य् अपि । तथापि रूढिम् आयातः प्राणयुक्ताव् असौ भृशम्
एवं योगस् तथा ज्ञानं संसारोत्तरणक्रमे । समाव् उपायौ द्वाव् एव प्रोक्ताव् एकफलप्रदौ
असाध्यः कस्यचिद् योगः कस्यचिज् ज्ञाननिश्चयः । मम त्व् अभिमतस् साधो सुसाधो ज्ञानजः क्रमः
यज् ज्ञातं न तद् अज्ञातं स्वप्नेष्व् अपि पुनर् भवेत् । ज्ञानं सर्वास्व् अवस्थासु नित्यम् एव प्रवर्तते
धारणासनदेशादिसाध्यत्वेन सुसाधतां । नायाति योगो ह्य् अथ वा विकल्पो नैष शोभनः
द्वाव् एव किल यत्नोत्थौ ज्ञानयोगौ रघूद्वह । तत्रोक्तं भवतो ज्ञानम् अन्तस्स्थज्ञेयनिर्मलम्
प्राणापानरथारूढो गूढदेहगुहाशयः । अनन्तसिद्धिदस् साधो योगो ऽयं प्रोच्यते शृणु
मुखानिलस्फुरणनिरोधसम्भवे स्थितिं गते नृपसुत चेतसः क्षये । समाहितस्थितिर् इह योगयुक्तितः परे पदे विगलितभीर् निवत्स्यसि
अस्ति तावद् अनन्तस्य खस्य क्वचिद् अयं किल । जगद्रूपः परिस्पन्दो मृगतृष्णा मराव् इव
तत्र कारणतां यातो ब्रह्मा कमलसम्भवः । स्थितः पितामहत्वेन सृष्टभूतभरभ्रमः
तस्याहं मानसः पुत्रो वसिष्ठश् श्रेष्ठचेष्टितः । ऋक्षचक्रे ध्रुववृते निवसामि युगं प्रति
सो ऽहं कदाचिद् आस्थाने स्वर्गे तिष्ठञ् शतक्रतोः । श्रुतवान् नारदादिभ्यः कथां सुचिरजीविनाम्
कथाप्रसङ्गे कस्मिंश्चिद् अथ तत्राभ्युवाच ह । शातातपो नाम मुनिर् मौनी मानी महामतिः
मेरोर् ईशानकोणस्थपद्मरागमये दिवि । अस्ति कल्पतरुश् श्रीमाञ् शृङ्गे चूड इति श्रुतः
तस्य कल्पतरोर् मूर्ध्नि दक्षिणस्कन्धकोटरे । कलधौतलताप्रान्ते विद्यते विहगालयः
तस्मिन् निवसति श्रीमान् भुसुण्डो नाम वायसः । वीतरागो बृहत्कोशे ब्रह्मेव निजपङ्कजे
स यथा जगतः कोशे जीवतीह सुराश् चिरम् । चिरजीवी तथा स्वर्गे न भूतो न भविष्यति
स दीर्घायुस् स नीरोगस् स श्रीमान् स महामतिः । स विश्रान्तमतिश् शान्तस् स कान्तः कालकोविदः
स यथा जीवति खगस् तथेह यदि जीव्यते । तद् भवेज् जीवितं पुंसां दीर्घं चादेयम् एव च
इति तेन भुसुण्डो ऽसौ भूयःपृष्टेन वर्णितः । यथावद् एव देवानां सभायां सत्यमूर्तिना
कथावसरसंशान्ताव् अथ याते सुरव्रजे । भुसुण्डविहगं द्रष्टुम् अहं यातः कुतूहलात्
भुसुण्डस् संस्थितो यत्र मेरोश् शृङ्गं तद् उन्नतम् । सम्प्राप्तवान् क्षणेनाहं पद्मरागमयं बृहत्
द्रुतगैरिककान्तेन तेजसा वह्निवर्चसा । मध्वासवरसेनेव रञ्जयन् ककुभां गणम्
कल्पान्तज्वलनज्वालापिण्डाद्रिम् इव सञ्चितम् । इन्द्रनीलशिलाधूमम् आलोकारुणिताम्बरम्
सर्वेषाम् एव रागाणां राशिम् अद्राव् इव स्थितम् । सर्वसन्ध्याभ्रजालानां घनम् एकम् इवाकरम्