शब्दरूपरसस्पर्शगन्धैर् आभासम् आगतम् । तेनैव रहितं शान्तं चिदात्मानम् उपास्महे
महामहिम्ना सहितम् अहतं सर्वकर्तृभिः । कर्तृत्वेनाप्य् अकर्तारं चिदात्मानम् उपास्महे
अखिलम् इदम् अहं ममैव सर्वं त्व् अहम् अपि नाहम् अथेतरच् च नाहम् । इति विदितवतो जगत् क्षतं मे स्थिरम् अथ वास्तु गतज्वरो भवामि
इति निश्चयवन्तस् ते महान्तो विगतैनसः । सत्यासत्यपदे शान्ते समे सुखम् अवस्थिताः
इति पूर्णधियो धीरास् समनीरागचेतसः । न निन्दन्ति न नन्दन्ति जीवितं मरणं तथा
इत्य् अलङ्घ्यचमत्कारा नारायणभुजा इव । रेजुर् अस्खलिताकारा अपरा इव मेरवः
रेमिरे वनषण्डेषु द्वीपेषु नगरेषु च । देवोपवनमालासु स्वर्गेषु च सुरा इव
भ्रेमुः कुसुमपूर्णासु दोलालीलाबिलासु च । विचित्रवनलेखासु मेरुशृङ्गशिलासु च
चक्रुर् विजितशत्रूणि चामरच्छत्रवन्ति च । विचित्रार्थानि राज्यानि चित्राचारमयानि च
अनुजग्मुर् इमां सर्वां नानारसविचेष्टिताम् । श्रुतिस्मृत्युदितारम्भाम् इतिकर्तव्यताम् इह
विलेसू रमणीयेषु ललनालास्यहारिषु । विहाराहाररम्येषु भोगाभोगेषु भूषिताः
विचेरुश् चारुचूतासु मन्दारवलितासु च । अप्सरोगीतपूर्णासु नन्दनोद्यानभूमिषु
ऊषुर् आचारपूतेषु विश्रान्ताखिलजन्तुषु । यज्ञक्रियाकरालेषु गार्हस्थ्येषु यथाक्रमम्
तेरुर् हतगजेन्द्रासु भ्रान्तभूरिशरासु च । भेरीभाङ्कारभीमासु सङ्ग्रामार्णववीचिषु
तस्थुः पुरुषचिन्तासु हृतचित्तोद्धतासु च । संरम्भक्षोभरौद्रासु सर्वासु द्वन्द्वनीतिषु
मनस् तेषां तु नीरागम् अनुपाधि गतभ्रमम् । असक्तम् उत्तमं शान्तं परं सत्त्वपदं गतम्
न ममज्ज क्वचिद् अपि सङ्कटेषु महत्सु च । मुहुर् अप्य् उपयातेषु कुलशैलस् सरस्स्व् इव
नोल्ललास विलासिन्या श्रिया परमकान्तया । परिपूर्णेन्दुलक्ष्म्येव जलराशी रघूद्वह
न मम्लौ दुःखशोषेण ग्रीष्मेणेव वनस्थलम् । जहर्ष च न भोगौघैर् अवश्यायैर् इवौषधिः
ते हि केवलम् अव्यग्राः कुर्वन्तः कार्यपञ्जरम् । इष्टानिष्टफलं राम नाभिलेषुर् न तत्यजुः
नोदगुः कार्यसम्पत्ताव् आक्रान्ता नास्तम् आययुः । जहृषुर् न सुखप्राप्तौ मम्लुर् नैव च सङ्कटे
मुमुहुर् न विमोहेषु ममज्जुर् न विपत्क्रमे । शुशुचुर् न शुचा शोके रुरुदुर् न भवान् इव
प्रकृताचारसम्प्राप्तं कुर्वन्तः कर्म केवलम् । स्थिता विगतसंरम्भम् अपरा इव मेरवः
तां त्वं दृष्टिम् अवष्टभ्य राघवाघविघातिनीम् । अनहङ्कृत्यलङ्कारो विहरेह यथासुखम्
यथाभूताम् इमाम् एवं पश्यन् सर्गपरम्पराम् । मेरुस्थिरो ऽब्धिगम्भीरस् समास्स्व विगतभ्रमः
चिन्मात्रं सर्वम् एवेदम् इत्थम् आभासतां गतम् । नेह सत्यम् असत्यं वा क्वचिद् अप्य् अस्ति किञ्चन
महत्ताम् अलम् आलम्ब्य त्यक्त्वेदम् अवहेलया । असक्तबुद्धिस् सर्वत्र भव भव्य भवक्षयी
किं रोदिषि घनोद्वेगं मूढवच् चानुशोचसि । भ्रमस्य् उद्भ्रान्तचित्तं च सोम्यावर्ते तृणं यथा
अहो नु भगवन् नूनं सम्यग्रूपं विलक्षये । त्वत्प्रसादात् प्रबुद्धो ऽस्मि सूर्यासङ्गाद् इवाम्बुजम्
भ्रान्तिर् अस्तङ्गता नूनं मिहिका शरदीव मे । संशान्ताखिलसन्देहः करिष्ये वचनं तव