सर्वावयवविश्रान्तं समस्तावयवातिगम् । अनारतं कचद्रूपं चिदात्मानम् उपास्महे
घटे पटे तटे कुड्ये स्वदमानं सदा तनौ । जाग्रत्य् अपि सुषुप्तस्थं चिदात्मानम् उपास्महे
उष्णम् अग्नौ हिमे शीतं मृष्टम् अन्ने शितं क्षुरे । कृष्णं ध्वान्ते सितं चन्द्रे चिदात्मानम् उपास्महे
मधुरादिषु माधुर्यं तीक्ष्णादिषु च तीक्ष्णताम् । गतं पदार्थशक्त्यर्थं चिदात्मानम् उपास्महे
जाग्रत्स्वप्नसुषुप्तेषु तुर्ये तुर्यातिगे पदे । समं सदैव सर्वत्र चिदात्मानम् उपास्महे
प्रशान्तसर्वसङ्कल्पं विगताखिलकौतुकम् । विरताशेषसंरम्भं चिदात्मानम् उपास्महे
निष्कौतुकं निरालम्बं निरीहं सर्वम् एव च । निरंशं निरहङ्कारं चिदात्मानम् उपास्महे
सर्वस्यान्ते स्थितं सर्वम् अप्य् अपारैकरूपिणम् । अपर्यन्तं चिदारम्भं चिदात्मानम् उपास्महे
त्रैलोक्यदेहमुक्तानां तन्तुम् उत्तमम् आततम् । प्रसारसङ्कोचकरं चिदात्मानम् उपास्महे
लीनम् अन्तर् बहिश् चोग्रं क्रोडीकृत्य जगत्खगम् । चित्रं बृहज्जालम् इव चिदात्मानम् उपास्महे
सर्वं यत्रेदम् अस्त्य् एव नास्त्य् एव च मनाग् अपि । सदसद्भूतम् एकं तच् चिदात्मानम् उपास्महे
परमं प्रत्ययं पूर्णम् आस्पदं सर्वसंविदाम् । सर्वाकारविहारस्थं चिदात्मानम् उपास्महे
चर्ममर्मसिराबद्धदेहदुर्यन्त्रवाहकम् । अकलं सकलाधारं चिदात्मानम् उपास्महे
निष्कलं षोडशकलं कलनाकारवर्जितम् । सर्वाकारं नकिञ्चिच् च चिदात्मानम् उपास्महे
हृत्कण्ठतालुमध्यस्थं भ्रूनासापुटकोटिगम् । गमागमोत्कप्राणस्थं चिदात्मानम् उपास्महे
हृत्पद्मकोटरान्तस्स्थं सर्वावयवकोशगम् । भुवनाडम्बरादर्शं चिदात्मानम् उपास्महे
अशिरस्कहकारान्तम् आभास्वरम् अखण्डितम् । भूषणं सर्वभूतीनां चिदात्मानम् उपास्महे
स्नेहाधारदशाशान्तिमुखवाताहतिभ्रमैः । युक्तं मुक्तं च चिद्दीपं बहिर् अन्तर् उपास्महे
हृत्सरःपद्मिनीकन्दतन्तुं सर्वाङ्गरञ्जकम् । जनताजीवितोपायं चिदात्मानम् उपास्महे
अक्षीरार्णवसम्भूतम् अशशाङ्काशयस्थितम् । अहार्यम् अमृतं सत्यं चिदात्मानम् उपास्महे
शब्दरूपरसस्पर्शगन्धैर् आभासम् आगतम् । तेनैव रहितं शान्तं चिदात्मानम् उपास्महे
महामहिम्ना सहितम् अहतं सर्वकर्तृभिः । कर्तृत्वेनाप्य् अकर्तारं चिदात्मानम् उपास्महे
अखिलम् इदम् अहं ममैव सर्वं त्व् अहम् अपि नाहम् अथेतरच् च नाहम् । इति विदितवतो जगत् क्षतं मे स्थिरम् अथ वास्तु गतज्वरो भवामि
इति निश्चयवन्तस् ते महान्तो विगतैनसः । सत्यासत्यपदे शान्ते समे सुखम् अवस्थिताः
इति पूर्णधियो धीरास् समनीरागचेतसः । न निन्दन्ति न नन्दन्ति जीवितं मरणं तथा
इत्य् अलङ्घ्यचमत्कारा नारायणभुजा इव । रेजुर् अस्खलिताकारा अपरा इव मेरवः
रेमिरे वनषण्डेषु द्वीपेषु नगरेषु च । देवोपवनमालासु स्वर्गेषु च सुरा इव
भ्रेमुः कुसुमपूर्णासु दोलालीलाबिलासु च । विचित्रवनलेखासु मेरुशृङ्गशिलासु च
चक्रुर् विजितशत्रूणि चामरच्छत्रवन्ति च । विचित्रार्थानि राज्यानि चित्राचारमयानि च
अनुजग्मुर् इमां सर्वां नानारसविचेष्टिताम् । श्रुतिस्मृत्युदितारम्भाम् इतिकर्तव्यताम् इह