पुंसां क्षेत्रशतोत्थानाम् इक्षूणां स्वादुवत् स्थितः । सर्वेषाम् एकरूपो ऽन्तश् चिद्ब्रह्मास्मि समस् स्थितः
सर्वगा प्रकृतौ सूक्ष्मरूपा भानोर् इव प्रभा । आलोककारिणी कान्ता चिद्ब्रह्मेदम् अहं ततम्
सम्भोगानन्दलववद् अमृतास्वादशक्तिवत् । स्वानुभूत्येकमानो ऽन्तश् चिद्ब्रह्मास्मि सद् अव्ययः
प्रोताङ्गम् अपि गुप्तस्थं देहे तन्तुर् बिसे यथा । छेदभेदे स्फुरद्रूपं चिद्ब्रह्माहम् अनामयः
आक्रान्तभुवनाप्य् अभ्रमालेव स्पन्दशालिनी । दुर्लक्ष्याणुमयाकारा चिच्छक्तिर् अहम् आतता
अनुभूतिमयान्तस्स्थस्नेहमात्रोपलक्षिता । क्षीरान्तर्घृतसत्तेव चिद् अहं क्षयवर्जिता
कटकाङ्गदकेयूररचना तदतन्मयी । हेम्नीव संस्थिता देहे चिद् ब्रह्मात्मास्मि सर्वगम्
पदार्थौघस्य शैलादेर् बहिर् अन्तश् च संस्थिता । सत्तासामान्यरूपेण या चित् साहम् अलेपकः
सर्वासाम् अनुभूतीनाम् आदर्शो यो ह्य् अकृत्रिमः । अगम्यो मललेखानां तच् चित्तत्त्वम् अहं महत्
सर्वसङ्कल्पफलदं सर्वतेजःप्रकाशकम् । सर्वोपादेयसीमान्तं चिदात्मानम् उपास्महे
सर्वावयवविश्रान्तं समस्तावयवातिगम् । अनारतं कचद्रूपं चिदात्मानम् उपास्महे
घटे पटे तटे कुड्ये स्वदमानं सदा तनौ । जाग्रत्य् अपि सुषुप्तस्थं चिदात्मानम् उपास्महे
उष्णम् अग्नौ हिमे शीतं मृष्टम् अन्ने शितं क्षुरे । कृष्णं ध्वान्ते सितं चन्द्रे चिदात्मानम् उपास्महे
मधुरादिषु माधुर्यं तीक्ष्णादिषु च तीक्ष्णताम् । गतं पदार्थशक्त्यर्थं चिदात्मानम् उपास्महे
जाग्रत्स्वप्नसुषुप्तेषु तुर्ये तुर्यातिगे पदे । समं सदैव सर्वत्र चिदात्मानम् उपास्महे
प्रशान्तसर्वसङ्कल्पं विगताखिलकौतुकम् । विरताशेषसंरम्भं चिदात्मानम् उपास्महे
निष्कौतुकं निरालम्बं निरीहं सर्वम् एव च । निरंशं निरहङ्कारं चिदात्मानम् उपास्महे
सर्वस्यान्ते स्थितं सर्वम् अप्य् अपारैकरूपिणम् । अपर्यन्तं चिदारम्भं चिदात्मानम् उपास्महे
त्रैलोक्यदेहमुक्तानां तन्तुम् उत्तमम् आततम् । प्रसारसङ्कोचकरं चिदात्मानम् उपास्महे
लीनम् अन्तर् बहिश् चोग्रं क्रोडीकृत्य जगत्खगम् । चित्रं बृहज्जालम् इव चिदात्मानम् उपास्महे
सर्वं यत्रेदम् अस्त्य् एव नास्त्य् एव च मनाग् अपि । सदसद्भूतम् एकं तच् चिदात्मानम् उपास्महे
परमं प्रत्ययं पूर्णम् आस्पदं सर्वसंविदाम् । सर्वाकारविहारस्थं चिदात्मानम् उपास्महे
चर्ममर्मसिराबद्धदेहदुर्यन्त्रवाहकम् । अकलं सकलाधारं चिदात्मानम् उपास्महे
निष्कलं षोडशकलं कलनाकारवर्जितम् । सर्वाकारं नकिञ्चिच् च चिदात्मानम् उपास्महे
हृत्कण्ठतालुमध्यस्थं भ्रूनासापुटकोटिगम् । गमागमोत्कप्राणस्थं चिदात्मानम् उपास्महे
हृत्पद्मकोटरान्तस्स्थं सर्वावयवकोशगम् । भुवनाडम्बरादर्शं चिदात्मानम् उपास्महे
अशिरस्कहकारान्तम् आभास्वरम् अखण्डितम् । भूषणं सर्वभूतीनां चिदात्मानम् उपास्महे
स्नेहाधारदशाशान्तिमुखवाताहतिभ्रमैः । युक्तं मुक्तं च चिद्दीपं बहिर् अन्तर् उपास्महे
हृत्सरःपद्मिनीकन्दतन्तुं सर्वाङ्गरञ्जकम् । जनताजीवितोपायं चिदात्मानम् उपास्महे
अक्षीरार्णवसम्भूतम् अशशाङ्काशयस्थितम् । अहार्यम् अमृतं सत्यं चिदात्मानम् उपास्महे