खण्डादिस्वादुसंवित्तिर् ईषद् यत्रानुतिष्ठति । चित्तादिष्व् अप्य् अबुद्धेषु तच् चिद्ब्रह्माहम् अच्युतः
कान्तासंसक्तचित्तस्य चन्द्रे समुदिते सति । चन्द्रप्रत्ययसत्तात्म चिद्ब्रह्माहम् अनामयम्
भूमिष्ठनरदृष्टीनां लग्नानां खे निशाकरे । या खस्था तन्तुवच् छक्तिस् तच् चिद्ब्रह्मास्मि निर्मलम्
सुखदुःखादिकलनाविकलं निर्मनस् तथा । सत्यानुभवरूपात्म चिद्ब्रह्मात्मास्मि शाश्वतम्
असंस्तुताध्वगालोके मनस्य् अन्यत्र संस्थिते । या प्रतीतिर् अनागस्का तच् चिद्ब्रह्मास्मि सर्वगः
भूवार्यनिलबीजानां सम्बन्धे ऽङ्कुरकर्मसु । शक्तिर् उद्गमनी यान्तस् तच् चिद्ब्रह्माहम् आततम्
खर्जूरनिम्बबिम्बानां स्वयम् आत्मनि तिष्ठताम् । यास्वादसत्ता लीनान्तस् तद् ब्रह्म चिद् अहं समम्
खेदानन्दविमुक्तान्तस् संविन् निर्मननोदया । लाभालाभविधौ तुल्या चिद्ब्रह्मास्मि निरामयम्
यावद् भूमेर् ध्रुवस् तावद् दृष्टिसूत्रं यद् आततम् । तन्मध्यसदृशं शान्तं निर्मलं चिद् अहं ततम्
जाग्रत्य् अपि सुषुप्ते ऽपि स्वप्ने ऽपि सततोदितम् । तुर्यरूपम् अनाद्यन्तं चिद्ब्रह्माहम् अनामयः
पुंसां क्षेत्रशतोत्थानाम् इक्षूणां स्वादुवत् स्थितः । सर्वेषाम् एकरूपो ऽन्तश् चिद्ब्रह्मास्मि समस् स्थितः
सर्वगा प्रकृतौ सूक्ष्मरूपा भानोर् इव प्रभा । आलोककारिणी कान्ता चिद्ब्रह्मेदम् अहं ततम्
सम्भोगानन्दलववद् अमृतास्वादशक्तिवत् । स्वानुभूत्येकमानो ऽन्तश् चिद्ब्रह्मास्मि सद् अव्ययः
प्रोताङ्गम् अपि गुप्तस्थं देहे तन्तुर् बिसे यथा । छेदभेदे स्फुरद्रूपं चिद्ब्रह्माहम् अनामयः
आक्रान्तभुवनाप्य् अभ्रमालेव स्पन्दशालिनी । दुर्लक्ष्याणुमयाकारा चिच्छक्तिर् अहम् आतता
अनुभूतिमयान्तस्स्थस्नेहमात्रोपलक्षिता । क्षीरान्तर्घृतसत्तेव चिद् अहं क्षयवर्जिता
कटकाङ्गदकेयूररचना तदतन्मयी । हेम्नीव संस्थिता देहे चिद् ब्रह्मात्मास्मि सर्वगम्
पदार्थौघस्य शैलादेर् बहिर् अन्तश् च संस्थिता । सत्तासामान्यरूपेण या चित् साहम् अलेपकः
सर्वासाम् अनुभूतीनाम् आदर्शो यो ह्य् अकृत्रिमः । अगम्यो मललेखानां तच् चित्तत्त्वम् अहं महत्
सर्वसङ्कल्पफलदं सर्वतेजःप्रकाशकम् । सर्वोपादेयसीमान्तं चिदात्मानम् उपास्महे
सर्वावयवविश्रान्तं समस्तावयवातिगम् । अनारतं कचद्रूपं चिदात्मानम् उपास्महे
घटे पटे तटे कुड्ये स्वदमानं सदा तनौ । जाग्रत्य् अपि सुषुप्तस्थं चिदात्मानम् उपास्महे
उष्णम् अग्नौ हिमे शीतं मृष्टम् अन्ने शितं क्षुरे । कृष्णं ध्वान्ते सितं चन्द्रे चिदात्मानम् उपास्महे
मधुरादिषु माधुर्यं तीक्ष्णादिषु च तीक्ष्णताम् । गतं पदार्थशक्त्यर्थं चिदात्मानम् उपास्महे
जाग्रत्स्वप्नसुषुप्तेषु तुर्ये तुर्यातिगे पदे । समं सदैव सर्वत्र चिदात्मानम् उपास्महे
प्रशान्तसर्वसङ्कल्पं विगताखिलकौतुकम् । विरताशेषसंरम्भं चिदात्मानम् उपास्महे
निष्कौतुकं निरालम्बं निरीहं सर्वम् एव च । निरंशं निरहङ्कारं चिदात्मानम् उपास्महे
सर्वस्यान्ते स्थितं सर्वम् अप्य् अपारैकरूपिणम् । अपर्यन्तं चिदारम्भं चिदात्मानम् उपास्महे
त्रैलोक्यदेहमुक्तानां तन्तुम् उत्तमम् आततम् । प्रसारसङ्कोचकरं चिदात्मानम् उपास्महे
लीनम् अन्तर् बहिश् चोग्रं क्रोडीकृत्य जगत्खगम् । चित्रं बृहज्जालम् इव चिदात्मानम् उपास्महे